जातकर्मविधिं वक्ष्ये सर्वकामार्थसाधनम् ।
अभिजातं कुमारं च दर्शयेद् हृदयेन तु ॥ १ ॥
अस्त्रेणैव तु मन्त्रेण नाभिं छित्वा विशेषतः ।
अद्भ्यस्सम्भूतमन्त्रेण स्नापयेद्विधि पूर्वकम् ॥ २ ॥
अङ्गादङ्गादिनि ब्रह्म मूर्ध्नि जिघ्रति देशिकः ।
ईशानादिमन्त्राणां मूर्ध्नि जिघ्रतिमुच्यते ॥ ३ ॥
दक्षिणे चैव श्रोत्रे च तत्पुरुषं जपेत्ततः ।
अश्वाभव परशुभं जप्त्वा चैव विशेषतः ॥ ४ ॥
नक्षत्र नाम वक्ष्यामि अह्निया पुनमन्त्रतः ।
ब्रूहितान्तेन सम्प्रार्च्यां हिरण्येन समायुतम् ॥ ५ ॥
व्यापकेन पुनश्चैव स्नापयेत्तु यथाविधि ।
आयुरारोग्यमेधावीति प्राशयेत् ॥ ६ ॥
मातुर्हस्ते ददामीति वितत्वं च वा जपेत् ।
यस्तेस्तेनेमिमन्त्रेण मातुस्सव्यस्तनेत्रेण मातुस्तनं ददेत् ॥ ७ ॥
पूर्णोदकुम्भ * * * * शिरःस्थाने विन्यसेत् ।
स चैवं स्थापयित्वा तु अग्निमुखं च कल्पयेत् ॥ ८ ॥
आपः सुप्तेन तु मन्त्रेण पक्वाहुतिरिहोच्यते ।
हरिहरं च मुच्च * * प * * तथैव च ॥ ९ ॥
ईशानेन तु मन्त्रेण अष्टाशताहुतिं हुनेत् ।
सद्यं च कमनाय अश्वत्थापर्णसंयुतम् ॥ १० ॥
प्। ८१)
हुतशेषं च विप्रेन्द्र बलिं दद्याद्विशेत् ।
आवेशनाव्यत्र खीफलीकरण होमयेत् ॥ ११ � ॥
इति वीरतन्त्रे जातकर्मविधिः षोडशः पटलः ॥ १६ ॥