सीमन्तं तु प्रवक्ष्यामि शृणुष्व कमलासन ।
मासाच्चतुष्टये प्राप्ते षण्मासे वापि कारयेत् ॥ १ ॥
प्र * * गर्भांश्चैव सीमन्तं कारयेत्ततः ।
रोहिण्यां चैव पुण्ये च उत्तरा च पुनर्वसु ॥ २ ॥
हस्तश्रवणरेवत्यां मृगशीर्ष(क)मेव च ।
सीमन्तोन्नयनं कुर्याच्छुभास्ये शुभलग्नके ॥ ३ ॥
सिंह वृश्चिकजीवः स्यादष्टमे ग्रहवर्जितम् ।
पुण्याहं वाचयेत्तत्र अग्निमुखं च कारयेत् ॥ ४ ॥
जयाहुतिश्च कुर्वीत धाताददातु नो रयिम् ।
आज्या हुतिं करिष्यामि * * * * * * * * ॥ ५ ॥
अघोरेण तु मन्त्रेण हूयतेष्टशतं ततः ।
कामयेदिति मन्त्रेण राविखरेणखयेत् ॥ ६ ॥
वास्तोके मयन्तिंश्च दर्भाङ्कुरेण लेखयेत् ।
सिनीबली खमन्त्रेण औदुम्बरेण होमयेत् ॥ ७ ॥
प्। ७९)
रुद्रदेवेति मन्त्रेण यवनैव तु लेखयेत् ।
वनवासी चासीव पाश्वेतिकेशार्वनिलं बध्यते ततः ॥ ८ ॥
सोम एव न राजेति स्त्रीणां चैव तु कारयेत् ।
शेषं पुंसवनादेव कर्तव्यं स्यात्सुरोत्तम ॥ ९ ॥
इति वीरतन्त्रे सीमन्तविधिः चतुर्दशः पटलः ॥ १४ ॥