३९

पितामहः ॥

शिवं प्रणम्य विधिवत् पर्यपृच्छत्पितामहः ।
कीदृशं चाग्निकार्यं च तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥

प्। १४३)

ईश्वरः ॥

एतत्सर्वं त्वया पृष्टम् अग्निकार्यं च सर्वशः ।
समासेन प्रवक्ष्यामि शृणुष्व कमलासन ! ॥ २ ॥

ग्रहणे विषुवे चैव नित्यनैमित्तिकेऽपि च ।
प्रतिष्ठा चोत्सवे चैव शत्रूणां च प्रदर्शने ॥ ३ ॥

अयने दर्शपूर्णे च प्रोक्षणे मन्त्रसाधने ।
दीक्षाकाले तु वा कुर्याच्छान्तिके पौष्टिकेऽपि वा ॥ ४ ॥

स्नपने चैव वा कुर्यात् अग्निकार्यं समारभेत् ।
चौके वा चोपनयने समावर्तनकेऽपि वा ॥ ५ ॥

विवाहे चान्नप्राशे च पुंसवने तथैव च ।
सीमन्तोपरिनिष्क्रामे अग्निष्टोमादियागके ॥ ६ ॥

विधिना चाग्नि कार्यं तु कारयेत्तु समाहितः ।
कुण्डं वा स्थण्डिलं वापि कारयेद्देशिकस्तथा ॥ ७ ॥

हस्तमात्रं भवेत्कुण्डं चतुरश्रं च जायते ।
वृत्तं * * * * कुर्यान् नित्यकर्म इहोच्यते ॥ ८ ॥

यावदग्रं भवेत्पीठं तावदश्रं च कुण्डकम् ।
त्रिमेखला समायुक्तं नाभियोनिसमन्वितम् ॥ ९ ॥

अश्वत्थपत्रवद्योनिं मेखलां परिकल्पयेत् ।
खननं हस्तमात्रं तु दर्पणोदरवत्ततः ॥ १० ॥

स्थण्डिलं वापि कर्तव्यं गतैश्शुद्धदेशकैः ।
शोषितं पाचितं चैव शोषणं पाचनं तथा ॥ ११ ॥

प्। १४४)

आज्यपात्रं चरुस्थालीं समिधा विष्ठरमाकुशाः ।
प्रणीता स्पृश्यपात्रं तु सुधापरिधयः स्रुवाः ॥ १२ ॥

दर्वी चैव च स्रुक् चैव होमद्रव्यांश्च सर्वशः ।
वस्त्रं चोष्णीषमेवं तु अर्घ्यं गन्धं च पुष्पकम् ॥ १३ ॥

धूपदीपं तथा चैव अग्निरुत्तरतो न्यसेत् ।
आज्यं चैव चरुं चैव होमद्रव्यं च सर्वशः ॥ १४ ॥

दर्भेणोपरि विन्यस्य प्रच्छादयेत्तु दर्भकैः ।
साधयेद्धृदयेनैव प्रोक्षयेदम्भसा ततः ॥ १५ ॥

उल्लेखनं ततः (कुर्याद्) अभ्युक्ष्य कवचेन तु ।
तिसॄः पूर्वमुखा रेखा उदग्रेखास्तथैव च ॥ १६ ॥

ब्रह्मा विष्णुश्च रुद्रश्च दक्षिणाद्यधिदैवतान् ।
अर्चयेद्गन्धपुष्पांश्च हृदयेन तु मन्त्रतः ॥ १७ ॥

अरण्युद्भवमेवाथ सूर्यकान्तोद्भवं तु वा ।
श्रोत्रियस्याग्निहोत्राच्च जनयेज्जातवेतसम् ॥ १८ ॥

अरणिं चैव विप्रेन्द्र षोडशाङ्गुल दैर्ध्यकम् ।
विस्तारं तु षडङ्गुल्यं विष्कम्भं तु त्रियङ्गुलम् ॥ १९ ॥

शमी पिप्पल पत्रं च कारयेदरणीं ततः ।
मथित्वा पञ्चब्रह्मेण पात्रे विन्यस्य देशिकः ॥ २० ॥

तदग्निं सर्वकार्येषु उपनयनादि कारयेत् ।
हृदा चाग्निं प्रतिष्ठाप्य अग्न्याधानं तु कारयेत् ॥ २१ ॥

प्। १४५)

