प्रणम्य शिरसा देवं पर्यपृच्छत्पितामहः ।
मन्त्रन्यासं कथं देव तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥
ईश्वरः ॥
यत्सर्वं तु मया पृष्टं मर्त्यानां तु हिताय च ।
तवस्नेहादहं वक्ष्ये श्रूयतां कमलासन ॥ २ ॥
शिवाग्रे मण्डपं कुर्यान्मण्डपाद्दक्षिणे ततः ।
मण्डपं चैव विप्रेन्द्र गोमयेनानुलेपयेत् ॥ ३ ॥
प्। १२०)
गन्धपुष्पं च धूपं च दीपं चैव समायुतम् ।
कूर्चं चैव तु निक्षिप्य पूर्वना(थ) विधिपूर्वकम् ॥ ४ ॥
उत्तराभिमुखो भूत्वा तत्रान्ते कूर्चमध्यमे ।
सद्येन प्रोक्षयेत्तत्र कुशकूर्चेन वामतः ॥ ५ ॥
गन्धपुष्पादिना विप्र स्वदेवीं पूजयेत्ततः ।
घृताशिखाग्रे द्वादशाङ्गुल्ये शिवतत्वं विचिन्तयेत् ॥ ६ ॥
स्वात्मानं योजयेत्तत्र तनुं चैव दहेत्ततः ।
त्रिकोणमण्डले विद्यादद्वितीयं विचिन्तयेत् ॥ ७ ॥
पादाङ्गुष्ठात्समारभ्य दहेव्रायं शिरोन्तकम् ।
भस्मभूतः शिवं ध्यात्वा अमृतं प्लावनं कुरु ॥ ८ ॥
शिखाद्धस्तप्रमाणेन ऊर्ध्वे चैव विचिन्तयेत् ।
श्वेतपद्मो परिष्टात्तु चन्द्रबिम्बमधोमुखम् ॥ ९ ॥
तुरीयममृतं ध्यायेदोङ्कारेण समन्वितम् ।
चिन्तयेदमृतं तोयं सुषुम्नाभिन्नमस्तकम् ॥ १० ॥
तेन प्लावितमात्मानं पूरयन्तं विचिन्तयेत् ।
मृत्युनाशनमेवं तु इति शास्त्रस्य निश्चयः ॥ ११ ॥
पश्चात्स्वदेहं सञ्चिन्त्य गन्धपुष्पादिनार्चयेत् ।
रेचकं पूरकं चैव कुम्भकं त्रिविधं मतम् ॥ १२ ॥
न मुञ्चति न गृह्णाति वायुरन्तर्बहिः स्थितम् ।
आपूर्णकुम्भवत्तिष्ठेदचलस्य तु कुम्भकम् ॥ १३ ॥
प्। १२१)
एवमेव प्रकारेण कारयेद्देशिकोत्तमः ।
हस्ताभ्यां संस्पृशेत्पूर्वं कादिपादान्तमेव च ॥ १४ ॥
अङ्गुष्ठतर्जनीभ्यां तु अस्त्रे मन्त्रेण संयुतम् ।
दिवि दिक्षु च दातव्यम् ऊर्ध्वाधश्चैव विन्यसेत् ॥ १५ ॥
आजानु पृथिवी ज्ञेया अप्सिद्धिर्नाभिदेशतः ।
गलाद्द्वे तेजसंशुद्धि ललाटाद्वायु शुध्यति ॥ १६ ॥
तदूर्ध्वे द्वादशाङ्गुल्ये गगनशुद्धिरुदाहृतम् ।
प्रथमं सृष्टिन्यासं तु स्थितिन्यासं द्वितीयकम् ॥ १७ ॥
संहारं तु तृतीयं स्यात् त्रिविधं चोच्यते मया ।
गृहस्थः सृष्टिमार्गेण ब्रह्मचारी स्थितिर्भवेत् ॥ १८ ॥
वानप्रस्थ यतीनां च संहारन्यासमुच्यते ।
अङ्गुष्ठादि कनिष्ठान्तं सृष्टिन्यासमुदाहृतम् ॥ १९ ॥
ईशादि पञ्चमन्त्राणि अङ्गुष्ठादीनि विन्यसेत् ।
ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् ॥ २० ॥
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ।
सद्योजाते न्यसेत्पादौ पुनरङ्गानि विन्यसेत् ॥ २१ ॥
विन्यसेत्तु षडङ्गानि देवतान्यासकं शृणु ।
ब्रह्माणं मूर्ध्नि विन्यस्य ललाटे विष्णुरुच्यते ॥ २२ ॥
