१७

नामकरणं वक्ष्यामि शृणुष्व कमलासन ।
उत्तरारेवतीहस्ता शतभिषङ्मूलपुष्यकाः ॥ १ ॥

पुनर्वसुश्रवणं स्याद्रोहिणी मृगशीर्षकम् ।
श्रविष्ठा चोनति नक्षत्रात्प्रशस्ता नामकर्मणि ॥ २ ॥

अग्निमुखं च सङ्कल्प्य विधिवद्देशिकस्तथा ।
ईशानं प्राजापत्ये नामकरणं च भूयते ॥ ३ ॥

स्वस्ति मूर्ध्नि च जप्त्वा तु युगाक्षर शिवान्तकम् ।
मार्गसीर्षे तु पुष्येशं शम्भुरिति स्मृतः ॥ ४ ॥

माघे महेश्वरं नाम महादेवं तु फाल्गुने ।
चैत्रे तु स्थाणु नामं च वैशाखे तु शिवस्तथा ॥ ५ ॥

ज्येष्ठे पशुपतिं नाम चाषाढे चोग्रनामतः ।
श्रवणे सर्वनामं तु भाद्रमासे त्रियम्बकम् ॥ ६ ॥

अश्वनीश्वरनामं च कृत्तिका रुद्र नामतः ।
एतेषां नाममुच्चार्य गुरोर्नामस्तु वाचयेत् ॥ ७ ॥

प्। ८२)

नामकरणं च मेवं तु कर्तव्यं स्यात्सुरोत्तम ॥ ७ � ॥

इति वीरतन्त्रे नामकरणविधिः सप्तदशः पटलः ॥ १७ ॥