अग्न्याधानमुपस्थानं परिस्तरणमेव च ।
पात्राणां सादनं चैव प्रोक्षणं प्रोक्षणी तथा ॥ २२ ॥

कूर्चाधानं प्रणीता च घृतसंस्कारमेव च ।
ऊर्ध्व प्रवेशनं चापि तत्तन्मन्त्रेण देशिकः ॥ २३ ॥

प्रासादेन तु मन्त्रेण उपस्थानं तु कारयेत् ।
अग्नौ काष्ठं विनिक्षिप्य शिवमन्त्रेण देशिकः ॥ २४ ॥

परिस्तरणं पुनः कुर्यात्प्रागग्रं चोत्तराग्रकम् ।
कुशेनैव परिस्तीर्यः पूर्वे तु चोत्तराग्रजात् ॥ २५ ॥

तदूर्ध्वे दक्षिणास्तीर्य पश्चिमे चोत्तराग्रकम् ।
उत्तरे पूर्वमूर्ध्वं तु विन्यसेद्देशिकस्तथा ॥ २६ ॥

परिधी विन्यसेत्तत्र दक्षिणे पश्चिमोत्तरे ।
ऊर्ध्वं संस्थाद्वयं चैव आग्नेय्यामीशदेशतः ॥ २७ ॥

मध्यमे चैव संस्थाप्य वागीशीं तु विशेषतः ।
ऋतुस्नानं च सङ्कल्प्य योनिमार्गेण जायते ॥ २८ ॥

हृदयेनाहुतिस्सप्त गर्भाधानं भवन्ति वै ।
तत्पुरुषेण मन्त्रेण पुंसवनं भवन्ति वै ॥ २९ ॥

शिरोमन्त्रेण विप्रेन्द्र सीमन्तं सप्तहूयते ।
वामदेवेन मन्त्रेण जातकर्म च हूयते ॥ ३० ॥

एका हृदयं त्रिपादं च द्विवक्त्रं च द्विनासिकम् ।
चतुःशृङ्गसमायुक्तं षण्णेत्रेण समन्वितम् ॥ ३१ ॥

प्। १४६)

सप्तजिह्वा सप्तहस्ता उपवीतसमन्वितम् ।
जटामौञ्जि समायुक्तं कृष्णाजिनसमायुतम् ॥ ३२ ॥

हिरण्या कनकारक्ता कृष्णा चैव तु सुप्रभा ।
अतिरक्ता बहुरूपा सप्तजिह्वाः प्रकीर्तिताः ॥ ३३ ॥

हिरण्या वारुणे जिह्वा कनका मध्यमे स्थिता ।
उत्तरा रक्तमाख्यातं याम्ये कृष्णा इति स्मृता ॥ ३४ ॥

सुप्रभा पूर्वदेशे तु अतिरक्ताग्नौ व्यवस्थिता ।
बहुरूपा चैव जिह्वा स्यात् सप्तजिह्वाः प्रकीर्तिताः ॥ ३५ ॥

कनकाख्या तु जिह्वायां सर्वं होमं तु कारयेत् ।
जातकर्म मया प्रोक्तं नामं तु हृदयेन तु ॥ ३६ ॥

निष्क्रामणं तु शिरसा प्राशनं हृदयेन च ।
चौलमन्त्रेण कर्तव्यम् उपनयनं हृदयेन तु ॥ ३७ ॥

व्रतानां चैव सर्वेषां शिरसा चैव हूयते ।
हृदयेन तु मन्त्रेण समावर्तनविवाहकम् ॥ ३८ ॥

पृथक् पृथक् क्रियाणां च सप्तचैवाहुतिर्भवेत् ।
दक्षिणे ब्रह्मणः स्थानं दर्भासनोपरि न्यसेत् ॥ ३९ ॥

प्रणीतामुत्तरे स्थाप्य सपवित्रसमायुतम् ।
विष्णुस्तत्राधिदैवत्यं गन्धपुष्पादिनार्चयेत् ॥ ४० ॥

प्रोक्षणीपात्रमादाय उदकं सेचयेद्धृदा ।
कुशेनैव तु विप्रेन्द्र उदकोपवनं कुरु ॥ ४१ ॥

प्। १४७)

प्रणीतापात्रमादाय उदकं सेचयेद्धृदा ।
उत्प्लावनं ततः कुर्यात् प्रणवे नैव निक्षिपेत् ॥ ४२ ॥

