३६

पितामहः ॥

भस्मस्नानं कथं देव तत्स्नानं कीदृशं भवेत् ।
एतत्सर्वं समासेन ब्रूहि मे परमेश्वर ॥ १ ॥

ईश्वरः ॥

भस्म स्नानं प्रवक्ष्यामि शृणुष्व कमलासन ।
भासत्वान्मनुष्याणां भासत्वभस्य चि ॥ २ ॥

प्। ११६)

सर्वरोगसमुत्पन्ना व्याघ्रसर्वभयेषु च ।
अन्यैदुष्टमृगैर्दुष्टैर्भस्मस्नानेन नश्यति ॥ ३ ॥

आग्नेयं प्रथमं चैव द्वितीयमनतं भवेत् ।
तृतीयं शैवमित्युक्तं चतुर्थं भोगदं भवेत् ॥ ४ ॥

पञ्चमं श्रीकरं प्रोक्तं तेषामेवं शृणुष्वथ ।
नन्दा भद्रा च सुरभिः सुशीला सुमनं तथा ॥ ५ ॥

एषां वर्गेषु सञ्जातं गोमयं चैव सङ्गृहेत् ।
उत्तमं श्वेतवर्णं तु मध्यमं रक्तमेव च ॥ ६ ॥

अधमं कृष्णवर्णं तु अन्यद्वर्णं तु वर्जयेत् ।
विकटाङ्गश्च विप्रेन्द्र अङ्गहीनं च वर्जयेत् ॥ ७ ॥

पतितं गोमयं ग्राह्य हृदयेन तु मन्त्रतः ।
कपिला गोमयं चैव उत्तमोत्तममुच्यते ॥ ८ ॥

गोमयं वायुसम्बद्धं शान्तकं वायुमन्त्रकैः ।
आकाशो ग्राहयेदङ्गैर्दर्भे तत्पौष्टिकं भवेत् ॥ ९ ॥

भूतले पतिता ये तु प्रासादेन तु गोमयम् ।
पौर्णमास्याममावास्यां षष्ठ्यां (च) शुक्लकृष्णयोः ॥ १० ॥

शिवाग्निना दहित्वा तु बुधैर्वापि तुषैस्तु वा ।
पिण्डं कृत्वा तु हृदयं शिखामन्त्रेण देशिकः ॥ ११ ॥

शुष्कं वै शिरसा चैवं दग्धं वै शिखया तथा ।
सद्यो जातेन मन्त्रेण ग्राहयेत् (च) विशेषतः ॥ १२ ॥

प्। ११७)

सौवर्णमुत्तमं पात्रं मध्यमं रजतं भवेत् ।
अधमं ताम्रपात्रं स्यादलाभे मृण्मयं भवेत् ॥ १३ ॥

अलाबुपात्रे सङ्ग्राह्य वामदेवेन मन्त्रतः ।
एतदाग्नेयमित्युक्तं मारुतं च शृणुष्वथ ॥ १४ ॥

अङ्गैर्लातेन वोद्भूतदग्निना च दहेत्ततः ।
मारुताख्यमिति प्रोक्तं शैवलक्षणमुच्यते ॥ १५ ॥

शिवाग्नि कुण्डे विप्रेन्द्र सञ्जातं भस्म एव च ।
भोगदं च प्रवक्ष्यामि कुलालानां दहेप्यतः ॥ १६ ॥

एवं चतुर्विधेनोक्तं श्रीकरं च शृणुष्वथ ।
चत्वारि भेद संयुक्तं भस्मना च विशेषतः ॥ १७ ॥

एवमेव प्रकारेण भस्मना लेपयेत्ततः ।
व्योम व्यापि समायुक्तं ब्रह्ममङ्गेन संयुतम् ॥ १८ ॥

ईशानेन तु मन्त्रेण शिर उद्धूलयेत्ततः ।
मुखं तत्पुरुषेणैव स्वीतौ चैव कटी तथा ॥ १९ ॥

