३३

पितामहः ॥

मुद्राया लक्षणं सर्वं कीदृशमिहकथ्यते ।
एतत्सर्वं समासेन भगवन्वक्तुमर्हसि ॥ १ ॥

श्रीभगवानुवाच ॥

पितामह महाप्राज्ञ यत्त्वया परिचोदितम् ।
तत्सर्वमखिलं (विप्र प्र) वक्ष्ये चतुरानन ॥ २ ॥

सुरभिमुद्रा लिङ्गमुद्रा मुकुली शशकर्णिकाः ।
आवाहनी च मुद्रा च निर्वीरमुद्रा च पञ्चब्रह्मस्य मुद्रिका ॥ ३ ॥

पडङ्गस्य राज तथैव च ।
मुद्रा च शोधनी कल्याशं तथा ॥ ४ ॥

प्। १०१)

पद्मं शूलं च परशुं खड्गपाशं तथाङ्कुशम् ।
धनुर्बाणं च पण्डा च वज्रमुद्रा तथैव च ॥ ५ ॥

उत्तरात्मकरौ कृत्वा तर्जन्याग्रे तु मध्यमे ।
कनिष्ठिकानामिका तु मध्यमाङ्गुलि संस्थितः ॥ ६ ॥

अग्रमग्रेण संयुतम् ॥ चत्वारस्तनमेवं तु अमृतं स्रा-
वयेत्सदा । सुरभिमुद्राभवेदेषा सर्वारिष्टविनाशिनी ॥ ७ ॥

दक्षिणे तु करे चैव मध्यमाङ्गुलिसंस्थितः ।
अनामिकासशुद्धि सर्वेष्य तर्जनीनं च वेष्टयेत् ॥ ८ ॥

अङ्गुष्ठं च कनिष्ठाग्रे वेष्ठयेत्तु विशेषतः ।
लिङ्गमुद्रा भवेदेषा सर्वकामार्थसाधनी ॥ १० ॥

द्वौ हस्तावेकदा कृत्वा मध्ये सुषिरमुच्यते ।
सुराजे मुकुलाकारमुद्रेयं मुकुली भवेत् ॥ ११ ॥

उभौ हस्तौ कनिष्ठौ च तयोरङ्गुष्ठ शिरसि तर्जन्यङ्कुञ्चितौ तथा । अङ्गुष्ठमध्यमादीनि शेषा ऋज्वा स्थितानिति ॥ १२ ॥

उभौ च मणिबन्धं स्यान्मुद्रेयं शशिकर्णिका ।
उभौ हस्तौ कनिष्ठौ च अङ्गुष्ठाङ्गं तु मूलके ॥ १३ ॥

विन्यसेच्चैवं विप्रेन्द्र ! मुद्रा चा वाहनी स्मृता ।
द्वौ हस्तौ मुष्टिसम्बध्वा एकैकेन तु ता येत् ॥ १४ ॥

मुद्रेयं निष्वरा चैव सर्वशत्रुविमर्दिनी ।
प्रसार्य दक्षिणे हस्ते अङ्गुष्ठमूर्ध्वसंयुतम् ॥ १५ ॥

प्। १०२)

सृष्टिमुद्रा भवेदेषा सर्वेषां हितकारिणी ।
प्रसार्यदक्षिणं हस्तम् अङ्गुष्ठं चोर्ध्वसंयुतम् ॥ १६ ॥

मुष्टिं कृत्वा तु विप्रेन्द्र एषां संहारमुच्यते ।
द्वौ हस्तौ तु प्रसार्याथ अङ्गुष्ठं मूर्ध्नि संस्थितम् ॥ १७ ॥

सद्यमुद्रा भवेदेषा वामदेवं ततः शृणु ।
उत्तानौ तु करौ कृत्वा अनामिकाद्यौ प्रसारयेत् ॥ १८ ॥

वामदेवस्य मुद्रा तु अघोरं च ततः शृणु ।
द्वौ हस्तौ मणिबन्धं तु मध्यमौ द्वौ प्रसारयेत् ॥ १९ ॥

अघोरस्य तु मुद्रेयं सर्वशत्रु विमर्दिनी ।
द्वौ हस्तौ मणिबन्धं तु तर्जनीं द्वौ प्रसारयेत् ॥ २० ॥

तत्पुरुषस्य महामुद्रा सर्वकामार्थसाधिनी ।
पूर्ववद्धस्त संयुक्तौ प्रसार्याथ कनिष्ठिकौ ॥ २१ ॥

ईशानस्य तु मुद्रां च षडङ्गान्कथ्यते ततः ।
द्वौ हस्तौ च प्रसार्याथ प्रोतं कृत्वा परस्परम् ॥ २२ ॥

अङ्गुष्ठौ कञ्चितौ कृत्वा मुद्रेयं हृदयस्य तु ।
उभौ हस्तौ सम्प्रसार्य नामिका चैव मध्यमौ ॥ २३ ॥