आज्यपात्रं समादाय आज्यं चैव तु पूरयेत् ।
अग्नेरुत्तरभागे तु अङ्गारकोपरि न्यसेत् ॥ ४३ ॥

स्वदेशे विन्यसेत्तत्र दर्भेणोत्प्लवनं कुरु ।
आज्याधिश्रयणं कार्यं दर्भानन्दे विनिक्षिपेत् ॥ ४४ ॥

नाग्नौ तु प्रज्वाल्व प्रोक्षयेदम्भसा ततः ।
स्रुवं चैव तु विप्रेन्द्र क्षालयेद्धृदयेन तु ॥ ४५ ॥

कुशेनैव समायुक्तम् अग्रमग्रेण संस्पृशेत् ।
मध्यं मध्येन संस्पृश्य मूलं मूलेन संस्पृशेत् ॥ ४६ ॥

प्रोक्षयेदम्भसा चैव परिषेचनं तु कारयेत् ।
अतीते तु मवस्वेति दक्षिणे परिषिञ्चति ॥ ४७ ॥

अनुमतेऽनुमन्यस्वेति पश्चिमे परिषिञ्चति ।
सरस्वतेऽनुमन्यस्वेति उत्तरे परिषिञ्चति ॥ ४८ ॥

देव सवितः प्रसुवेति समन्तात्परिषिञ्चति ।
पलाशसमिधश्चैव इध्मं षोडशमेव च ॥ ४९ ॥

तूष्णीमिध्मं तु दातव्यम् अघोरं चैव हूयते ।
प्रजापतये स्वाहेति दक्षिणार्धपूर्वाधके ॥ ५० ॥

इन्द्राय स्वाहेति उत्तरे * * * पूर्वार्धके ।
सोमाय स्वाहेति मन्त्रेण दक्षिणार्धपूर्वार्धके ॥ ५१ ॥

प्। १४८)

अग्निमुखं च होतव्यं पञ्चब्रह्मेण मन्त्रवित् ।
एवमेव क्रमेणैव होतव्यं दीर्घजीविना ॥ ५२ ॥

नित्यहोमं च होतव्यं लक्षणेन समन्वितम् ।
अग्निमर्चयते चैव आज्ये वामेन संयुतम् ॥ ५३ ॥

प्रासादेन तु शिवस्य होमयेत्तु शताहुतिः ।
गौरीबीजेन तद्वच्च पञ्चब्रह्मशिवाङ्गकैः ॥ ५४ ॥

विद्येश्वराणां मन्त्राश्च लोकपालान्सहास्त्रकैः ।
होमयेच्चैव विप्रेन्द्र नित्यहोममिहोच्यते ॥ ५५ ॥

पुनः परिषेचनं कृत्वा नित्योत्सवमथाचरेत् ।
वर्णाग्निगन्धशब्दानि लक्षयेच्चैव देशिकः ॥ ५६ ॥

आदित्योदयवर्णाभं पद्मरागसमप्रभम् ।
रक्तपङ्कजसङ्काशं किंशुकस्य समप्रभम् ॥ ५७ ॥

एते द्वादशवर्णानि जातवेदस्तु सिद्धिदम् ।
उशीरं कुष्ठगन्धं च कर्पूरागरुमेव च ॥ ५८ ॥

चन्दनं जातितक्कोलं कौशिकं तुटिरेव च ।
पद्मं कुसुमगन्धं च शुभान्येतानि निक्षिपेत् ॥ ५९ ॥

शिखायां लक्षयेत्तत्र पूर्वे चैवोर्ध्व सिद्धिदः ।
वारुणे शान्तिकं प्रोक्तं सौम्यायां मृत्युनाशनम् ॥ ६० ॥

ऊर्ध्वे तु सर्वकामार्थं लभते नात्र संशयः ।
आग्नेय्यामग्निदग्धं च मृत्युं चैव तु याम्यके ॥ ६१ ॥

प्। १४९)

नैर्-ऋत्यां युद्धमरणं वायव्यां कलहं भवेत् ।
ईशान्यां ज्ञानलाभं च शिखानिष्क्रान्तलक्षणम् ॥ ६२ ॥

कांसवद् ध्वनिनाशब्दं मासान्मरणमाप्नुयात् ।
उलूकध्वनिते वह्नौ कारागृहमवाप्नुयात् ॥ ६३ ॥

पिङ्गलध्वनिते वह्नौ नृपस्य मरणं भवेत् ।
वृषभध्वनिते वह्नौ अगम्यागमनं भवेत् ॥ ६४ ॥

अशनिध्वनिते वह्नौ षण्मासान्मरणं भवेत् ।
खरवद् ध्वनिते वह्नौ अपमृत्युवशं गतः ॥ ६५ ॥

तडित्वद् ध्वनिते वह्नौ भार्याया मरणं भवेत् ।
गोखरवद्भवेच्छब्दं स्वद्रव्यं तस्करावहम् ॥ ६६ ॥

समुद्रघोषवच्छब्दं मातामरणमाप्नुयात् ।
गोवच्च ध्वनिते वह्नौ सर्पेण मरणं भवेत् ॥ ६७ ॥

झल्लरीव भवेच्छब्दं चण्डालीगमनं भवेत् ।
भाण्डवद् ध्वनिते वह्नौ रोगो भवति निश्चयम् ॥ ६८ ॥

श्वानवद् ध्वनिते वह्नौ भ्रूणहत्यामवाप्नुयात् ।
कपिलध्वनिते वह्नौ सुरापानमवाप्नुयात् ॥ ६९ ॥

बालवद् ध्वनिते वह्नौ विषूच्या मरणं भवेत् ।
लशुनगन्धं भवेदग्नौ क्षयरोगमवाप्नुयात् ॥ ७० ॥

हिङ्गुगन्धं भवेदग्नौ प्रमेहं चैव जायते ।
अतिगन्धं भवेदग्नौ महाज्वरमवाप्नुयात् ॥ ७१ ॥

प्। १५०)

मेध्यगन्धं भवेदग्नौ भगन्दरमरणं भवेत् ।
मूत्रगन्धं भवेदग्नौ पाण्डुरोगमवाप्नुयात् ॥ ७२ ॥

शवगन्धेन वै विप्र सन्निपातमवाप्नुयात् ।
रोमगन्धं भवेद्विप्र कुक्षिरोगमवाप्नुयात् ॥ ७३ ॥

तस्मात्सर्वप्रयत्नेन लक्षयेद्देशिकस्सदा ।
शुभाशुभं मया प्रोक्तम् अग्निदेवस्य पद्मज ॥ ७४ ॥

ग्रहाणामुक्तकालेषु प्रतिष्ठादि मुहूर्तके ।
परिषेचनं तु कुर्यात्तु तद्दोषशमनाय च ॥ ७५ ॥

होमं कुर्यात्तु विप्रेन्द्र लक्षणेन समन्वितम् ।
समिदाज्यचरुं लाजान् सर्षपांश्च यवांस्तिलान् ॥ ७६ ॥

प्रासादेन तु मन्त्रेण पञ्चाशत्समिधो हुनेत् ।
हृदयेनाज्यहोमं तु चरुं च शिखया हुनेत् ॥ ७७ ॥

लाजं वामेन मन्त्रेण सर्षपं सद्यमन्त्रतः ।
अघोरेण यवं हुत्वा कवचेन तिलानपि ॥ ७८ ॥

सप्तद्रव्येन होतव्यं पञ्चदशाहुतिं ततः ।
सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् ॥ ७९ ॥

स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम् ।
कृत्वान्ते तु यदस्येति स्विष्टकृत् चैव हूयते ॥ ८० ॥

पूर्वेण दक्षिणे चैव पश्चिमे चोत्तरे तथा ।
ईशान्यां चैव होतव्यं कुण्डे वा स्थण्डिलेऽपि वा ॥ ८१ ॥

प्। १५१)

एवं कृते महाशान्तिः राजराष्ट्रसुखावहम् ।
इन्द्रधनुश्च दृष्ट्वा च तद्दोषशमनाय च ॥ ८२ ॥

एवमेवक्रमं हुत्वा अन्ये दोषैश्च सम्भवैः ।
आचार्यपूजनं कृत्वा वस्त्राङ्गुलीयकादिभिः ॥ ८३ ॥

अग्निकार्यं मया प्रोक्तं नित्योत्सव मतः शृणु ॥ ८३ � ॥

इति वीरतन्त्रे अग्निकार्यविधिः एकोनचत्वारिंशः पटलः ॥ ३९ ॥