पितामहः ॥
प्रणम्य भगवन्तं हि पर्यपृच्छत्पितामहः ।
शिवार्चनं कथं देव तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥
ईश्वरः ॥
एतत्सर्वं समासेन श्रूयतां कमलासन ।
नारुद्रः संस्मरेद्रुद्रं नारुद्रो रुद्रमर्चयेत् ॥ २ ॥
नारुद्रः कीर्तयेद्रुद्रं नारुद्रो रुद्रमाप्नुयात् ।
सर्वपापहरं चैव सर्वतीर्थफलं भवेत् ॥ ३ ॥
अदीक्षितश्चतुर्वेदी शिवलिङ्गं च न स्पृशेत् ।
दीक्षितश्चापि यो विप्रो भृत्यर्थं न प्रपूजयेत् ॥ ४ ॥
प्। १२७)
धर्मानुष्ठानमभ्यर्थं सर्वदाकाले आदिशैवः शिवं यजेत् ।
सन्धिस्वधर्मानुष्ठानं न दोषाय प्रकल्पयेत् ॥ ५ ॥
आत्मार्थं पूजयेत्तेषां शास्त्रमार्गेण चैव हि ।
तत्काले वाप्यकाले वा एवमेव क्रमेण तु ॥ ६ ॥
आत्मशुद्धिं पुरा कृत्वा स्थान शुद्धिं द्वितीयकम् ।
तृतीयं द्रव्यशुद्धिस्तु चतुर्थं लिङ्गशोधनम् ॥ ७ ॥
पञ्चमं मन्त्रशुद्धिस्तु उच्यन्ते पञ्च शुद्धयः ।
पूर्वोक्तेन विधानेन आत्मशुद्धिं च कारयेत् ॥ ८ ॥
द्वितीयं स्थानशुद्धिं च कुर्याद्वै देशिकोत्तमः ।
हुङ्कारेण समायुक्तं फट्कारेण समायुतम् ॥ ९ ॥
स्थानशुद्धिं ततः कुर्याद् दशदिक्षु समन्ततः ।
गोमयेनोप लिप्याथ प्रोक्षयेद् हृदयेन तु ॥ १० ॥
उदकभाण्डं वर्धन्यां पाद्याचमन पात्रकम् ।
अर्घ्यपात्रं पुष्पपात्रं धूपदीपस्य पात्रकम् ॥ ११ ॥
चरुस्थाली जलकुम्भं च नीराजनस्य पात्रकम् ।
हृदेन क्षालयित्वा तु अस्त्रेण शोधयेत्ततः ॥ १२ ॥
दर्भोपरि न्यसेत्तत्र कवचेनावगुण्ठयेत् ।
पञ्चब्रह्मेण मन्त्रेण उदकं सेचयेत्ततः ॥ १३ ॥
गन्धं हृदयो लो * * शिरसा गन्धकं ददेत् ।
द्रव्याणि प्रोक्षयेत्तत्र हृदयेन तु मन्त्रतः ॥ १४ ॥
प्। १२८)
द्रव्यशुद्धिर्भवेदेवं लिङ्गशुद्धिं ततः शृणु ।
हृदयेनैव मन्त्रेण घण्टां चैव तु ताडयेत् ॥ १५ ॥
हुङ्कारेण तु मन्त्रेण यवनीक्रापमनीयते ।
पूजापर्यषितानां तु हृदयेन विसर्जयेत् ॥ १६ ॥
सद्योजातेन मन्त्रेण पुष्पं शिरसि विन्यसेत् ।
अपनीय च निर्माल्यं चण्डेशाय प्रदापयेत् ॥ १७ ॥
न शून्यमस्तकं लिङ्गं कृत्वाभिषेकं तु साधकः ।
लिङ्गं प्रक्षालयेत्तत्र हृदयेन तु मन्त्रतः ॥ १८ ॥
लिङ्गे वा कौतुके वापि भित्तिचित्रे च मण्डले ।
एवमेवक्रमेणैव लिङ्गशुद्धिमथाचरेत् ॥ १९ ॥
पञ्चमं मन्त्रशुद्धिं तु कारयेद्देशिकोत्तमः ।
पञ्चब्रह्मशिवाङ्गैश्च प्रासादेन समन्वितम् ॥ २० ॥
