प्। १५८)
प्रणम्य शिरसा देवं पृच्छतिस्म पितामहः ।
परिवारं कथं देव तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥
ईश्वरः ॥
यत्सर्वं तु त्वया पृष्ठं श्रूयतां कमलासनम् ।
परिवारं प्रवक्ष्यामि यथाविधि पुरस्सरम् ॥ २ ॥
अन्तर्मण्डलके कुर्याद् देशे चण्डेश्वरालयम् ।
पुरतो वृषभस्थानं स्थापयेद्वृषभं ततः ॥ ३ ॥
आग्नेय्यां चैव देशे तु दुर्गां स्थाप्य विशेषतः ।
ईशान्यां शैव विप्रेन्द्र भास्करं विन्यसेत्ततः ॥ ४ ॥
एवं * * * हारे तु विन्यसेदष्टदैवतान् ।
इदमन्यप्रकारेण वक्ष्येहं चतुरानन ! ॥ ५ ॥
पश्चिमद्वारगेहस्य वृष पश्चिमे वृषभे न्यसेत् ।
दक्षिणे मातृदेवांश्च विघ्नेशं नैर्-ऋते तथा ॥ ६ ॥
वारुण्यां स्थापयेत्तत्र कुमारं वाप्यजं भवेत् ।
ज्येष्ठां वायव्यदेशे तु विष्णुं चोत्तरदेशके ॥ ७ ॥
वायव्यां चैव ज्येष्ठां च सर्वयत्नेन देशिकः ।
उत्तरायां दिशि चैव दुर्गां देवीं च विन्यसेत् ॥ ८ ॥
ऐशान्यां चैव विप्रेन्द्र क्षेत्रपालो विधीयते ।
पूर्वे तु भार्गवस्थानं कुमारं * * * * * ॥ ९ ॥
दुर्गां चैवेश दिग्भागे भास्करं पूर्वतो न्यसेत् ।
आग्नेय्यां गणपतिंस्थाप्य विन्यसेत्तु दैवतान् ॥ १० ॥
प्। १५९)
उत्तरद्वारगेहस्य उत्तरे वृषगोचरे ।
दक्षिणद्वारगेहस्य दक्षिणे वृषभालयम् ॥ ११ ॥
मातृस्थानं च नैर्-ऋत्यां सुब्रह्मण्यं तु वारुणे ।
ज्येष्ठां च वायुदेशे तु (उत्तरे) विष्णुरुच्यते ॥ १२ ॥
ऐशान्यां भास्करं न्यस्य पूर्वन्ते विष्णुरुच्यते ।
दुर्गामाग्नेयदिग्भागे क्षेत्रपालं तु विन्यसेत् ॥ १३ ॥
इन्द्र आग्नेययोर्मध्ये अश्विनी द्वौ तु विन्यसेत् ।
मर्यादा वीरदिग्भागे याम्ये मातृगणाः स्मृता ॥ १४ ॥
नैर्-ऋत्यां विघ्नराजं तु कुमारं वारुणे भवेत् ।
वायव्यां विन्यसेज्ज्येष्ठां विशेषेण विचक्षणः ॥ १५ ॥
एवमेव क्रमेणैव अन्तर्हारे तु विन्यसेत् ।
षोडशद्वारदेवांश्च वक्ष्यामि मुनिसत्तम ॥ १६ ॥
दक्षिणानलयोर्मध्ये सप्तरोहिणी विन्यसेत् ।
यमनैर्-ऋतयोर्मध्ये वसवोऽष्टौ च विन्यसेत् ॥ १७ ॥
सोम ईशानयोर्मध्ये अप्सरोगणमुच्यते ।
वरुण वायव्ययोर्मध्ये ऋषीणां स्थानमुच्यते ॥ १८ ॥
वायव्यसोमयोर्मध्ये वसवोऽष्टौ च विन्यसेत् ।
सोम ईशानयोर्मध्ये अष्टनागं प्रकल्पयेत् ॥ १९ ॥
इन्द्र-ईशानयोर्मध्ये द्वादशादित्यमेव च ।
एवमेव प्रकारेण मर्यादौ च विन्यसेत् ॥ २० ॥
प्। १६१)
पितामहः ॥
प्रणम्य शिरसादेवं पर्यपृच्छत्पितामहः ।
