३२

प्। ३२।

ग्रहाभिषेकं वक्ष्येहं शृणुष्व कमलासन ! ।
शुचौ देशे समं कृत्वा गोमयेनोपलेपयेत् ॥ १ ॥

शालिना स्थण्डिलं कृत्वा तदोपरि घटान्न्यसेत् ।
स सूत्रान्सापिधानांश्च स हिरण्यान्सवस्त्रकान् ॥ २ ॥

कुम्भदक्षिणपार्श्वे तु स्थापयेत्तु नव ग्रहान् ।
आदित्यं मध्यमे स्थाप्य शुक्रं पूर्वे तु विन्यसेत् ॥ ३ ॥

आग्नेय्यां चन्द्रदैवत्यम् अङ्गारकं तु दक्षिणे ।
मध्यादीशानपर्यन्तं स्थापयेत्कलशान्नव ॥ ४ ॥

मध्यमे स्थापयेत्कुम्भं गन्धपुष्पादिनार्चयेत् ।
केतुं चैव तु वायव्याम् उत्तरे च बृहस्पतिम् ॥ ५ ॥

ऐशान्यां बुधदेवस्तु स्थापयेत्तु कुशैस्सह ।
सनस्वे च स्वैनामेन संयुक्तं हृदयेन समन्वितम् ॥ ६ ॥

अर्चयेच्चैव विप्रेन्द्र हविर्निवेदयेत्ततः ।
बिल्वपत्रं शिरीषं च पूर्वा चैव पलाशकम् ॥ ७ ॥

विष्णुक्रान्तिं शमीपत्रं पद्मपत्रं तथैव च ।
बकुलाकस्य पत्रं च अश्वत्थोदुम्बरं तथा ॥ ८ ॥

प्। १००)

करवीरं च भृङ्गारं कुम्भे कुम्भे विनिक्षिपेत् ।
गन्धपुष्पादिनाऽभ्यर्च्य पूर्वेद्युरधिवासयेत् ॥ ९ ॥

ततः प्रभाते विमले अभिषेकन्तु दापयेत् ।
आपोहिष्ठामयो चैव तान्समन्दीय एव च ॥ १० ॥

शुद्धपाद्यादिमन्त्रेण अभिषेकं तु कारयेत् ।
एवमभ्यर्च्य विधिवद् ग्रहपीडां व्यपोह्य च ॥ ११ ॥

उपनयनादिकार्येण एवमेवाभिषेचयेत् ।
सर्वे दोषा विनश्यन्ति एवमेव समाचरेत् ॥ १२ ॥

आचार्यं पूजयेत्तत्र वस्त्रधान्यादिकाञ्चनैः ॥ १२ � ॥

इति वीरतन्त्रे ग्रहाभिषेकविधिः द्वात्रिंशः पटलः ॥ ३२ ॥