व्योमव्यापिसमायुक्तं विद्येश्वरांश्च एव च ।
गणेशान्लोकपालांश्च लोकपालास्त्रमेव च ॥ २१ ॥
ओङ्कारमादितः कृत्वा नमस्कारान्तं योजयेत् ।
मन्त्रशुद्धिर्भवेदेवं कारयेद्देशिकोत्तमः ॥ २२ ॥
शुद्धयः पञ्च यो वेत्ति स पूजां कर्तुमर्हति ।
आसनं कल्पयेद्विद्वान् अनन्तान्तान्यथाक्रमम् ॥ २३ ॥
अनन्तासनं तु प्रथमं योगासनं द्वितीयकम् ।
सिंहासनं तृतीयं स्याद् योगासनं चतुर्थकम् ॥ २४ ॥
प्। १२९)
विमलासनं चतुर्थे तु पद्मासनमिहोच्यते ।
शक्त्यक्षरसमायुक्तं नवमाङ्कुरसंयुतम् ॥ २५ ॥
बीजाक्षरसमायुक्तं नालान्तं परिकीर्तितम् ।
मध्ये नालसमायुक्तं पञ्चाशत्कर्णिकायुतम् ॥ २६ ॥
पद्मासनान्तकैर्दैर्घ्यैः तदूर्ध्वे कर्णिका न्यसेत् ।
अनन्तं पूर्वतो भागे वासुकिं चाग्निगोचरे ॥ २७ ॥
तक्षकं दक्षिणे स्थाप्य कार्कोटकं तु नैर्-ऋते ।
शङ्खपालं च वारुण्यां गुलिके वायुगोचरे ॥ २८ ॥
पद्मं तु सौम्यके भागे महापद्मीशगोचरे ।
अनन्तासनं तु प्रदद्यात् कूर्मस्योपरि संश्रिताः ॥ २९ ॥
मध्यस्थं चैव नालं तु शिवाङ्गं वेष्टयेत्ततः ।
आधारं चाप्यते विप्र देवानां च शृणुष्वथ ॥ ३० ॥
अनेन्तेशश्च सूक्ष्मश्च शिवोत्तमश्चैकनेत्रकः ।
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिकः ॥ ३१ ॥
पूर्वादीशानपर्यन्तं क्रमाद्विन्यस्य देशिकः ।
शेषश्चैव तु नागेन्द्रा गुलिकाश्च चतुर्दिशि ॥ ३२ ॥
अनन्तासनमिह प्रोक्तं योगासनमिहोच्यते ।
चतुरश्रं तु योगं स्यात् शेषस्योपरि विन्यसेत् ॥ ३३ ॥
प्राणं तु पूर्वतः स्थाप्य अपानं वह्निगोचरे ।
देवदत्तधनञ्जयौ मध्यमे च विकीर्यते ॥ ३४ ॥
प्। १३०)
आधारं तु मया प्रोक्तं देवतानां शृणुष्वथ ।
प्रणवं मध्यदेशे तु आकारं पूर्वदेशके ॥ ३५ ॥
नकारमीश दिग्भागे ओङ्कारं पूर्व संस्थितम् ।
अधश्चाथोर्ध्वच्छदनं योगासनमिति स्मृतम् ॥ ३६ ॥
योगासनोपरिष्टात्तु सिंहासनमिहोच्यते ।
आग्नेय्यां धर्म विन्यस्य नैर्-ऋत्यां ज्ञानमेव च ॥ ३७ ॥
वैराग्यं चैव वायव्याम् ऐश्वर्यमीशगोचरे ।
चतुष्कोणे महासिंहम् आसनं पादनिर्मितम् ॥ ३८ ॥
शङ्खस्फटिकपीतं च रक्तं सिंहस्य वर्णकम् ।
अधर्मं पूर्वतो भागे अज्ञानं दक्षिणे तथा ॥ ३९ ॥
वैराग्यं पश्चिमे न्यस्य ऐश्वर्यं चोत्तरे दिशि ।
कृष्णवर्ण समायुक्तम् इलिकां तत्र विन्यसेत् ॥ ४० ॥