रक्षादीपं कथमेतत् तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
यत्सर्वं तु त्वया पृष्टं तत्सर्वं शृणु पद्मज ! ।
रक्षादीपं विशेषेण त्रिविधं चोच्यते मया ॥ २ ॥
शान्तिकं पौष्टिकं चैव कामदं च त्रिधा भवेत् ।
सौवर्णं राजतं वापि ताम्रजं मृण्मयं तु वा ॥ ३ ॥
स्थालिका च प्रकर्तव्या त्रिंशदङ्गुल विस्तरा ।
पूर्वं च दक्षिणं चैव पश्चिमं चोत्तरं तथा ॥ ४ ॥
मध्यमे तु समायुक्तं पञ्च कुम्भानि विन्यसेत् ।
अष्टाङ्गुलसमुत्सेधं * * * * * * भवेत् ॥ ५ ॥
कुम्भोर्ध्वे दीपं संस्थाप्य शिल्पिना कारयेत्ततः ।
पादं चैव दशाङ्गुल्यम् उत्सेधं तु विधीयते ॥ ६ ॥
विस्तारं तावदेवाहुः दीपपात्रं च कारयेत् ।
एतच्छान्तिकमित्युक्तं पौष्टिकं च ततः शृणु ।
विस्तारं तु चतुर्विंशद् अङ्गुल्या स्थलिता भवेत् ॥ ८ ॥
शालिपिष्टं न्य * * * * * * * * * * * ।
एतत्पौष्टिकमित्युक्तं कामदं च ततः शृणु ॥ ९ ॥
स्थलितां पूर्ववत्कृत्वा सप्तपात्रं च विन्यसेत् ।
सप्तपात्रा * * * * के तेषामूर्ध्वे तन्तथा ॥ १० ॥
प्। १६२)
एतत्कामदमित्युक्तं त्रिविधं प्रोच्यते मया ।
निन्नित्याने कुर्यात् तस्यान्नन्दीपमुच्यते ॥ ११ ॥
सायाह्ने शयने कुर्याद् यक्षेश्वरीं च पूजयेत् ।
नित्याग्नि कुण्डे विप्रेन्द्र ! * * * * * दीपयेत् ॥ १२ ॥
तस्य दक्षिणभागे तु मण्डलं चतुरश्रकम् ।
स्थलिकां विन्यसेत्तत्र शिखामन्त्रेण संयुतम् ॥ १३ ॥
गोघृतेन समायुक्तं तिलतैलेन वा पुनः ।
वर्तिं तत्रैव * * * * * * दीपयेत्ततः ॥ १४ ॥
प्रासादेन तु मन्त्रेण मध्यमे दीपमुच्यते ।
पूर्वे तु पुरुषं चैव अघोरं दक्षिणेन तु ॥ १५ ॥
सद्यं पश्चिमतो न्यस्य वामदेवं तु चोत्तरे ।
ईशानेन तु मन्त्रेण व्योमव्यापि समन्वितम् ॥ १६ ॥
पूजयेत्तु विशेषेण शिरसोपरि धापयेत् ।
गणिका (वाथ) दासी वा धारयेद्दीपमुत्तमम् ॥ १७ ॥
मन्त्रगेय समायुक्तं गणिकानृत्तसंयुतम् ।
भेरी मृदङ्गवाद्यैश्च स्तोत्रशब्दैस्समन्वितम् ।
गच्छ प्रदक्षिणं तत्र निनयेच्छिवसन्निधौ ॥ १९ ॥
त्रिपादीं मध्यमे न्यस्य सम्प्रोक्ष्यास्त्रेण वारिणा ।
ईशानेन तु मन्त्रेण अर्चयेद्दीपमेव च ॥ २० ॥
प्। १६३)
पुष्पेण दीपं संयोज्य लिङ्गमूर्धनि वर्जयेत् ।
एकं वापि त्रयं वापि प्रदक्षिणमथाचरेत् ॥ २१ ॥
विसर्जयेत्तु निर्माल्यं बाह्यपीठे तु विन्यसेत् ।
एतच्छान्तिकमित्युक्तं पौष्टिकं च ततः शृणु ॥ २२ ॥
शिवाग्रे मण्टपं कुर्याद् त्रिपात्तत्रैव विन्यसेत् ।