तर्जनी चैव विप्रेन्द्र स्थित्वा चैव करद्वयोः ।
कनिष्ठिकाया मूले तु अङ्गुष्ठाग्रं निधापयेत् ॥ २४ ॥

द्वौ हस्तौ च त्रयाङ्गुल्यौ परस्परकृतौ तथा ।
शिरो मुद्रा भवेदेषा सर्वकामार्थसाधिनी ॥ २५ ॥

प्। १०३)

उत्तानौ तु करौ कृत्वा तर्जन्यङ्गुष्ठगोपितौ ।
शेषात्परस्परौ कृत्य शिखा मुद्रा इति स्मृताः ॥ २६ ॥

उत्तानौ तु करौ कृत्वा अङ्गुष्ठमध्यशोभितौ ।
शेषान्परस्परं कृत्वा कवचेयं प्रकीर्तितम् ॥ २७ ॥

उत्तानौ तु करौ कृत्वा मणिबन्धं तु कारयेत् ।
तर्जनी मध्यमा चैव अधोमुखं तु कारयेत् ॥ २८ ॥

अङ्गुष्ठौ द्वौ गोप्य नेत्रमुद्रा प्रकीर्तिता ।
द्वौ हस्तौ च प्रसार्याथ कनिष्ठाङ्गुष्ठतान्विते ॥ २९ ॥

अस्त्र (मुद्रा) भवेदेषा (सर्व) शत्रु विमर्दिनी ।
हस्तौ तु मणिबन्धं स्याद्धृदये संस्थितानि तु ॥ ३० ॥

हस्तौ सन्ताडयेत्तत्र मुद्रेयं शोधनी भवेत् ।
उत्तानौ तु करौ कृत्वा मणिबन्धं तु कारयेत् ॥ ३१ ॥

वामहस्तस्य चोर्ध्वे तु दक्षिणं विन्यसेत्ततः ।
वामाङ्गुष्ठस्य मध्योर्ध्वे दक्षिणाङ्गुष्ठं विन्यसेत् ॥ ३२ ॥

मध्यमे सुषिरं कुर्याच्छैषाङ्गुल्यास्तु बन्धयेत् ।
कलशमुद्रा भवेदेषा स्नानकाले प्रयोजयेत् ॥ ३३ ॥

उभौ करौ च विप्रेन्द्र मणिबन्धं तु कारयेत् ।
मुकुलीकृत हस्तौ द्वौ पद्ममुद्रा इति स्मृताः ॥ ३४ ॥

दक्षिणं च प्रस्यणासार्या कानिष्ठिकां गुष्ठगोपितौ ।
शूलमुद्रा भवेदेषा सर्वशत्रुविमर्दिनी ॥ ३५ ॥

प्। १०४)

उत्तानौ तु करौ कृत्वा सर्वमूर्ध्वं तु कारयेत् ।
करपृष्टद्वयं भूयात्समाश्लिष्ठौ परस्परम् ॥ ३६ ॥

परशुमुद्रा भवेदेषा सर्वकामफलप्रदा ।
उत्तानौ च करौ कृत्वा तर्जनी द्वौ च तिष्ठति ॥ ३७ ॥

शेषामुष्टिं तु सम्बध्वा खड्गमुद्रा भवन्ति वै ।
उत्तानौ तु करौ कृत्वा ऊर्ध्वहस्तं तु कारयेत् ॥ ३८ ॥

दक्षिणे च परं हस्तौ सम्प्रकीर्य विशेषतः ।
पाशमुद्राभवेदेषा सर्वशत्रुविमर्दना ॥ ३९ ॥

दक्षिणं हस्तमुत्तानं तर्जन्यौ कुञ्चितौ तथा ।
शेषां मुष्टिं च सम्बध्वा मुकुलीयं कृशस्य तु ॥ ४० ॥

उत्तानौ तु करौ कृत्वा वामहस्तं विसारयेत् ।
दक्षिणं कर्णमूले तु धनुर्मुद्रा भवन्ति वै ॥ ४१ ॥

उत्तानौ तु करौ कृत्वा तर्जन्यो होर्ध्वो संस्थितौ ।
शेषा मुष्टिं च सम्बध्वा शरमुद्रा भवन्ति वै ॥ ४२ ॥

दक्षिणं हस्तमुत्तानं मुष्टिं कृत्वा तु मण्डलम् ।
चञ्चलं च ततः कृत्वा घण्टमुद्रा तथैव च ॥ ४३ ॥

उत्तानौ तु करौ कृत्वा कनिष्ठाङ्गुष्ठपीडितौ ।
उभौ परस्परं हस्तौ वज्रमुद्रा भवन्ति वै ॥ ४४ ॥

मुद्राणां लक्षणं प्रोक्तं नैवेद्यं च ततः शृणु ॥ ४४ � ॥

इति वीरतन्त्रे मुद्रालक्षणविधिस्त्रयस्त्रिंशत्पटलः ॥ ३३ ॥