अव्यक्तो नियतिः कालः कला चेति चतुष्टयम् ।
महादिक्षु न्यसेदेनं मध्यपादस्तु केशवः ॥ ४१ ॥
त्रिणेत्रं भीमसङ्काशं विदिक्ष्वभिमुखांस्तथा ।
एवं सिंहासनं प्रोक्तं पद्मासनमथोच्यते ॥ ४२ ॥
पृथ्वीं पूर्वदलश्चैव आपश्चैवाग्निगोचरे ।
तेजोरूपं तु दक्षिण्यां वायुरूपं तु नैर्-ऋते ॥ ४३ ॥
आकाशं चैव विप्रेन्द्र वारुण्यां दलमुच्यते ।
सत्वं वायव्यके न्यस्य रजोविन्यस्य सोमके ॥ ४४ ॥
प्। १३१)
ईशाने तु दले विप्र तमोरूपं प्रकल्पयेत् ।
तत्ववर्णसमायुक्तम् आधारं चोच्यते मया ॥ ४५ ॥
मूलं सद्येन मन्त्रेण नालं वामेन कारयेत् ।
अघोरं दलमेवाहु स्तत्पुरुषं गुह्यदेशके ॥ ४६ ॥
सुषिरमीशमन्त्रेण कुर्याद्वै देशिकोत्तमः ।
देवताः सम्प्रवक्ष्यामि कालीं पूर्वे तु विन्यसेत् ॥ ४७ ॥
कलविकरणीं चाग्ने रौद्रीं चैव तु दक्षिणे ।
बलविकरणीं नैर्-ऋत्यां वामां पश्चिमतो न्यसेत् ॥ ४८ ॥
बलप्रमथनीं वायव्ये ज्येष्ठां चैवोत्तरे दिशि ।
सर्वभूतदमनीमीशान्ये मनोन्मनीं तु मध्यमे ॥ ४९ ॥
एवं पद्मासनं प्रोक्तं विमलासनमुच्यते ।
चतुर्वेदस्वरूपं तु विन्यसेद् व्याघ्रचर्मवत् ॥ ५० ॥
इलिकोपरि विन्यस्य देवतां च शृणुष्वथ ।
अम्बिकां पूर्वतः स्थाप्य गणाम्बिकां च दक्षिणे ॥ ५१ ॥
गौरीं च पश्चिमे न्यस्य प्रज्ञां चैवोत्तरे दिशि ।
विमलासनमिदं प्रोक्तम् इदमन्यच्छृणुष्वथ ॥ ५२ ॥
आवाहनासनं पद्मं पद्मासनमनन्तकम् ।
विमलमर्चनेषूक्तं भोज्यासनं तु योगतः ॥ ५३ ॥
एवमेव प्रकारेण आसनक्रममुच्यते ।
गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव तु पूजयेत् ॥ ५४ ॥
प्। १३२)
स्वनामाद्यक्षरेणैव हृदयेन तु देशिकः ।
सत्वं रजस्तमश्चैव उपर्युपरि विन्यसेत् ॥ ५५ ॥
अग्नेस्तु मण्डले चैव तदन्ते सूर्यमण्डलम् ।
चन्द्रबिम्बं न्यसेत्पश्चा आत्मानं चान्तरात्मकम् ॥ ५६ ॥
परमात्मानमेवं च स्वनामाद्येन विन्यसेत् ।
दक्षिणे ह्यात्मतत्वं तु विद्यातत्वं तु चोत्तरे ॥ ५७ ॥
मध्यमे शिवतत्वं तु विन्यसेत्तु यथाक्रमम् ।
एवं न्यस्त्वा तु विधिवच्छिवं सम्पूजयेत्ततः ॥ ५८ ॥
शुद्धस्फटिकसङ्काशं स्फुरन्तं दीप्ततेजसम् ।
त्र्यक्षं दशभुजं चैव चन्द्रार्धकृतशेखरम् ॥ ५९ ॥
जटामकुटसंयुक्तं चारुगात्रसमायुतम् ।
पञ्चवक्त्रं च देवेशं पञ्चमूर्धसमन्वितम् ॥ ६० ॥
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।
मकुटं कुण्डलं चैव केयूरकटकं ततः ॥ ६१ ॥
कटिसूत्रोदरं बद्धमेखलं नूपुरैर्युतम् ।
दिव्याम्बरधरं देवं दिव्यगन्धानुलेपितम् ॥ ६२ ॥
पाशं परशुखड्गं च वक्त्रं चाभयदक्षिणे ।
वामाङ्कुशं चैवां घण्टां नागं च वह्नि च ॥ ६३ ॥
एतेषामायुधा विप्र वामहस्ते ददेत्ततः ।
एवं सदाशिवं ध्यात्वा सर्वलोकसुखावहम् ॥ ६४ ॥
प्। १३३)
आवाहयेत्ततो देवं सद्योजातेन मन्त्रतः ।
स्थापयेद्वामदेवेन अघोरेण निरोधयेत् ॥ ६५ ॥
सान्निध्यं पुरुषेणैव ईशानेन तु पूजयेत् ।
पूर्वे द्वारगेहे तु दक्षिणे वा विशेषतः ॥ ६६ ॥
पश्चिमद्वारगेहं वा उत्तरद्वारमेव वा ।
निष्कले सकलं ध्यात्वा आसनं चैव कल्पयेत् ॥ ६७ ॥
द्वारस्याभिमुखं स्थाप्य पूजयेत्पूर्ववत्ततः ।
द्वारभेदेषुभेदानां पूजाभेदं न विद्यते ॥ ६८ ॥
ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरषं न्यसेत् ।
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ॥ ६९ ॥
सद्योजातं न्यसेत्पादं पुनरङ्गानि विन्यसेत् ।
हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् ॥ ७० ॥
शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः ।
अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् ॥ ७१ ॥
पञ्चवक्त्रेषु विप्रेन्द्र अक्ष्णां पञ्चदशेषु च ।
पाद्यं पादौ प्रदातव्यमर्घ्यं शिरसि विन्यसेत् ॥ ७२ ॥
मुखेष्वाचमनं विद्याद् हृदयेन तु मन्त्रतः ।
उशीरं चन्दनोपेतं पाद्यद्रव्यमुदाहृतम् ॥ ७३ ॥
फलत्रयं च कर्पूर मादिपत्रं च पालिकम् ।
आचमनीयमिति प्रोक्तं मुखे दद्याद्विशेषतः ॥ ७४ ॥
प्। १३४)
आपक्षीरकुशाग्राणि अक्षतैर्यवतण्डुलैः ।
तिलैस्सिद्धार्थकैश्चैव अर्घ्यमष्टाङ्गमुच्यते ॥ ७५ ॥
नेत्रे चैव तु विप्रेन्द्र नेत्रमुद्रां च दर्शयेत् ।
क्षुरिकां कल्पयेत्तत्र दक्षिणेकदिरेव च ॥ ७६ ॥
शिवास्त्रं विन्यसेत्तत्र दलाग्रे दशदिक्षु वै ।
शिवस्य दक्षिणे पार्श्वे न्यसेत्पाशुपतास्त्रकम् ॥ ७७ ॥
अघोरास्त्रं पश्चिमे न्यस्य स्वस्वबीजेन मन्त्रतः ।
एवं न्यस्य विधानेन पश्चादर्चनमारभेत् ॥ ७८ ॥
अभिषेकं कारयेत्तत्र हृदयेन तु मन्त्रतः ।
आदित्योदयपूर्वे तु पञ्चस्नानं तु कारयेत् ॥ ७९ ॥
आदित्योदयमारभ्य जलेनैवाभिषिञ्चयेत् ।
पञ्चब्रह्मषडङ्गैश्च व्योमव्यापि जपेत्ततः ॥ ८० ॥
रत्नोदकं सुवर्णाभः पुष्पोदकसमन्वितम् ।
