प्। १०५)
पितामहः ॥
भगवन्देवदेवेश लोकनाथ जगत्पते ।
नैवेद्यस्य विधानं किं ब्रूहि मे परमेश्वर ! ॥ १ ॥
ईश्वरः ॥
साधु साधु महाप्राज्ञ यत्त्वया परिचोदितम् ।
तत्सर्वम * * * वक्ष्ये शृणुष्व कमलासन ॥ २ ॥
यावतीस्तण्डुलास्तस्मिन्नैवेद्य परिसङ्ख्यया ।
तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ३ ॥
शुद्धोदनसहस्रेभ्यः पायसं च विशिष्यते ।
कृसरान्न सहस्रेभ्यो गौड?न्नं च विशिष्यते ॥ ४ ॥
गौडान्नस्य सहस्रेभ्यो मुद्गान्नं च विशिष्यते ।
एवमेव क्रमेणैव सहस्र गुणितं फलम् ॥ ५ ॥
श्वेतशाली महाशाली रक्तशाली यवास्तथा ।
कृष्णशाली च नीवारं वेणुगोधूममेव च ॥ ६ ॥
प्रियङ्गुं चैव विप्रेन्द नवधा चोच्यते मया ।
तण्डुलार्धं गृहीतव्यम् उत्तमं च विनिर्दिशेत् ॥ ७ ॥
सर्वेषां चैव व्रीहीणां मध्यमं च विनिर्दिशेत् ।
अधमं पक्षिनामं च तस्मात्तान्परिवर्जयेत् ॥ ८ ॥
प्राङ्कणं चैव विप्रेन्द्र गोमयेनानु लेपयेत् ।
हृदये प्रोक्षयेत्सर्वशालिं नेत्रेण विन्यसेत् ॥ ९ ॥
रवेश्वरश्मि सन्तप्तान्कर्तनं कुर्यात्ततः ।
उत्तमं द्विजनारीभिः क्षत्रविट्कन्यया ततः ॥ १० ॥
प्। १०६)
मध्यमं कर्तनं प्रोक्तं शूद्रीभिरधमं भवेत् ।
उलूखल्वोऽथमृत्कुण्डे हृदयेनैव निक्षिपेत् ॥ ११ ॥
उलूखलं ब्रह्मदैवत्यं मुसलं शिवमेव च ।
शूर्पं वै विष्णुदैवत्यम् इत्येते अधिदेवताः ॥ १२ ॥
तुषान्यपोह्य शूर्पेण कणकम्बुज वर्जयेत् ।
शतद्वयं पञ्चविंशति व्रीहिभिश्शुक्तिरुच्यते ॥ १३ ॥
तलं च प्रसृतिं चैव कुडुवं च तथैव च ।
अञ्जलिं चैव विप्रेन्द्र प्रस्थं चैव तथैव च ॥ १४ ॥
पात्रसङ्ख्या भवेत्तत्र आढकं च तथैव च ।
शिवं च द्रोणकं चैव खारी चैव तथैव च ॥ १५ ॥
अञ्जलिं चैव विप्रेन्द्र प्रस्थं चैव तथैव च ।
पात्रसङ्ख्या भवेत्तत्र आढकं च एकैकं द्विगुणम् ॥ १६ ॥
स्याच्च वर्धते क्रमशोऽधुना ।
प्रस्थं कुडवसंयुक्तं पिशाचानां बलिं भवेत् ॥ १७ ॥
चरुप्रस्थद्वयं चैव आढकं हविरुच्यते ।
नैवेद्यं नवधा चैव कल्पयेत्कल्पवित्तमः ॥ १८ ॥
प्रस्थद्वयं त्रिसन्ध्या तु आढकं चैव तद्व च ।
शिवं चेव तु विज्ञेयं मध्यमत्रयमुच्यते ॥ १९ ॥
द्रोणं चैव तु खारी च हारं चैव त्रयो भवेत् ।
मध्यमत्रयमेवोक्तम् उत्तमं च शृणुष्वथ ॥ २० ॥
प्। १०७)
अष्टद्रोणसमायुक्तं भारद्वयसमायुतम् ।
भारत्रयं च विप्रेन्द्र उत्तमत्रयमुच्यते ॥ २१ ॥
आढकादीनि नैवेद्यं श्रीबलिं च न कारयेत् ।
न दोषान्तण्डुलान्ग्राह्य निर्वापनं तु कारयेत् ॥ २२ ॥
नवभाण्डे विनिक्षिप्य क्षालयेदस्त्रमन्त्रतः ।
