प्रेत संस्कारकं वक्ष्ये तूष्णीं चैव तु स्नापयेत् ।
उदुम्बरेण शाखा च अप्ते विधिना मार्जयेत् ॥ १ ॥
अवटं खानयेत्तत्र दर्भान्संस्तीर्यते ततः ।
यमाय दहनपतयेत्यसदेति विनिक्षिपेत् ॥ २ ॥
चितां चैव तु संस्तीर्य प्रोक्षयेदम्भसा ततः ।
चिताय प्रेतं विन्यस्य प्रोक्षयेद्धृदयेन तु ॥ ३ ॥
इदं त आत्मना चैव होतव्यं च तथैव च ।
वातास्ते पसतीस्वीति नवां चैव तु कारयेत् ॥ ४ ॥
प्। ९४)
इमा अपेति मन्त्रेण घटभिन्नमिहोच्यते ।
अस्मात्त्वमभिजातो सीत्यग्निंविक्षिप्य देशिकः ॥ ५ ॥
अथघेहेति मन्त्रेण गम्यतां मन्त्रदेशिकः ।
शरावं पाषाणसंयुक्तं द्वारवामे विनिक्षिपेत् ॥ ६ ॥
सप्तरात्रबलिं कुर्याद्दशाहं चैव कारयेत् ।
एकादश्यामेकाद्दिष्टस्थानमेनैव कारयेत् ॥ ७ ॥
इति वीरतन्त्रे प्रेतसंस्कारविधिः षड्विंशः पटलः ॥