विष्णुबलिं प्रवक्ष्यामि शृणुयास्तु पितामह ।
पुण्याहं वाचयित्वा तु विष्णुमभ्यर्चयेत्ततः ॥ १ ॥
विष्णुमावाहयेत्तत्र व्याहृत्या घोरमन्त्रतः ।
अग्निमुखं च सङ्कल्प्य पूर्ववल्लक्षणान्वितम् ॥ २ ॥
आपोहिष्ठेति मन्त्रेण अर्घ्यं दत्वा विशेषतः ।
केशवं नारायणं चैव गोविन्दं माधवं तथा ॥ ३ ॥
विष्णुं मधुसूदनं चैव त्रिविक्रमं वामनं तथा ।
श्रीधरं च हृषीकेशं पद्मनाभं तथैव च ॥ ४ ॥
दामोदरं च विप्रेन्द्र नामद्वादशमेव च ।
चरुभोजनं च कर्तव्यं याद्धृदवसानके ॥ ५ ॥
षड्भिर्विष्णोर्नुकं चैव अन्नाहुतिमिहोच्यते ।
आज्याहुतिस्तथैवं स्यात्पुण्याहं वाचयेत्ततः ॥ ६ ॥
अष्टानां ब्रह्मचारीणां भोजयेत्तु विशेषतः ॥ ६ � ॥
इति वीरतन्त्रे विष्णुबलिविधिः पञ्चदशः पटलः ॥ १५ ॥