प्। ७३)
आचार्यस्यादिशैवादि महाशैवानुशैवकान् ।
कीदृशानीह सर्वं तद्वक्तुं सर्वमिहार्हसि ॥ १ ॥
ईश्वरः ।
त्रैवर्णिकानां शैवानाम् आचाराः षोडश क्रियाः ।
निषेकादि सपिण्डान्तं श्रूयतां कमलासन ॥ २ ॥
अत्रैवोदाहरन्तीममग्निमुखं द्विजोत्तम ! ।
शुचौ देशे समं कृत्वा सितान्विन्यसेत्ततः ॥ ३ ॥
तुषाङ्गारकलोहं च केशकीटं च वर्जिता ।
हस्तमात्रेण विप्रेन्द्र कुर्याद्वै स्थण्डिलं ततः ॥ ४ ॥
त्रिप्राचीनमुदीचीनं सकले * * लेखयेत् ।
व्यपोष्य कलशं तत्र हस्तौ प्राक्षालयेत्ततः ॥ ५ ॥
अथवाग्निं समाभूय श्रोत्रियस्य गृहेथवा ।
व्याहृत्यावानयेदग्निं षोल्कालयेत्ततः ॥ ६ ॥
जुष्टोदमूना मन्त्रेण उपस्थानं करोति च ।
परिस्तीर्य ततो दर्भैर्हस्तमात्रैश्चतुर्दिशि ॥ ७ ॥
पूर्व * न्तु नवानां तु * * * * चतुर्दिशि ।
दक्षिणानुत्तरानग्रानधस्ताद्विन्यसेत्ततः ॥ ८ ॥
प्रागुदग्विन्यसेद्दर्भानुपरिष्टात्तु विन्यसेत् ।
परीधीन्हस्तमात्रेण * * * * * चैव हि ॥ ९ ॥
दक्षिणे पश्चिमे चैव उत्तरे विन्यसेत्ततः ।
हृदयेन तु दर्भांश्च परिधी शिखया सह ॥ १० ॥
प्। ७४)
ऊर्ध्वं सन्धाद्वयं चैव शिरोमन्त्रेण विन्यसेत् ।
दर्भोपरिन्यसेद्विप्र शरावं समिधा सह ॥ ११ ॥
आज्यं चैव तु विप्रेन्द्र साधयेद्धृदयेन तु ।
प्रोक्षयेदम्भसा चैव गन्धपुष्पादिनार्चयेत् ॥ १२ ॥
तूष्णीं पात्रं समुत्तीर्य प्रोक्षयेदम्भसा पुनः ।
स्थण्डिलादक्षिणे भागे ब्राह्मणान्भोजयेत्ततः ॥ १३ ॥
प्रणीतामुत्तरे स्थाप्य गन्धपुष्पादिनार्चयेत् ।
द्वेदर्भाग्रसमायुक्तं तिरः पवित्रं विन्यसेत् ॥ १४ ॥
आज्यस्थाल्यां न्यसेदाज्यं पश्चादङ्गारके न्यसेत् ।
दर्भानेकेर विप्रेन्द्र आज्याधिश्रवणं भवेत् ॥ १५ ॥
द्वेदर्भाग्रसमायुक्तमग्निना द्योतयेत्ततः ।
स्रुवं चैव तु दर्भांश्च मार्जयेद्देशिकोत्तमः ॥ १६ ॥
तस्मात्सूत्रेण होतव्यम् अग्निमुखं विशेषतः ।
परिषेचनं ततः कुर्याद्धृदयेन समन्वितम् ॥ १७ ॥
इध्मं षोडशसंयुक्तं तूष्णीमग्नौ निधापयेत् ।
प्रजापतये स्वाहेति स्रुवेणैव तु होमयेत् ॥ १८ ॥
स्वाहेति परिधीसन्धौ स्पृशन्ती * * * * * ।
अथाज्यभागं होतव्यम् अग्नेस्वाहेति मन्त्रतः ॥ १९ ॥
उत्तरां च पूजाढ्यं होतं देदा * * * * * ।
युक्तौ वहादि षड्भिश्च भूयते क्रमशोधनम् ॥ २० ॥
प्। ७५)
व्याहृतिं जुहुयात्तत्र प्रसादेन तु होमयेत् ।
इत्यग्निमुखं समाप्तम् ॥
ऋतुस्नातानां स्त्रीणां च ऋटुसङ्गमनं शृणु ॥ २१ ॥
ऋतुस्नातायास्त्रियाश्चैव हृदयेनाभिषेचयेत् ।
तत्र चाग्निमुखं कार्यम् ऊर्ध्ववक्त्रं चतुर्भुजम् ॥ २२ ॥
त्रिणेत्रैर्युक्तमेवं स्याच्छिवेदशाहुतिं ददेत् ।
हृदयेन तु मन्त्रेण हूयते क्रमशोधनम् ॥ २३ ॥
आज्यस्थाल्यां स्रुवेणाज्यं नैर्-ऋत्यां स्रावयेत्क्षितिम् ।
एवमेव प्रकारेण राक्षसानां तु तृप्तये ॥ २४ ॥
अनुयाजित निक्षिप्य आमोपयामि तत्र च ।
अयन्तयोनिरित्याश्च अग्नयेराज्ञया तनु ॥ २५ ॥
इत्येते नैव मन्त्रेण आत्ममारोपणं भवेत् ।
प्रणीतस्योष्ठ प्रक्षाल्य प्रोक्षिण्यामुदकेन तु ॥ २६ ॥
दशदिक्षु विसृज्याथ ऊर्ध्वश्चैव पितामह ! ।
वर्धनीं व्यापयेत्तत्र प्रोक्षयेदम्भसा ततः ॥ २७ ॥
तस्या रात्रौ स्त्रीणां च क्षीरभोजनमुत्तमम् ।
शयने शाययेत्तत्र दम्पतिभ्यां समन्विते ॥ २८ ॥
प्रजापतिस्त्रिधा शय्या मन्त्रैश्चैवाभिमन्त्रयेत् ।
विष्णुर्योनिति मन्त्रेण मूललिङ्गं भवन्ति वै ॥ २९ ॥
अहं गर्भमादधादहमस्मिन्निति संयुतः ।
योनिसङ्गमनं कुर्यादुक्तरेत स संयुतम् ