१३

प्। ७७)

अथ पुंसवनं वक्ष्ये शृणु तत्वं तपोधन ।
मासद्वयान्ते कर्तव्यं सर्वालङ्कार संयुतम् ॥ १ ॥

पुष्ये वा श्रवणे वापि कुर्यात्पुंसवनं बुधः ।
गुरुशुक्रबुधज्ञानाम् उदयं शस्तमेव च ॥ २ ॥

चन्द्रोदयं प्रशस्तं हि ग्रहा नेष्टास्तु चाष्टमे ।
अङ्कुराणीह कर्तव्यं पुण्याहं वाचयेत्ततः ॥ ३ ॥

कौतुकं बन्धयेत्तत्र विश्वेत्वेति हि मन्त्रतः ।
अग्निमुखं समास्तीर्य युक्तो वाहादि भूयते ॥ ४ ॥

प्रजापते न त्वदेतानि चरु होमं तु कारयेत् ।
गर्भौ अग्नौ विधानं तु आज्याहुतिमथाचरेत् ॥ ५ ॥

वामदेवेन मन्त्रेण हूयते तु शताष्टकम् ।
न्यग्रोधौदुम्बराश्वत्थ पलाशं खादिरा सह ॥ ६ ॥

आज्येन वामदेवेन नववस्त्रं निधापयेत् ।
दक्षिणे चैव नासा च अस्मै देवान मन्त्रतः ॥ ७ ॥

नासौधोप विप्रेन्द्र नारीमावद्यतेत्र च ।
प्राचीनं वाप्युदीचीनं च्छेददर्शपं ततः ॥ ८ ॥

पञ्चब्रह्मेण वास्यांश्च विसृज्यति * तस्ततः ।
ध्रुवायेतत्यरुन्धत्यामिति ब्रुवन्दर्शयेत्ततः ॥ ९ ॥

तद्दृश्यते तदा विप्रमृद्धेमसराजतम् ।
स्त्रिधर्मस्या तु स्त्रीणां तु कुरुते नात्र संशयः ॥ १० ॥

प्। ७८)

हरणं बन्धनं वापि चोतकं हन्तु क्रिया ।
तीर्थानां तु नखाकोश वानादिरेव च ॥ ११ ॥

नोदं ततोम्भसा स्नानं न च श्वश्रूणि वापयेत् ।
अन्तर्वर्त्न्याः पतिः कुर्यान्न प्रजा भवति श्रुवम् ॥ १२ ॥

इति वीरतन्त्रे पुंसवनविधिः त्रयोदशः पटलः ॥ १३ ॥