जलभाण्डे विनिक्षिप्य अभिषेकं तु कारयेत् ॥ ८१ ॥
नवकुम्भेन वा कुर्यात् षोडशैः कुम्भमेव वा ।
द्वात्रिंशद्वा चतुस्त्रिंशत्पञ्चाशत्पञ्चविंशतिः ॥ ८२ ॥
अष्टोत्तरशतं वापि कारयेद्देशिकस्तथा ।
आढकेन तु सम्पूर्णं कुम्भलक्षणमुच्यते ॥ ८३ ॥
कुम्भं चैव प्रकर्तव्यं सौवर्णं रजतं तु वा ।
ताम्रं वा मृण्मयं वापि अभिषेकं तु कल्पयेत् ॥ ८४ ॥
प्। १३५)
दधिक्षीरघृतं चैव मधु वा पञ्चगव्यकम् ।
नालिकेरस्य सलिलम् इक्षुकाण्डसमन्वितम् ॥ ८५ ॥
अभिषेकं कारयेत्तत्र पुनर्गन्धोदकेन च ।
नृत्तगेयसमायुक्तं स्तोत्रशब्दसमायुतम् ॥ ८६ ॥
वाद्यध्वनिरवैर्युक्तं भरतोक्तेन मार्गतः ।
तस्यान्ते पूजको विप्र आचमनीयं तु कारयेत् ॥ ८७ ॥
कुङ्कुमं चन्दनं चैव अगरुं खड्गमेव च ।
निर्यासं त्रिफलं चैव उशीरं च विशेषतः ॥ ८८ ॥
आलोढ्य सर्वमेवं तु लेपयेल्लिङ्गमेव च ।
हृदयेन तु गन्धं स्याद् वस्त्रं वामेन दापयेत् ॥ ८९ ॥
वस्त्रेणावेष्ट्य लिङ्गं तु नानावर्णैरनेकशः ।
नानाविधैश्च पुष्पैश्च पूजयेत्परमेश्वरम् ॥ ९० ॥
अस्त्रमन्त्रेण शिरसा पुष्पं दद्याच्छिवस्य तु ।
पीठपूजा प्रकर्तव्या लक्षणेन समन्विता ॥ ९१ ॥
पीठस्योत्सेधमानेन फलकं चतुरश्रकम् ।
विस्तारं तावदेवस्यान्मृदेनैव तु लेपयेत् ॥ ९२ ॥
उत्तमं शालिपिष्टेन लेपयेत्फलकान्ततः ।
पुष्पैर्नानाविधैर्युक्तं नालिकेरस्य पात्रकम् ॥ ९३ ॥
गजसिंहं च अङ्गाचं च अश्वं च पद्मपुष्पकम् ।
सर्वद्वयं च पीठं च गोपुरं मण्डपं तथा ॥ ९४ ॥
प्। १३६)
विमानं चैव मत्स्यं च मकारं च तथैव च ।
दर्पणं पूर्णकुम्भं च वृषभं युग्मचामरम् ॥ ९५ ॥
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ।
वज्रं शक्तिं च दण्डं च खड्गम्पाशं तथाङ्कुशम् ॥ ९६ ॥
गदात्रिशूलशक्रं च पद्मं चेति दशायुधम् ।
दिनं प्रति न्यसेदेकं त्रिंशद्दिनान्तमेव च ॥ ९७ ॥
पुष्पैः पत्रैश्च विप्रेन्द्र अलङ्कृत्य विशेषतः ।
पीठपूजां च विप्रेन्द हृदयेन तु मन्त्रतः ॥ ९८ ॥
पीठे चैव न्यसेद्विद्वान् गन्धपुष्पादिनार्चयेत् ।
मासे मासे प्रकर्तव्यम् एवमेव पुनः पुनः ॥ ९९ ॥
विन्यसेत्पि पूर्वे तु प्रासादेन मन्त्रतः ।
धूपं चैव तु विप्रेन्द्र धूपपात्रं विशेषतः ॥ १०० ॥
शीतारिं चैव निक्षिप्य यथा वित्तानुसारतः ।
एकभागं तु कर्पूरं लोहं चैव चतुष्टयम् ॥ १०१ ॥
चन्दनं चैव षट्ताङ्गं वारं सप्तधा भवेत् ।
