सपिण्डीकरणं वक्ष्ये द्वादशाहे तथैव च ।
चतुर्थे द्वादशे मासे स पिण्डीकरणं कुरु ॥ १ ॥
प्। ९७)
अग्निमुखं च सङ्कल्प्य विश्वेदेवा समारभेत् ।
आयान्तु पितर इति आवाह्य पितृपितामहान् ॥ २ ॥
यवपर्णवासमन्त्रेण दक्षिणाङ्गुष्ठभीम्रसेत् ।
पितॄणां रुद्रदेवानां स्वाहेति जुहुयात्ततः ॥ ३ ॥
चत्वारिंशच्छरावांश्च उदकेनैव पूरयेत् ।
शन्नो यवोसीति आत्म * * महन्तुरेव च ॥ ४ ॥
तिलासतिसलं चैव मधुवातं मधुं ददेत् ।
वामस्य त्वितावश्चेति रसनमुचेत्ततः ॥ ५ ॥
स्वधां चैवाष्ट दिक्षु च निरसनं च तथैव च ।
गन्धैः पुष्पैस्तथा धूपैर्दीपैश्चैव समायुतम् ॥ ६ ॥
पितृपितामहान्संविश्यस्तप्ततिलससंयुतम् ।
अपहन्तेति मन्त्रेण विकिरेत्तत्र देशिकः ॥ ७ ॥
ब्राह्मणांश्च समाहूय क्षणं कुर्वन्ति तत्र वै ।
ये दिव्या आप इत्यर्घ्यं * * * तत्र वै ॥ ८ ॥
हिरण्यकं स वासांश्च पञ्चब्रह्मेण दर्पयेत् ।
यन्मे मातेति मन्त्रेण सप्ताज्याहुतिमेव च ॥ ९ ॥
पितॄणां भोजयेत्तत्र ततः पिण्डं समावहेत् ।
ओदनं तिलसंयुक्तं दधि च मधुसंयुतम् ॥ १० ॥
पिण्डं कृत्वा तु विप्रेन्द्र प्रेतनाम्ना तु संयुतम् ।
पृथिव्याद्येन मन्त्रेण दद्यात्पितृपितामहान् ॥ ११ ॥
प्। ९८)
समानीयन्तुति मन्त्रेण प्रेतपितृपात्रके ।
उदकं विन्यसेत्तत्र मधुमानी च यन्त्रिभिः ॥ १२ ॥
प्रेतं पितॄणां पिण्डेषु नियतेत्सव्यमेव च ।
प्रदक्षिण नमस्कारं कृत्वा चैव तु देशिकः ॥ १३ ॥
पितृभिश्च शिवे योज्य एवं हुत्वा विशेषतः ।
आदिशैवानुशैवांश्च * * * * * सर्वशः ॥ १४ ॥
देवोक्तेन च मन्त्रेण चैवाचारं समाचरेत् ॥ १४ � ॥
इति वीरतन्त्रे सपिण्डीकरणविधिः त्रिंशः पटलः ॥ ३० ॥