पार्श्वयोरुभयोश्चैव पादयोरुभयोरपि ।
सद्यो जातेन मन्त्रेण उद्धूलयेद्विशेषतः ॥ २० ॥

उद्धूलयेत्तु सर्वाङ्गं ब्राह्मणानां विशेषतः ।
त्रिपुण्ट्रं कारयेत्तत्र नृपाणां वैश्यमेव च ॥ २१ ॥

शूद्राणां चैव सर्वेषामेवमेव क्रमेण तु ।
मध्यहात्प्रकृजलैर्युक्तं तोयं तमन वर्जयेत् ॥ २२ ॥

प्। ११८)

स्थानभेदं प्रवक्ष्यामि मूर्ध्नि ललाटमेव च ।
कर्णौ च चक्षुषी चैव नासिकौ चास्य एव च ॥ २३ ॥

ग्रीवे स्कन्धे च बाहुभ्यां कोर्परौ च तथा मणौ ।
हृदि नाभौ च मेढ्रे च पुयूरुकु च जानुनी ॥ २४ ॥

जङ्घयोः स्थीत्यक्त्व पादौ च तदा पृष्ठौ च एव च ।
द्वात्रिंशत्स्थानमेवोक्तं भस्मना लेपयेत्ततः ॥ २५ ॥

ललाटग्रीवसन्धौ च बाहुकोर्परयोरपि ।
हृदये जठरे चैव नाभौ पार्श्वे तु पृष्ठके ॥ २६ ॥

पार्श्वयोश्चैव विप्रेन्द्र षोडशस्थानमुच्यते ।
मूर्ध्नि चैव ललाटे च कण्ठे बाहु तथैव च ॥ २७ ॥

हृदये चैव नाभौ च पृष्ठे चैव विशेषतः ।
अष्टस्थानेषु विप्रेन्द्र विन्यसेद्भस्ममेव च ॥ २८ ॥

ब्रह्मास्कन्दं च विष्णुं च विघ्नश्चैव शिवस्तथा ।
वसुन्धरा च पितरौ अधिदेवाः प्रकीर्तिताः ॥ २९ ॥

षडङ्गुलं च चत्वारौ स्त्र्यङ्गुलं वाथ चाङ्गुलम् ।
ब्राह्मणादीनां वर्णानां विस्तारसि विविस्तरं भवेत् ॥ ३० ॥

क्षणां तथैव मार्गेण भस्मना लेपयेत्ततः ।
ज्ञानासूचन्दनं लिप्य वैश्यार्थं पूर्णमेव च ॥ ३१ ॥

जयार्थी चैव विप्रेन्द्र लेपयेद्रक्त चन्दनैः ।
देशिकानां तु सर्वेषामनामिका मध्यमतर्जनी ॥ ३२ ॥

प्। ११९)

भस्मना लेपयेत्तत्र सर्वपापात्प्रमुच्यते ।
दुस्वप्ने दुर्जनस्पर्शे आतुराणां तु सर्वतः ॥ ३३ ॥

भस्मस्नानेन शुध्यन्ति रक्षार्थमिह मोच्यते ।
भोजने तुषकेशं च चितारि नखान्यपि ॥ ३४ ॥

मन्त्रणं मर्थकाञ्चबरी सृपणि सर्वशः ।
दधिक्षीर घृतेतैल मिश्रिते तु विशेषतः ॥ ३५ ॥

भस्मस्नानाच्छुद्धिमाप्नोति सिंहनस्येव यथा गजः ।
पूर्वाह्ने भोजनेकाले गमनेऽपि तथैव च ॥ ३६ ॥

एवमेव क्रमेणैव भस्म दध्यात्तु भक्तितः ॥ ३७ ॥

सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ।
भस्मस्नानं मया प्रोक्तं मन्त्रन्यासं शृणुष्वथ ॥ ३८ ॥

इति वीरतन्त्रे भस्मस्नानविधिः षट्त्रिंशः पटलः ॥ ३६ ॥