२०

चौलकर्मविधिं वक्ष्ये आयुरारोग्यवर्धनम् ।

चित्राश्रविष्ठहस्ता च रेवती श्रवणाः शुभाः ।
पुष्या पुनर्वसू चैव मृगशीर्षकमेव च ॥ २ ॥

प्। ८४)

एते चैवा शुभाः प्रोक्ता अष्टमे वा हवजत ।
पुण्याहं वाचयेत्तत्र कुरु ब्राह्मण भोजनम् ॥ ३ ॥

अग्निमुखं समास्तीर्य गन्धपुष्पादिनाऽर्चयेत् ।
एके सिनोऽतिनक्तं च इति हुत्वा हुतिं ततः ॥ ४ ॥

हृदयेना रोहणं प्रोष्ठम् आज्यमथाचरेत् ।
ईशानेन तु मन्त्रेण पञ्चाशज्जुहुयात्ततः ॥ ५ ॥

कुमारस्योत्तरे पार्श्वे माता हस्तेऽपि गोशकृत् ।
पिण्डं साक्षत संयुक्तं शरावे साधयेत्ततः ॥ ६ ॥

शीतोष्ण वारिणा चैव आपनुन्दन्तु जीवसे ।
केशाश्च सेचयेत्तत्र कुंशेन प्रोक्षयेत्ततः ॥ ७ ॥

देशिको वापयेत्पूर्वं पश्चान्नापितपूर्वकम् ।
कर्ममध्ये शिखांस्थाप्य गवामभिमुखं ततः ॥ ८ ॥

दर्भोदुम्बरमूले वा केशांश्च निर्वपेत्ततः ।
कुमारं स्नापयेत्तत्र प्रोक्षयेद्धृदयेन तु ॥ ९ ॥

स्वस्ति वाचकसंयुक्तं दद्यादाचार्यदक्षिणाम् ॥ ९ � ॥

इति वीरतन्त्रे चौलविधिर्विंशतिः पटलः ॥ २० ॥