अथान्नप्राशनं वक्ष्ये समासात्सुतपोधन ।
षष्ठमे मासि सम्प्राप्ते अन्नप्राशनमेव च ॥ १ ॥
अश्वी मृगशिरश्चैव रेवती च पुनर्वसु ।
श्रवणं च श्रविष्ठा च हस्तस्वात्यनुराधकः ॥ २ ॥
प्। ८३)
चित्रा त्रिरुत्तरा चैव शतभिषग्रोहिणी तथा ।
पुष्यं चैव तु नक्षत्रा प्रशस्ताश्चान्न भोजने ॥ ३ ॥
दशमस्था ग्रहास्सर्वे नेष्टास्सर्वप्रयत्नतः ।
पूर्वेद्युर्भोजयेद्विप्रान्युग्मं नादिमुखं ततः ॥ ४ ॥
पुत्रं गन्धादिना चैव अलङ्कृत्य विशेषतः ।
शुभं सम्पूजयेत्तत्र चित्रेणच्छादयेत्तथा ॥ ५ ॥
आचमनं तु पुनर्गच्छेत् पिता तत्पुरुषेण तु ।
पुत्र च मूर्ध्नि मध्ये तु अतिजिघ्रत्प्रतिपद्मजः ॥ ६ ॥
अग्निमुखं च सङ्कल्प्य अग्निसूक्तेन संयुतम् ।
पञ्चब्रह्मसमायुक्तं गोमये सप्त चाहुतिः ॥ ७ ॥
अहमस्मिनिति मन्त्रेण दध्याज्यमधु संयुतम् ।
यामात ओषधीस्तेति मधुनो मधुनोप्य च ॥ ८ ॥
सुमुहूर्ते सुलग्ने च भोजयेत्पायसं ततः ।
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः ॥ ९ ॥
इति वीरतन्त्रे अन्नप्राशनविधिरेकोनविंशः पटलः ॥ १९ ॥