तृणसंस्कारं वक्ष्ये शृणुष्व कमलासन ।
शूद्रादिना दर्शयित्वा तु सवर्ण संस्कारमेव च ॥ १ ॥
पातकानामधारांश्च मारणोनन्यदेशके ।
अस्त्रेण गवा सर्पादीन् क्रियाहीना तथैव च ॥ २ ॥
दर्भैर्वापि कुशैर्वापि शरीरं कल्पयेत्ततः ।
पालाशपत्रैस्त्रिशिखै रङ्गप्रत्यङ्गकल्पनम् ॥ ३ ॥
एवं प्रेतशरीरं च वस्त्रमाभरणं तथा ।
वाससा उपवातेन कर्णसूक्तं जपेत्ततः ॥ ४ ॥
पूर्ववद्दहनं कृत्वा पाषाणं पूर्ववत्कृतम् ।
दशरात्रं बलिं कृत्वा सप्ताहं पूर्ववत्कृतम् ॥ ५ ॥
एकादशाहे तत्रैव एकोद्दिष्टं च कारयेत् ॥ ५ � ॥
इति वीरतन्त्रे तृणसंस्कारविधिः सप्तविंशः पटलः ॥ २७ ॥