मधुना सेचयेद्धूपं पात्रे तु परि निक्षिपेत् ॥ १०२ ॥
देवदारुं च मेरुं च सर्जं श्रीलासकुन्दकम् ।
श्रीफलं चाज्यसम्मिश्रं धूपं दद्याद्विशेषतः ॥ १०३ ॥
धूपघण्टासमायुक्तं वामहस्ते विचक्षणः ।
दक्षिणे धूपपात्रं तु हृदयेन तु दापयेत् ॥ १०४ ॥
प्। १३७)
हुङ्कारेण तु मन्त्रेण यवनिकामपनीयते ।
प्रोक्षयेदम्भसा चैव दीपं दद्यात्तु सद्यतः ॥ १०५ ॥
प्रोक्षयेदम्भसा चैव पुष्पं शिरसि निक्षिपेत् ।
रक्षादीपं तु कर्तव्यं तत्काले तु विशेषतः ॥ १०६ ॥
सायाह्नसमये विप्र यक्षेश्वरं च पूजयेत् ।
तद्दीपं बलिपीठे तु स्त्रीभिश्चैव तु धारयेत् ॥ १०७ ॥
विसर्जयेत्तु विप्रेन्द पादप्रक्षालनं कुरु ।
आढकं वा शिवं वापि द्रोणं वा तण्डुलं पचेत् ॥ १०८ ॥
वेदनं तु कर्तव्यम् अनेकोपदंशसंयुतम् ।
आज्येन दधिसंयुक्तं पूर्वोक्तेन विधानतः ॥ १०९ ॥
अर्धं निवेदयेद्देवम् एकांशं बलिचाग्निभिः ।
पात्रशेषं चतुर्थांशं देशिकाय प्रदापयेत् ॥ ११० ॥
पञ्चवर्णाभिश्चरुभिः पञ्चवक्त्रे निवेदयेत् ।
निर्माल्यं चैव विप्रेन्द्र चण्डेशाय प्रदापयेत् ॥ १११ ॥
पादप्रक्षालनं कृत्वा मुद्रां चैव तु धारयेत् ।
पद्मं शूलं च परशुं खड्गं पाशं तथाङ्कुशम् ॥ ११२ ॥
धनुर्बाणं च घण्टां च वज्रमुद्रां ददर्शयेत् ।
सुरभिमुद्रां लिङ्गमुद्रां दर्शयेत्तु विधानतः ॥ ११३ ॥
एवमेव क्रमं कुर्यात् पश्चाद्ब्रह्माङ्गपूजयेत् ।
पुरुषं पूर्वतः पूज्य अघोरं दक्षिणे यजेत् ॥ ११४ ॥
प्। १३८)
सद्यं पश्चिमतः पूज्य वामदेवं तु चोत्तरे ।
ईशानं कर्णिकायां तु पूजयेद्देशिकस्सदा ॥ ११५ ॥
आग्नेय्यां हृदयं पूज्य ऐशान्यां तु शिरो यजेत् ।
नैर्-ऋत्यां तु शिखां पूज्य वायव्यां कवचं यजेत् ॥ ११६ ॥
अस्त्रं दिशासु सम्पूज्य नेत्रमीशानके यजेत् ।
मध्यमे शिवतत्वं तु आत्मतत्वं तु दक्षिणे ॥ ११७ ॥
विद्यातत्वं तु सौम्यायां गन्धाद्येनैव पूजयेत् ।
मध्यमे तु यजेद्देवं शिवं परमकारणम् ॥ ११८ ॥
किञ्चिदीशानमाश्रित्य सदाशिवं यजेत्ततः ।
महेश्वरं यजेन्मध्ये किञ्चिदाग्नेयमाचरेत् ॥ ११९ ॥
स्थूलं महेश्वरं विद्धि सूक्ष्मरूपं सदाशिवम् ।
परं शिवमयं ज्ञेयं शिवात्परतरं न च ॥ १२० ॥
गर्भावरणमेवं तु विद्येशावरणं शृणु ।
अनन्तं पूर्वतः पूज्य सूक्ष्मं वै दक्षिणेन तु ॥ १२१ ॥
शिवोत्तमं पश्चिमे पूज्य एकनेत्रं तथोत्तरे ।