विन्यसेत्स्थलिकां तत्र हृदयेन तु मन्त्रतः ॥ २३ ॥
पिष्टं वामेन संस्थाप्य प्रोक्षयेत्तु हृदा तथा ।
गर्भगेहस्थितोर्ध्वे तु * * वर्ति सयेत्ततः ॥ २४ ॥
पूजयेदस्त्रमन्त्रेण प्रोक्षयेदम्भसा ततः ।
हृदयेन तु मन्त्रेण दीपं दद्याच्छिवस्य तु ॥ २५ ॥
एकं वापि त्रयं वापि लिङ्गं चैव प्रदक्षिणम् ।
शिवस्य रक्षो पूजीत सर्वप्राणि हिताय च ।
एवं पौष्टिकमेवा तु कामदं शृणु तत्वतः ॥ २७ ॥
अग्निकुण्डेपि वा कुर्याद् गर्भगेहेऽपि वा पुनः ।
सप्तपात्रे तु विप्रेन्द्र दीपं संयोजयेत्ततः ॥ २८ ॥
पौष्टिकस्य क्रमेणैव कुर्याद्वै देशिकस्तथा ।
शिवे दीपं सुसंयोज्य विसर्जयेत्तु वा मतः ॥ २९ ॥
एतत्कामदमित्युक्तं समासात्कथयामि ते ।
उत्तमं दीपमाख्यातं सप्ताङ्गुलसमुच्छ्रयम् ॥ ३० ॥
प्। १६४)
पञ्चाङ्गुलं तु मध्यं स्यात् त्र्यङ्गुलमधमोच्छ्रयम् ।
उत्तमं गोघृतं चैव मध्यमं ज सम्भवम् ॥ ३१ ॥
अधमं तैलमेवाहुः वस्त्रपूतं तु कारयेत् ।
दूर्वाक्षतैश्च संयुक्तं दर्पणं भस्ममेव च ॥ ३२ ॥
पाद्यमाचमनं चार्ध्यं गन्धं पुष्पं च धूपकम् ।
दीपस्य दर्शनादूर्ध्वं शिवे दद्याद्विशेषतः ॥ ३३ ॥
यक्षेश्वरीस्वरूपं तु शृणुष्व कमलासन ! ।
यान्तेनैव समायुक्तम् ईकारस्वरसंयुतम् ॥ ३४ ॥
ओङ्कारादि नमोन्तं च मध्ये यक्षेशि बीजकम् ।
एतन्मन्त्रं परं गुह्यं तव स्नेहात्प्रकाशितम् ॥ ३५ ॥
द्विभुजं चैकवक्त्रं च द्विपादं च द्विनेत्रकम् ।
करण्डमकुटोपेतं सौम्यरूपं सुलोचनम् ॥ ३६ ॥
दीपमध्ये न्यसेद्देवीम् अञ्जल्यमनस्कृतम् ।
एवं विधस्वरूपं तु ध्यात्वा वै पूजयेत्ततः ॥ ३७ ॥
वामाज्येष्ठा च रौद्री च काली कलविकरिणी ।
बलविकरणी बलप्रमथिनी सर्वभूतदमन्यथ ॥ ३८ ॥
पूर्वादीशानपर्यन्तं पूजयेद्गन्धपुष्पकैः ।
मध्ये मनोन्मनीं न्यस्य पूजयेद्देवि बाह्यतः ॥ ३९ ॥
सोमाङ्गारबुधाश्चैव जीवशुक्रशनैश्चरान् ।
राहुकेतुं च विप्रेन्द्र तद्बाह्ये पूजयेत्ततः ॥ ४० ॥
प्। १६५)
इन्द्रश्चाग्नियमौ चैव निर्-ऋतिर्वरुणोऽथ च ।
सोमेशानसमायुक्तं ताद्बाह्ये पूजयेत्ततः ॥ ४१ ॥
एवमेव क्रमेणैव यक्षेश्वरीं च पूजयेत् ।
भस्म दद्याच्छिवे तत्र दद्याच्छेषं जनाय च ॥ ४२ ॥
सायाह्ने शयने कुर्याद् एवमेव क्रमेण तु ।
परिषेचनकाले तु रक्षादीपं करोति यः ॥ ४३ ॥
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ।
रक्षादीपं मया प्रोक्तमङ्कुरार्पणकं शृणु ॥ ४४ ॥
इति वीरतन्त्रे रक्षादीपविधिद्विचत्वारिंशः पटलः ॥ ४२ ॥