चन्द्रसूर्यौ च नयनौ नासिक्यां पृथिवीं तथा ।
सरस्वतीं तु वश्वारे हृदये ईश्वरं तथा ॥ २३ ॥
प्। १२२)
हस्तौ चैवेन्द्रदैवत्यं वायुः स्यात्कुक्षिरेव च ।
सुब्रह्मण्यस्य लिङ्गे च पार्श्वयोरम्बिका तथा ॥ २४ ॥
पादयोर्मरुतश्चैव एवमेव क्रमान्न्यसेत् ।
अकारं मूर्ध्नि विन्यस्य आकारं तु ललाटके ॥ २५ ॥
इकारं दक्षिणे नेत्रे ईकारं वामलोचने ।
उकारं दक्षिणे नासे ऊकारं वामनासिके ॥ २६ ॥
ऋकारं दक्षिणे श्रोत्रे ऋकारं वामश्रोत्रके ।
ऌकारं दक्षिणे गण्डे ॡकारं वामगण्डके ॥ २७ ॥
ए ऐ (च) तालुरन्ध्रे च ओ औ ओष्ठद्वयेऽपि च ।
दन्तपङ्क्तिद्वये न्यस्य अंअः परिकीर्तितौ ॥ २८ ॥
कवर्गं दक्षिणे पाणौ चवर्गं वामपाणिके ।
टवर्गं दक्षिणे पादे तवर्गं वामपादके ॥ २९ ॥
पफौ दक्षिणपाश्वौ तु वामपाश्वौ बभौ न्यसेत् ।
मकारं हृदये न्यस्य यकारं त्वचि विन्यसेत् ॥ ३० ॥
रेफं च रक्तमेवोक्तं लकारं मांसमेव च ।
वकारं मेदोदेशे तु शकारं चास्थिदेशके ॥ ३१ ॥
मज्जादेशे षकारं तु सकारं शुक्लमेव च ।
हकारं प्राण इत्याहुः क्षकारं मेढ्रमेव च ॥ ३२ ॥
लकारं वृषणं चैव सर्वामेतान्क्रमान्न्यसेत् ।
सृष्टिन्यासमिति प्रोक्तं न्यासं स्थितिमतः शृणु ॥ ३३ ॥
प्। १२३)
मध्यादि दण्ड * * * पञ्चब्रह्म न्यसेत्क्रमात् ।
ईशानं मध्यमे चैव अनामिकेन पुरुषं न्यसेत् ॥ ३४ ॥
कनिष्ठिकां च न घोरः स्याद्वाममङ्गुष्ठके न्यसेत् ।
सद्योजातं तु तर्जन्यां विन्यसेत्पृष्ठमेव च ॥ ३५ ॥
हृदयं मध्यमे न्यस्य शिरोमन्त्रं तु नामिके ।
शिखां कनिष्ठिके न्यस्य कवचाङ्गुष्ठके न्यसेत् ॥ ३६ ॥
नेत्रं तु तर्जनीं न्यस्य अस्त्रं करतले न्यसेत् ।
एवं षडङ्गं विन्यस्य विद्येशान्विन्यसेत्ततः ॥ ३७ ॥
अनन्तं मूर्ध्नि विन्यस्य ललाटे सूक्ष्ममुच्यते ।
शिवोत्तमं मुखे न्यस्य एकनेत्रं तु कर्णयोः ॥ ३८ ॥
एकरुद्रं तु बाहौ तु त्रिमूर्तिं हृदये न्यसेत् ।
लिङ्गे श्रीकण्ठमेवोक्तं शिखण्डिं पादयोर्न्यसेत् ॥ ३९ ॥
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ।
शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः ॥ ४० ॥
अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रे तु विन्यसेत् ।
हस्तौ तु मणिबन्धं तु ईशब्रह्माणिमेव च ॥ ४१ ॥
स्थिति न्यासमिदं प्रोक्तं संहारं च ततः शृणु ।
सद्योजातं कनिष्ठे तु वामदेवेन नामिका ॥ ४२ ॥
अघोरं मध्यमे न्यस्य पुरुषं तर्जनीं न्यसेत् ।
ईशमङ्गुष्ठके न्यस्य षडङ्गान्विन्यसेत्ततः ॥ ४३ ॥
प्। १२४)
हृदये कनिष्ठिकां न्यस्य कवचं स्तनमध्यतः ।
शिरोमन्त्रं च नामिके ।
शिखामन्त्रं तु मध्यं स्यात् कवचम् ॥ ४४ ॥
तर्जनी न्यसेत् ।
नेत्रमङ्गुष्ठके न्यस्य अस्त्रं करतले न्यसेत् ।
