पितामहः ॥
लोकनाथं प्रणम्याथ ब्रह्मा वचनमब्रवीत् ।
नित्योत्सवं कथं देव तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥
ईश्वरः ॥
श्रूयतामभिधास्यामि नित्योत्सवं विशेषतः ।
सर्वपापहरं पुण्यं सर्वलोकसुखावहम् ॥ २ ॥
सर्वशान्तिकरं चैव सर्वारिष्ट विनाशनम् ।
नित्यं नित्यार्चनान्ते तु नित्योत्सवमथाचरेत् ॥ ३ ॥
राक्षसाश्चासुराश्चैव पिशाचा ब्रह्मराक्षसाः ।
उच्छिष्टाश्चैव वेताला कूष्माण्डार्हतथागतम् ॥ ४ ॥
तथा मारगृहाश्चैव भूताश्चान्ये मरुद्गणाः ।
नित्योत्सवस्य शब्दांश्च श्रुत्वागर्जन्ति तत्र वै ॥ ५ ॥
प्रथमं दक्षिणे विप्र तव प्रीतिकराय वै ।
द्वितीयं प्रदक्षिणं चैव विष्णुप्रीतिकराय च ॥ ६ ॥
प्। १५२)
तृतीयं प्रदक्षिणं चैव मम प्रीतिकराय वै ।
पूर्वाह्ने च तव प्रीति पुष्पलिङ्गसमन्वितम् ॥ ७ ॥
मध्याह्ने चान्नलिङ्गं तु मम प्रीतिकरं महत् ।
साये तण्डुललिङ्गं स्याद् नारायणप्रियं तथा ॥ ८ ॥
स्थितलिङ्गे तु विप्रेन्द्र श्रीबलिं चैव कारयेत् ।
चललिङ्गेषु सर्वेषु श्रीबलिं च न कारयेत् ॥ ९ ॥
आढकाधीन नैवेद्यं श्रीबलिं च न कारयेत् ।
एवमेव क्रमेणैव नित्योत्सवं तु कारयेत् ॥ १० ॥
सौवर्णं राजतं वापि ताम्रं वा कांस्यमेव वा ।
बलिपाकं तु कर्तव्यं लक्षणेन समन्वितम् ॥ ११ ॥
मात्राङ्गुलेन कर्तव्यं द्वितालमुत्तमं भवेत् ।
एकतालेन हीनं तु मध्यमं पात्रमुच्यते ॥ १२ ॥
द्व्यङ्गुलेन हीनं तु मध्यमं पात्रमुच्यते ।
त्रिपात्रं च त्रिधाहर्म्यं मध्ये पद्मं तु कारयेत् ॥ १३ ॥
ओष्ठमध्याङ्गुलेनैव कारयेत्तु विचक्षणः ।
पद्मस्योत्सेधमानं तु एकाङ्गुलमिहोच्यते ॥ १४ ॥
अष्टपद्मसमायुक्तं विद्येशांस्तत्र दैवतान् ।
एवमेव क्रमेणैव बलिपात्रं तु कारयेत् ॥ १५ ॥
पूर्वोक्तेन विधानेन चरुं चैव तु पाचयेत् ।
द्विप्रस्थमधमं प्रोक्तम् आढकं मध्यमं भवेत् ॥ १६ ॥
प्। १५३)
उत्तमं शिवमेवाहुः शालिनां चैव पाचयेत् ।
अत्युष्णमतिशीतं च आम्लं लवणवर्जितम् ॥ १७ ॥
पाषाणं व्याधितं चैव शोकदं तुषमेव च ।
कर्णकम्बुसमायुक्तं मारणं तु विनिर्दिशेत् ॥ १८ ॥
एवमेव क्रमं ज्ञात्वा पाचयेद्विधिपूर्वकम् ।
शिवाग्रे मण्डपं कृत्वा मण्डपस्योत्तरे दिशि ॥ १९ ॥
गोमयेनोपलिप्याथ बलिपात्रं न्यसेद्धृदा ।
प्रोक्षयेदस्त्रमन्त्रेण कुशेनैव तु वारिणा ॥ २० ॥
चरुं वै हृदयेनैव बलिपात्रे तु विन्यसेत् ।
क्षीरं वा दधिसंयुक्तमाज्येनैव समायुतम् ॥ २१ ॥
सम्मिश्रं तु समञ्चान्नम् अन्नलिङ्गं तु कारयेत् ।
अष्टाङ्गुलं तु चोत्सेधं द्विगुणं तस्य मूलकम् ॥ २२ ॥
अग्रमष्टाङ्गुलं नाहम् आनुपूर्वात्क्षयं भवेत् ।
