श्रावण्यां चैव वक्ष्यामि पौर्णमास्यां विशेषतः ।
नदीतटाके गत्वा तु नवर्षींस्तर्पयेत्ततः ॥ १ ॥
प्रजापतिं काण्डर्षिं तर्पयेदेवमेव च ।
अग्निमुखं च सङ्कल्प्य ऋषीणां च हूयते ॥ २ ॥
सावित्रं च ततो भूत्वा वेदादींश्च हुनेत्क्रमात् ।
पुनः परिषेचनं कृत्वा यथा विधि च हूयते ॥ ३ ॥
केशश्व?श्रुवपनं कृत्वा चाचम्य देशिकः ।
सहस्रसमिधां च हूयते क्रमशस्ततः ॥ ४ ॥
अथवा सावित्रि रेवं स्याज्जपं च कुरुते सदा । ४ � ।
इति वीरतन्त्रे उपाकर्मविधिः द्वाविंशति पटलः ॥ २२ ॥