२३

शुक्रीयं चैव वक्ष्यामि नदीतटाकतीरके ।
स्नात्वा तु शुचिवासाश्च हुत्वा वै शुक्रियावृतः ॥ १ ॥

प्। ८९)

ब्रह्माङ्गेन (च) होतव्यं पलाशसमिधा सह ।
गात्रं च वेष्ठकं कुर्यान्नववस्त्रेण देशिकः ॥ २ ॥

रात्रौ जागरितं तत्र प्रभाते कर्म चारभेत् ।
ब्राह्मणान्भोजयेत्तत्र शिवभक्तिसमन्वितान् ॥ ३ ॥

इति वीरतन्त्रे शुक्रियव्रतविधिस्त्रयोविंशतिः पटलः ॥ २३ ॥