२४

समावर्तविधिं वक्ष्ये समासाच्छृणु पद्मजः ।
स्वातीमूलानुराधा * * * * * * * स्तथा ॥ १ ॥

हस्तरेवति रोहिण्या * * * मुत्तरात्रयम् ।
ते नक्ष(त्रा)णि सुरश्रेष्ठ सप्तमे ग्रहवर्जितम् ॥ २ ॥

अग्निमुखं च सङ्कल्प्य घृतमुक्त्वा विशेषतः ।
मौञ्ज्या * * * * * * ब्रह्मचारिकरे ददेत् ॥ ३ ॥

उदुम्बरस्य मूले तु मौञ्ज्यादि निक्षिपेद्बुधः ।
कृष्णकेशा * * * * * * रोम तथैव च ॥ ४ ॥

दर्शनं च विशोध्यैव स्नात्वा कालकरोति हि ।
स्नातकस्य व्रतं चैव हुत्वा चैव विशेषतः ॥ ५ ॥

अर्हन्ती पीतान्वानो पक्वाहुतिमथा चरेत् ।
आज्याहुतिं मयामं तु सर्वानेव हुनेत्ततः ॥ ६ ॥

हुतशेषं बिल्वशाखे तु तस्मात्सहस्रशाखया ।
एवं मन्त्रमनुस्मृत्य बिल्वं चैव तु निक्षिपेत् ॥ ७ ॥

प्। ९०)

यथा व प्रवदीयन्ती चरु चैव प्रदर्शयेत् ।
प्रतिवेशानिमन्त्रेण उदरं चोऽभिमन्त्रयेत् ॥ ८ ॥

अञ्जनं दर्पणं चैव ईशानेन तु दर्शयेत् ।
पूर्वस्यां दिशि शास्त्रेण दिव * तं च वन्दयेत् ॥ ९ ॥

उत्तराभिमुखं गत्वा उपानच्छुत्रसंयुतः ।
समावर्तन वृद्ध्यादि व्याहृत्याज्येन हूयते ॥ १० ॥

पञ्चब्रह्मेण मन्त्रेण नवाहुतिं च हूयते ।
पाणिग्रहण प्र * * तीर्या चैर्वा व्रीहिस्तुलाः ॥ ११ ॥

अग्नये स्वाहेति प्रजापतये सायं चैव हूयते ।
सूर्याय प्रजापतये प्रातश्चैव हूयते ॥ १२ ॥

अयाश्चाग्नेति मन्त्रेण होतव्यं दीर्घजीविनाम् ॥ १२ � ॥

इति वीरतन्त्रे समावर्तनविधिश्चतुर्विंशः पटलः ॥ २४ ॥