त्रिभिर्वाक्षालयित्वा तु जलमर्धाधिकं भवेत् ॥ २३ ॥
भाण्डोपरि न्यसेत्तत्र ईशानेन तु मन्त्रतः ।
अग्निं प्रजालयेत्तत्र अग्निबीजेन देशिकः ॥ २४ ॥
शुद्धान्नं चैव निक्षिप्य सद्यमन्त्रेण देशिकः ।
कृमिकोटरसंयुक्तं पिपीलिकादिवर्जितम् ॥ २५ ॥
विस्फुलिङ्गयुतैश्चापि काष्ठैरग्निं न दीपयेत् ।
अतिपक्वमपक्वं च धूम्रगन्धं च शीतलम् ॥ २६ ॥
वर्जयेच्चैव विप्रेन्द्र सुपक्वान्नं निवेदयेत् ।
बाह्यशुद्धिक्रमं कुर्यात्त्रिपुण्ट्रं कारयेद्दिशि ॥ २७ ॥
वामदेवेन मन्त्रेण उत्थापयेद्विशेषतः ।
उपदंशं प्रवक्ष्यामि शृणुष्व कमलासन ॥ २८ ॥
कदलीपनसं चैव त्रपुषोर्वारुकमेव च ।
बृहतीद्वयं च कुष्माण्डं बृहन्मुद्गं चालाबुनी ॥ २९ ॥
कोशातकीर्ततांश्च पत्यगन्धं तथैव च ।
शिशुकं बृहत्कन्दं सारणस्य तु कन्दकम् ॥ ३० ॥
प्। १०८)
शम्बकदम्बलीकन्दं कर्कन्धूद्वयमेव च ।
राजमाषाढकी चैव मुद्गशिम्बं कुलस्थकम् ॥ ३१ ॥
कुक्कुटाण्डफलं चैव उपदंशमिहोच्यते ।
एते वक्षोपदंशा सा कारवल्ली तथैव च ॥ ३२ ॥
प्रस्थस्य त्रिपलं चैव यथा क्रमेण वर्धयेत् ।
एवमेव क्रमं कुर्याद्यथा लाभे च कारयेत् ॥ ३३ ॥
लवणेन समायुक्तं मरीचिना समायुतम् ।
तण्डुलाश्चैव द्वित्रिंशदुपदंशमिहोच्यते ॥ ३४ ॥
गुल्माषं षोडशांशं तु मुष्टांशं दधिसंयुतम् ।
सूपं कृत्वा विशेषेण * * * पिष्ट संयुतम् ॥ ३५ ॥
गुलं चैव समायुक्तं कदलीफलमेव च ।
पनसेन समायुक्तं सूपमाज्यं निवेदयेत् ॥ ३६ ॥
हाटयामासमायुक्तम् आज्येनैव सुपाचितम् ।
पूगीफलद्वयं चैव अष्टपत्रसमायुतम् ॥ ३७ ॥
किञ्चिच्चूर्णसमायुक्तं द्विप्रस्थस्य विधीयते ।
मातुलुङ्ग फलाद्यासु पक्वादीनि निवेदयेत् ॥ ३८ ॥
एवमेव क्रमेणैव कुर्याद्यत्नानुसारतः ।
एकस्थाने तु विप्रेन्द्र निधाय सकलं ततः ॥ ३९ ॥
हृदयेन प्रोक्षयेत्तत्र कुशेनैव तु वारिणा ।
गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् ॥ ४० ॥
प्। १०९)
षडङ्गैः पूजयेत्तत्र बहुभिर्दीपमुच्यते ।
स्थलिका चैव सौवर्णं रजतं कांस्यमेव च ॥ ४१ ॥
ताम्रेण वापि कर्तव्यं भस्मना शुद्धिमाचरेत् ।
अथवा कदलीपत्रं वस्त्रोपरि न्यसेत्ततः ॥ ४२ ॥
प्रोक्षयेदम्भसा चैव घृतेनैवाभिधारयेत् ।
वामदेवेन मन्त्रेण पात्रे चान्नं क्षिपेत्ततः ॥ ४३ ॥
व्यञ्जनानेक संयुक्तं हृदयेन निवेदयेत् ।
चरुणां तु चतुर्भागं द्विभागं च निवेदयेत् ॥ ४४ ॥
बलेरग्नेश्च भागेत्यात्पात्रशेषैकमुच्यते ।
हृदयेन तु मन्त्रेण दद्यात्पानीयमेव च ॥ ४५ ॥
विसर्जयेत्तु निर्माल्यं शुद्धं कृत्वा तु भूतलम् ।
