१८

निष्क्रमण विधिं वक्ष्ये मालाचश्शारु उच्यते ।
अश्विनी सोमदैवत्यं रेवती च पुनर्वसु ॥ १ ॥

श्रवणं च श्रविष्ठा च हस्तस्वात्यनुराधकः ।
चित्रादिरुत्तराश्चैव शतभिषग्रोहिणी तथा ॥ २ ॥

पुष्यं चैव नक्षत्रा प्रशस्ता नैष्क्रमणं ततः ।
दशमस्था ग्रहाश्चैव नेष्टास्सर्वप्रयत्नतः ॥ ३ ॥

शुभे मुहूर्ते मङ्गल्ये अग्निमुखं च कारयेत् ।
ईशानेन तु मन्त्रेण स्वस्यात्रेण जुहोति च ॥ ४ ॥

बाह्ये गोचर्ममात्रेण गोरोचनोलोप्यलिप्य च ।
सिकतैः स्थण्डिलं कृत्वा अश्वत्थं स्थापयेत्ततः ॥ ५ ॥

स्वान्निग्रहान्नामयन्तीति एवमेव विधीयते ॥ ५ � ॥

इति वीरतन्त्रे उपनिष्क्रमणविधिरष्टादशः पटलः ॥ १८ ॥