अधमं लिङ्गमित्युक्तं मध्यमं तु ततः शृणु ॥ २३ ॥
दशाङ्गुलं तु चोत्सेधं द्विगुणं तस्य मूलकम् ।
अग्रमष्टाङ्गुलन्नाहम् उत्तमं शृणु तत्वतः ॥ २४ ॥
द्वादशाङ्गुलमुत्सेधं द्विगुणं मूलनाहकम् ।
अग्रं दशाङ्गुलं नाहम् अन्नलिङ्गमिहोच्यते ॥ २५ ॥
त्र्यक्षं चतुर्भुजं रौद्रम् ऊर्ध्वकेशं सदंष्ट्रकम् ।
दक्षिणं हस्तं * * * वामहस्तं कटिस्पृशम् ॥ २६ ॥
प्। १५४)
पद्ममध्ये स्थितं देवं सर्वाभरणभूषितम् ।
एवं स्वरूपकं ध्यात्वा बलिलिङ्गे तु विन्यसेत् ॥ २७ ॥
गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव तु पूजयेत् ।
गन्धं हृदयमन्त्रेण शिखया पुष्पमुच्यते ॥ २८ ॥
सौवर्णं राजतं ताम्रं मृण्मयं वापि कारयेत् ।
हस्तमात्रं भवेद्दण्डम् अग्रे चक्रद्वयं भवेत् ॥ २९ ॥
एवं लक्षणसंयुक्तं दण्डहस्तौ विचक्षणः ।
प्रोक्षयेदम्भसा चैव हृदयेन तु मन्त्रतः ॥ ३० ॥
ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् ।
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ॥ ३१ ॥
सद्योजातं न्यसेत्पादौ पुनरङ्गानि विन्यसेत् ।
हृदयं हृदये न्यस्य शिरश्शिरसि विन्यसेत् ॥ ३२ ॥
शिखां शिखायां विन्यस्य कवचं स्तनमध्यतः ।
अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रे तु विन्यसेत् ॥ ३३ ॥
सर्वाङ्गेषु च विप्रेन्द्र अस्त्रमन्त्रं न्यसेत्ततः ।
स्थलिकां चैव चोद्धृत्य हृदयेन तु मन्त्रतः ॥ ३४ ॥
शिरोमन्त्रेण संयुक्तं तस्यां शिरसि निक्षिपेत् ।
जपेत्पाशुपतास्त्रं च शनैर्गच्छेत्प्रदक्षिणम् ॥ ३५ ॥
न तिष्ठन्तं न शीघ्रं च गच्छेत्पदे पदे ततः ।
पुरस्तात्प्रतिमं गच्छेल्लिङ्गं तु तदनु व्रजेत् ॥ ३६ ॥
प्। १५५)
कुर्यात्तु पृष्ठतो वापि पादुकं न व्रजेत्ततः ।
शिवस्याभिमुखं चैव गोमयेनानुलेपयेत् ॥ ३७ ॥
भेरीं तत्रैव विन्यस्य हृदयेन तु मन्त्रतः ।
गन्धपुष्पादिनाभ्यर्च्य वाद्यकं पूजयेत्ततः ॥ ३८ ॥
वाद्यकान्वादयेत्तत्र पञ्चध्वनिसमन्वितम् ।
सुषिरं गानवं चैव शब्दभेदं तथैव च ॥ ३९ ॥
तन्त्रीकृत ततो वाद्यं पञ्चध्वनिरिहोच्यते ।
एवं विधिसमायुक्तं वाद्यकान्वादयेत्ततः ॥ ४० ॥
प्रथमं दक्षिणं कुर्याद् अङ्गिणी तालवाद्यकम् ।
द्वितीयं दक्षिणं कुर्याद् अष्टताल समन्वितम् ॥ ४१ ॥
पूर्वे तु समहस्तं स्याद् आग्नेय्यां भृङ्गिणी तथा ।
दक्षिणे कदुवाद्यं स्यान् नैर्-ऋत्यां सङ्करी तथा ॥ ४२ ॥
वारुण्यामुत्कटं चैव वायव्यां कुब्जतालकम् ।
नटप्रहारं सौम्यायाम् ऐशान्यां मल्लतालकम् ॥ ४३ ॥
गोपुरो वाद्यनिश्शब्दं शङ्खध्वनि समायुतम् ।
बाह्यपीठे क्रमावृत्य प्रासादं त्रिप्रदक्षिणम् ॥ ४४ ॥