पादयोः सद्यमन्त्रेण कुक्षौ वामं न्यसेत्ततः ॥ ४५ ॥
अघोरं हृदये न्यस्य मुखे तत्पुरुषं न्यसेत् ।
ईशानं मूर्ध्नि विन्यस्य पादयोर्हृदयं न्यसेत् ॥ ४६ ॥
मेढ्रे तु शिरोमन्त्रं तु कुक्षौ शिखां तु विन्यसेत् ।
कवचं हृदये न्यस्य नेत्रं बाहुद्वयोर्न्यसेत् ॥ ४७ ॥
मुखे चास्त्रमिति प्रोक्तं शिवमन्त्रं तु सर्वशः ।
इन्द्रं तु पादयोर्न्यस्य मेढ्रे तु पावके न्यसेत् ॥ ४८ ॥
यमं कुक्षौ तु विन्यस्य निर्-ऋतिं हृदये न्यसेत् ।
बाह्वौ वरुणदैवत्यं कण्ठे वायुरिति स्मृतः ॥ ४९ ॥
मुखे तु सोमदैवत्यम् ईशं शिरसि विन्यसेत् ।
एवमेव क्रमे ज्ञात्वा विन्यसेद्देशिकस्तथा ॥ ५० ॥
आचार्यस्त्वादिशैवः स्याद्गृगस्थो वा द्विजोत्तमः ।
सृष्टौ स्थितिं च संहार न्यासं कुर्याद्विचक्षणः ॥ ५१ ॥
एवं न्यस्त्वा विधानेन देशिकः पापहा भवेत् ।
गन्धैः पुष्पैश्च पाद्यैश्च स्वदेहं पूजयेद्धृदा ॥ ५२ ॥
द्वारपालान्समभ्यर्च्य गन्धपुष्पादिभिस्सह ।
पूर्वे तु द्वारपालं तु नन्दिकालौ तथैव च ॥ ५३ ॥
प्। १२५)
दक्षिणद्वारपालौ तु दण्डिमुण्डिस्तथैव च ।
पश्चिमद्वारपालौ तु भृङ्गिटिर्विजयस्तथा ॥ ५४ ॥
उत्तरद्वारपालौ तु नन्दः पशुपतिस्तथा ।
नन्दिनं दक्षिणे स्थाप्य श्यामवर्णसमन्वितम् ॥ ५५ ॥
दण्डहस्तसमायुक्तं लकारं मन्त्रमुच्यते ।
कालं कुङ्कुमवर्णामम् उत्तरे तु प्रतिष्ठितम् ॥ ५६ ॥
वटवृक्षायुधैर्युक्तं मन्त्रं ह्रीं कारमेव च ।
दण्डिं पूर्वे तु विन्यस्य इन्द्रगोपस्य सन्निभम् ॥ ५७ ॥
खड्गायुध समायुक्तं ह्रौङ्कारं मन्त्रमुच्यते ।
मुण्डी तु पश्चिमे न्यस्य शुद्धस्फटिकसन्निभम् ॥ ५८ ॥
भिन्दिपालसमायुक्तं सृङ्कारं मन्त्रमुच्यते ।
भृङ्गिटिं दक्षिणे स्थाप्य मयूरग्रीवसन्निभम् ॥ ५९ ॥
शक्त्यायुधसमायुक्तं ह्रीङ्कारं मन्त्रमुच्यते ।
विजयं चोत्तरे स्थाप्य रक्तवर्ण समायुतम् ॥ ६० ॥
शूलायुधसमायुक्तं ह्रीङ्कारं मन्त्रमुच्यते ।
अनन्तं पश्चिमे स्थाप्य कनकाभं तथैव च ॥ ६१ ॥
वज्रायुधसमायुक्तं ह्रीङ्कारं मन्त्रमुच्यते ।
पशुपतिं पूर्वतः स्थाप्य नीलरूपसमन्वितम् ॥ ६२ ॥
पाशायुध समायुक्तं ह्रीङ्कारं मन्त्रमुच्यते ।
एवमेव क्रमैः स्थाप्य एतैर्मन्त्रैश्च पूजयेत् ॥ ६३ ॥
प्। १२६)
सर्वे चतुर्भुजाश्चैव त्रिणेत्राश्चैव संयुतम् ।
सर्वे ऋज्वागताः स्थित्या क्रूरदृष्टिभयावहाः ॥ ६४ ॥
मकुटैः कुण्डलैर्हारैः कटिसूत्रं तु वीरकम् ।
नानाभरणसंयुक्ता घोरभयावहाः ॥ ६५ ॥
सर्वे कुञ्चितपादास्तु रूपयौवनसंयुताः ।
एवमेव क्रमेणैव पूजयेद्देशिकस्सदा ॥ ६६ ॥
मन्त्रन्यासमिदं प्रोक्तं यजनं शृणु तत्वतः ॥ ६६ १।२ ॥
इति वीरतन्त्रे मन्त्रन्यासः सप्तत्रिंशत्पटलः ॥ ३७ ॥