एकरुद्रं तु ईशान्यां त्रिमूर्तिस्त्वग्निगोचरे ॥ १२२ ॥
श्रीकण्ठश्चैव नैर्-ऋत्यां शिखण्डिं वायुगोचरे ।
विद्येशावरणं ह्येतद् गणेशावरणं शृणु ॥ १२३ ॥
उमादेवीं चोत्तरे देशे पूजयेद्देशिकस्सदा ।
चण्डेशमीशदिग्भागे नन्दीशं पूर्वतो यजेत् ॥ १२४ ॥
प्। १३९)
महाकालं वह्निदेशे तु वृषभं दक्षिणे यजेत् ।
विघ्नेशं निर्-ऋते चैव भृङ्गीशं वारुणे यजेत् ॥ १२५ ॥
महासेनं च वायव्यां पूजयेद्गन्धपुष्पकैः ।
गणेशावरणं ह्येतत् लोकपालान्शृणुष्वथ ॥ १२६ ॥
इन्द्रं तु पूर्वतः पूज्य शक्तिं चाग्नेयमेव च ।
याम्यायां तु यमं पूज्य नैर्-ऋत्यां निर्-ऋतिं यजेत् ॥ १२७ ॥
वारुण्यां पूज्य वरुणं वायव्यां वायुमेव च ।
सौम्यायां सोमं सम्पूज्य ऐशान्यामीशमेव च ॥ १२८ ॥
ब्रह्माणं नैर्-ऋते भागे ईशान्यां विष्णुरुच्यते ।
लोकेशावरणं ह्येतत् लोकपालास्त्रमुच्यते ॥ १२९ ॥
पूर्वे तु वज्रं सम्पूज्य शक्तिं चाग्नेयमेव च ।
याम्ये दण्डं यजेत्तत्र खड्गं निर्-ऋतिगोचरे ॥ १३० ॥
वारुण्यां तु यजेत्पाशम् अङ्कुशं वायुगोचरे ।
गदायुधं चोत्तरे पूज्य शूलं चीशानगोचरे ॥ १३१ ॥
पद्मं तु नैर्-ऋते भागे चक्रं त्वीशानगोचरे ।
गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव तु पूजयेत् ॥ १३२ ॥
सर्वावरणदेवांश्च आसनं बिन्दुरुच्यते ।
आसनस्थांश्च देवांश्च शिवस्याभिमुखः स्थितः ॥ १३३ ॥
पञ्चब्रह्मशिवाङ्गानां सुरभिमुद्रां च दर्शयेत् ।
विद्येशानां गणेशानां लिङ्गमुद्रां च दर्शयेत् ॥ १३४ ॥
प्। १४०)
लोकपालांश्च हस्तांश्च पद्ममुद्रां च दर्शयेत् ।
तत्काले ताडयेद् घण्टां पटं चैव विसर्जयेत् ॥ १३५ ॥
धूपं दद्यात्तु विप्रेन्द्र हृदयेन तु मन्त्रतः ।
प्रोक्षयेदम्भसा चैव दीपं दद्याच्छिखासह ॥ १३६ ॥
प्रोक्षयेदम्भसा चैवम् ईशानेन विशेषतः ।
पञ्चवर्णहविर्दद्यात् पञ्चवक्त्रेषु देशिकः ॥ १३७ ॥
पानीयं चैव दद्यात्तु वस्त्रपूतेन वारिणा ।
उशीरं चैव कुष्ठं च एलं चन्दन संयुतम् ॥ १३८ ॥
तत्कालं चैव विप्रेन्द्र पानीये च दापयेत् ।
मुखवासं च ताम्बूलं कर्पूरं त्रिफलैर्युतम् ॥ १३९ ॥
मातुलुङ्गफलाद्यादि दद्यात्ताम्बूलकैः सह ।
अपूपं पृथुकं चैव फट्कुली च समन्वितम् ॥ १४० ॥
गुलाज्येन समायुक्तं बृन्देन सह पाचयेत् ।
निवेदयेत्तु शर्वाय क्षेत्रपालांश्च पूजयेत् ॥ १४१ ॥
तालुजङ्घो लोहजङ्घः तथा पर्वत जङ्घकः ।
