पितामहः ॥
शौचमाचमनं कृत्वा स्नानकर्म च कीदृशम् ।
एतत्सर्वं समासेन भगवन्वक्तुमर्हसि ॥ १ ॥
ईश्वरः ॥
पितामह महाप्राज्ञ यत्त्वया परिचोदितम् ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ॥ २ ॥
प्। ११२)
उत्थायत - प्रातश्चर्म * * न वृतसमन्वितः ।
ग्रामात्प्राचीमुदीचीं वा गत्वाचार्यो विशेषतः ॥ ३ ॥
उत्तराभिमुखो वापि दक्षिणाभिमुखोपि वा ।
नवताभिमुखस्थं तु मलं चैव विसर्जयेत् ॥ ४ ॥
विसर्जयेन्नहि विण्मूत्रं कीटकन्नेकिनं भुवम् ।
ऊषरं चैव विप्रेन्द शिवक्षेत्र समीपतः ॥ ५ ॥
रविं दक्षिणः कृत्वा दिवा विण्मूत्रवर्जनम् ।
शिरोवगुण्ठनं कृत्वा मौनेन तु विसर्जयेत् ॥ ६ ॥
दक्षिणेन तु हस्तेन मृदं सङ्ग्राहयेत्ततः ।
वामे शिश्नं गृहीत्वा तु कर्णयज्ञोपवीतकम् ॥ ७ ॥
नद्यां वापि तटाके वा पुष्करे वा हृदेपि वा ।
शुद्धस्नानजलं प्राप्य आचमेत्तु यथाविधि ॥ ८ ॥
गुदेव दशधा दद्याज्जटं चैव विशेषतः ।
पञ्चभिः क्षालयेद्वामं करयोः सप्तमृत्तिका ॥ ९ ॥
मेढ्रे चैकं मृदं दद्यात्करं पञ्चैव क्षालयेत् ।
आमलीफलमात्रेण पादौ प्रक्षालयेत्ततः ॥ १० ॥
आपोश्यो द्विर्मृज्य आचम्य च विधानतः ।
मृत्पिण्डं च त्रिधा कृत्वा हृदयेन तु मन्त्रतः ॥ ११ ॥
तत्पुरुषेण मन्त्रेण पूर्वे पिण्डं त्रिधा भवेत् ।
दक्षिणे घोरमन्त्रेण उत्तरे वाममन्त्रतः ॥ १२ ॥
प्। ११३)
पूर्वेणैव मृदा दद्यादस्त्रेण दशदिक्षु वै ।
दक्षिणे घोरमन्त्रेण उत्तरे वाममन्त्रतः ॥ १३ ॥
पूर्वेणैव हृदादद्यादश दिक्षु वै ।
दक्षिणेन हृदा चैव शिवदीक्षां तु कल्पयेत् ॥ १४ ॥
जलमध्ये स्थितं चैव पञ्चब्रह्मेण देशिकः ।
तैलं चामलकायुक्तम् अङ्गमालिप्य सर्वशः ॥ १५ ॥
गोमयेन पुनश्चैव उपलिप्य च स्नापयेत् ।
मार्जयेच्छिरमीशानं पुरुषेण मुखं ततः ॥ १६ ॥
हृदयं चैव सौरेण वामेन गुह्यमेव च ।
पादयोस्सद्यमन्त्रेण मार्जयेद्देशिकोत्तमः ॥ १७ ॥
व्योमव्यापि जपेत्तत्र मार्जयित्वा तु मन्त्रवित् ।
कालमुद्रां तु बध्वा तु प्रासादेनाभिषिञ्चयेत् ॥ १८ ॥
गोमयेन हृदा चैव सर्वाङ्गं लेपयेन्मृदा ।
नाभिमात्रोदके स्थित्वा आच(म्यच) विधानतः ॥ १९ ॥
त्रिःप्राश्यापो द्विर्विमृज्य ऊर्ध्वाघोरेकमेव च ।
अङ्गुष्ठानामिकाभ्यां च चक्षुषीसमुप स्पृशेत् ॥ २० ॥