त्रिविधं बलिपीठं स्यात् पूर्वतश्चैव दक्षिणे ।
पश्चिमे वा त्रिसन्ध्यायां प्रदक्षिणमथाचरेत् ॥ ४५ ॥
पूर्वाह्ने पूर्वपीठे तु मध्याह्ने दक्षिणे तथा ।
सायाह्ने पश्चिमे चैव बलिमेवं विसर्जयेत् ॥ ४६ ॥
प्। १५६)
अथवा चाग्रपीठे तु दक्षिणं बलिरुच्यते ।
सर्वद्वारे तु कर्तव्यं पूर्वे तु बलिपीठकम् ॥ ४७ ॥
इन्द्रस्य बलितालं तु अग्नेर्मध्यवणं भवेत् ।
यमस्य भृङ्गिणी तालं नैर्-ऋत्यां मल्लतालकम् ॥ ४८ ॥
वारुण्यां नवतालं तु वायव्यां नागतालकम् ।
सौम्ये च कोटिकाः प्रोक्ता ईशान्यण्डङ्करी तथा ॥ ४९ ॥
एवमेव क्रमेणैव प्रासादं त्रिः प्रदक्षिणम् ।
गायं गान्धारपूर्वं स्याद् दक्षिणे कौशिकं तथा ॥ ५० ॥
पश्चिमे कान्तमरं चैव तक्कारागं तथोत्तरे ।
आग्नेय्यां चैव कोल्ली च नैर्-ऋत्यां नाट्टभाषया ॥ ५१ ॥
तक्केशी वायुदिग्भागे शाकापाणीशगोचरे ।
द्वारदेशमनुप्राप्य वृषभस्याधिदैवतम् ॥ ५२ ॥
पादुकं विन्यसेत्तत्र प्रोक्षयेदम्भसा ततः ।
निर्माल्यं च विसृज्याथ जले चैवाभिषेचयेत् ॥ ५३ ॥
अघोरेण तु दीपं स्यात् सद्येनार्घ्यं तु दापयेत् ।
अर्चयेत्पादुकौ विद्वान् * * * * * * द्वयोः ॥ ५४ ॥
धरित्रीं चैव पूर्वे तु धरणीं दक्षिणेन तु ।
पृथिवीं पश्चिमे न्यस्य मेदिनीं चोत्तरे न्यसेत् ॥ ५५ ॥
वामा ज्येष्ठा च रौद्री च काली कलविकरिणी ।
बलविकरिणी बलप्रमथिनी सर्वभूतमनोन्मनी ॥ ५६ ॥
प्। १५७)
पूर्वादीशानपर्यन्तं विन्यसेदष्टशक्तिभिः ।
मनोन्मनी न्यसेन्मध्ये अर्चयेद्गन्धपुष्पकैः ॥ ५७ ॥
प्रविशेदालयं तत्र विन्यसेत्पूर्वमण्डले ।
विसर्जयेत्तु चास्त्रेण नमस्कारं तु कारयेत् ॥ ५८ ॥
तदन्ते कारयेन्नृत्तं भरतोक्तेन मार्गतः ।
गणिकां स्नापयेत्तत्र गन्धपुष्पादिनार्चयेत् ॥ ५९ ॥
तदग्रे मण्डलं कृत्वा शिवं सम्पूजयेत्ततः ।
तस्य दक्षिणपार्श्वे तु ब्रह्माणं पूजयेत्ततः ॥ ६० ॥
मध्ये न लङ्घयेत्तत्र लङ्घनात्स्नपनं भवेत् ।
अष्टोत्तरशतं नृत्तं भावयेद्गणिका ततः ॥ ६१ ॥
नृत्तस्यान्ते तु विप्रेन्द्र देवं देवीं विसर्जयेत् ।
अग्निमुखीकरणं यत्तु तदा वाहनमुच्यते ॥ ६२ ॥
पूजापरिसमाप्तौ तु विमुखं तद्विसर्जयेत् ।
प्रदक्षिणत्रयं कृत्वा नमस्कारं तथैव च ॥ ६३ ॥
लिङ्गे सव्यापसव्यं तु प्रासादादिषु विसर्जयेत् ।
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ॥ ६४ ॥
पर्यष्टिपरिवारांश्च ततो न्यासे व तेजनाः ।
शिवलोकमवाप्नोति शिववन्मोदते सदा ॥ ६५ ॥
नित्योत्सवमिदं प्रोक्तं परिवाराञ्च्छृणुष्वथ ॥ ६५ � ॥
इति वीरतन्त्रे नित्योत्सव विधिश्चत्वारिंशः पटलः ॥ ४० ॥