समुद्रघोषो वायुघोषो अनलाक्षः प्रमर्दनः ॥ १४२ ॥
अघोरदंष्ट्र इत्यष्टौ दण्डहस्तैस्सुभीषणाः ।
नीलजीमूत सङ्काश ऊर्ध्वकेशसमन्वितम् ॥ १४३ ॥
पूजयेत्क्षेत्रपालानां स्वस्वनाम्ना तु पूजयेत् ।
एवमेव क्रमेणैव पूजयेद्देशिकोत्तमः ॥ १४४ ॥
प्। १४१)
प्रदक्षिण त्रयं कृत्वा नमस्कारं तु कारयेत् ।
शिरो हस्तौ द्विजान्वोश्च चिबुकं बाहुयुक् तथा ॥ १४५ ॥
अष्टाङ्गं च नमस्कारं पञ्चाङ्गं च ततः शृणु ।
शिरो हस्तौ द्विजानू च पञ्चाङ्गमिहोच्यते ॥ १४६ ॥
पूजयेद्द्वारपालांश्च परिवारांश्च पूजयेत् ।
पञ्चावरणं प्रोक्तम् एकावरणमुच्यते ॥ १४७ ॥
प्रथमं सिंहासनं चैव पद्मासनं द्वितीयकम् ।
विमलासनं तृतीयं स्याद् आसनं त्रीणि कल्पयेत् ॥ १४८ ॥
पञ्चब्रह्मशिवाङ्गैश्च पूजयेत्पूर्ववत्ततः ।
एकावरणमेवोक्तं पूजयेद्देशिकस्सदा ॥ १४९ ॥
स्वगुरुं पूजयेत्तत्र गन्धपुष्पादिना सह ।
अग्निकार्यं ततः कुर्याल्लक्षणेन समन्वितम् ॥ १५० ॥
परिषेचनं ततः कुर्याधृदयेन तु मन्त्रतः ।
गन्धपुष्पादिना चैव अग्निदेवं समर्चयेत् ॥ १५१ ॥
आज्येनान्त समायुक्तं होतस्वं देशिकस्सदा ।
प्रासादेन तु मन्त्रेण शिवे दशाहुतिं हुनेत् ॥ १५२ ॥
गौरीबीजेन मन्त्रेण होतव्यं पञ्च एव च ।
पञ्चब्रह्मशिवाङ्गानाम् एकैकं होमयेत्तदा ॥ १५३ ॥
विद्येशानां गणेशानां लोकपालान्सहस्रकः ।
एकाहुतिं च होतव्यं तत्तत्स्वनाममन्त्रतः ॥ १५४ ॥
प्। १४२)
परिषेचनं ततः कृत्वा नित्योत्सवं तु कारयेत् ।
पुस्तकाराधनं तत्र गन्धपुष्पादिना सह ॥ १५५ ॥
चुलुकोदकेन विप्रेन्द्र स्वात्मानं च निवेदयेत् ।
उक्तानुक्तं च तत्सर्वं हृदयेन तु दापयेत् ॥ १५६ ॥
हृदयेन तु मन्त्रेण विसर्जयेत्तु बुद्धिमान् ।
प्रविश्य विगृहं पश्चाद् गृहदेवान्समर्चयेत् ॥ १५७ ॥
न सम्पूज्य शिवं मोहाद् भुञ्जीतैव कदाचन ।
तस्मात्सर्वप्रयत्नेन पूजयेच्छिवमादरात् ॥ १५८ ॥
एष धर्मपरो नास्ति भुवनत्रितयेऽपि वा ।
आत्मार्थं पूजयेद् नित्यं चललिङ्गं विशेषतः ॥ १५९ ॥
सप्तभक्तिं समाश्रित्य पूजयिष्यति यो नरः ।
आभिचारं करिष्यामि एकधा दशधा ततः ॥ १६० ॥
पूजयेन्मण्डलं चापि पूर्वोक्तविधिना सह ।
एवमेव क्रमेणैव अर्चयेद्देशिकस्सदा ॥ १६१ ॥
अर्चनाया विधिः प्रोक्तः अग्निकार्यं ततः शृणु ॥ १६१ � ॥
इति वीरतन्त्रे अर्चनाविधिः अष्टत्रिंशः पटलः ॥ ३८ ॥