घ्राणद्वयं च श्रोत्रं च मध्यमाङ्गुलिना स्पृशेत् ।
अङ्गुष्ठतर्जनीभ्यां तु बाहुं चैव स्पृशेत्ततः ॥ २१ ॥
सर्वाभिरङ्गुलीभिश्च मूर्धानं चैव संस्पृशेत् ।
दक्षिणेन तु हस्तेन उदकं ग्राहयेत्ततः ॥ २२ ॥
प्। ११४)
वामदेवेन संयुक्तं सूर्यश्चेति जलं पिबेत् ।
ईशानेनाग्निश्चेति सायाह्नेति जलं पिबेत् ॥ २३ ॥
आचम्य च विधानेन ईशानेन तु संयुतम् ।
सावित्रीं च भवेत्तत्र सूर्योदकं ददेत् ॥ २४ ॥
देवान्वै तर्पयेत्तत्र वामदेवेन मन्त्रतः ।
ऋषीणां दापयेत्तत्र अघोरेण तु मन्त्रतः ॥ २५ ॥
पितॄणां तर्पयेत्तत्र सद्यमन्त्रेण देशिकः ।
प्रासादेन समायुक्तं सावित्रीं च शताष्टकम् ॥ २६ ॥
मित्र सत्येन वर्चनी हृदयेन समायुतम् ।
जपेद्वै देशिकस्तत्र धौतवस्त्रं च वेष्टयेत् ॥ २७ ॥
आचमेत्पूर्ववत्तत्र सोष्णीषस्सोत्तरीयकः ।
तीरे समतलं कृत्वा हस्तमात्रेण लेपयेत् ॥ २८ ॥
सूर्यमावाहयेत्तत्र षडक्षरेण मन्त्रतः ।
पाद्यमाचमनं चैव अर्घ्यं तस्य निवेदयेत् ॥ २९ ॥
दैविकेन तु तीर्थेन देवानां तर्पयेत्ततः ।
आर्षेण तु तीथैन ऋषीणां चैव तर्पयेत् ॥ ३० ॥
पितॄणां चैव पूर्वेषां पैतृकेण तु तर्पयेत् ।
विमानं प्राविशेत्तत्र पुष्पहस्तौ विचक्षणः ॥ ३१ ॥
प्रदक्षिणत्रयं कृत्वा प्रविशेत्तु कवाटकम् ।
प्रणम्य दण्डवद्भूमौ अर्चयेत्तु कवाटकम् ॥ ३२ ॥
प्। ११५)
गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव हृदा ततः ।
पूजयेद्विधिना विप्र कवाटस्थांस्तु देवतान् ॥ ३३ ॥
भुजङ्गं च पतङ्गं च कवाटस्याधि देवतान् ।
ततो गर्भगृहं गत्वा एवं प्रणम्य एव च ।
एवं यः कुरुते नित्यं सर्वपापैः प्रमुच्यते ॥ ३४ ॥
स्नाने देवार्चने चैव समाधौ च जपेत्तथा ।
भोजने देवकार्ये च मौनं षट्सु विधीयते ॥ ३५ ॥
स्नानं पञ्चविधं ज्ञेयं वारुणं स्नानमेव च ।
आग्नेयं दिव्यमेवं तु वायव्यं मानसं स्मृतम् ॥ ३६ ॥
वारुणं स्नानकार्यं च वारुणं स्नानमेव च ।
आग्नेयं भस्मना स्नानं सा पथावर्जयेत्ततः ॥ ३७ ॥
दिव्यस्नानं वाय - वहन्तु रजोभवम् ।
मन्त्रैर्मानसमित्युक्तं पञ्चस्नानं विधीयते ॥ ३८ ॥
एवमेव प्रकारेण कुर्याद्वै देशिकोत्तमः ।
स्नानमेवं मया प्रोक्तं सर्वकामार्थसाधनम् ॥ ३९ ॥
इति वीरतन्त्रे शौचाचमन स्नानविधिः पञ्चत्रिंशः पटलः ॥ ३५ ॥