प्रोक्षयेदम्भसा चैव ताम्बूलं दापयेत्ततः ॥ ४६ ॥
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ।
अग्निकार्यं ततः कुर्याच्छास्त्रदृष्टेन कर्मणा ॥ ४७ ॥
एवमेव क्रमेणैव शुद्धान्नं प्रोच्यते मया ।
पायसान्नक्रमं वक्ष्ये मुद्गं वै तण्डुलार्धकम् ॥ ४८ ॥
द्विगुणं क्षीरमित्युक्तं पचेयुः पायसात्मकम् ।
गुलान्नं वक्ष्यते विप्र क्षीरं वै तण्डुलार्धकम् ॥ ४९ ॥
तण्डुलार्धं गुलं प्रोक्तम् आज्यं चैव गुलार्धकम् ।
गुलान्नमिति विज्ञेयं कृसरान्नं ततः शृणु ॥ ५० ॥
प्। ११०)
तिलान्वै चूर्णितांस्तत्र तण्डुलस्य चतुर्थकम् ।
तिलार्धं प्रक्षिपेदाज्यं कृसरान्नमिहोच्यते ॥ ५१ ॥
तण्डुलस्य चतुर्थांशं मुद्गं तत्रैव योजयेत् ।
नालिकेरफलैर्युक्तं मुद्गान्नं सम्प्रकीर्तितम् ॥ ५२ ॥
मरीचिरजनीयुक्तं जीरकं सर्षपान्वितम् ।
आलोढ्य पाचितं ह्येतत्कदली बृहतीद्वयम् ॥ ५३ ॥
व्यञ्जन स्योत्तमं ह्येतच्छुद्धान्नं च निवेदयेत् ।
त्रित्रिपादं च घटिकामुधमत्र य शेषतः ॥ ५४ ॥
सन्ध्याकालमिति प्रोक्तं मध्यमत्रयमुच्यते ।
कालं यामसमायुक्तं श्रीबल्यं तु त कारयेत् ॥ ५५ ॥
दशनाडिकया युक्तमुत्तमत्रयमुच्यते ।
विसर्जयेत्तु निर्माल्यं चण्डेशाय निवेदयेत् ॥ ५६ ॥
निर्माल्य लङ्घनं दानं भक्षणं सममेव तु ।
निर्माल्य लङ्घनाद्दानात्तत्क्षणान्नरकं व्रजेत् ॥ ५७ ॥
तस्मात्सर्वप्रयत्नेन अभोज्यं सर्वथा जनैः ।
भूमौ वा खानयेत्तत्र अग्निना दसमेव च ॥ ५८ ॥
जलैः पशु गजैर्वापि नद्यां वै देशिकोत्तमः ।
सकलानां निवेद्यं तु शूद्रादीनां तु भोजनम् ॥ ५९ ॥
विनायकस्य नैवेद्यं विप्रादीनां तु भोजनम् ।
उमादेव्याश्च नैवेद्यं सर्वेषां चैव भोजनम् ॥ ६० ॥
प्। १११)
दिवाकरस्य नैवेद्यं सर्वेषां भोजनं भवेत् ।
अभोज्यं सूर्यभक्तानां ज्येष्ठा चैव सरस्वती ॥ ६१ ॥
श्रीदेवी भूमिदेवी च नैवेद्यं भोजनं भवेत् ।
इतरेषां तु नैवेद्यं न भोज्यं सर्वदेहिनाम् ॥ ६२ ॥
अन्यजातैर्न भोक्तव्यमेवमेव क्रमेण तु ।
पूर्वद्वारेऽथ दक्षिण्ये पश्चिमद्वारमेव वा ॥ ६३ ॥
उत्तरद्वारमेवं स्यात्प्रासादान्यं विशेषतः ।
द्वारभेदेषु भेदानां पूजाभेदं न विद्यते ॥ ६४ ॥
तत्तद्वारप्रदेशे तु नैवेद्यं च निवेदयेत् ।
अन्यथा कारयेद्यस्तु अभिचारायमूच वहि ॥ ६५ ॥
तस्मात्सर्व प्रयत्नेन नैवेद्यं चैव कारयेत् ।
एवं यः कुरुते मर्त्यः सर्वपापाद्विमुच्यते ॥ ६६ ॥
कुलैकविंशमुत्तार्य शिवलोकमवाप्नुयात् ॥ ६६ � ॥
इति वीरतन्त्रे नैवेद्यविधिश्चतुस्त्रिंशः पटलः ॥ ३४ ॥