गर्भाधानविधिं वक्ष्ये समासाच्छृणु साम्प्रतम् ।
रोहिणी रेवतीहस्ता श्रवणं चाननायकम् ॥ १ ॥
स्वातीशतभिष(ज)मुत्तरत्रयमेव च ।
सौम्य जीवसितेन्दूनां द्रेक्काणावसांशकम् ॥ २ ॥
अहं गर्भं विधामीति गर्भं ध्यायीत तत्वतः ।
पुरुषं जीवनामेति प्रदक्षिणमथाचरेत् ॥ ३ ॥
असुप्तकेपि गर्भे तु अग्निमुखं च कल्पयेत् ।
सद्येन होमयेत्तत्र पञ्चविंशतिराहुतिः ॥ ४ ॥
ज्येष्ठश्रेष्ठाश्रविष्ठा च होतव्यं तु तथैव च ।
ततः पङ्क्ति विप्रेन्द्र सकलीकृतविग्रहः ॥ ५ ॥
पुरुषेणोदस्पर्श गर्भाधानं भवन्ति वै ॥ ५ � ॥
इति वीरतन्त्रे गर्भाधानविधिः द्वादशः पटलः ॥ १२ ॥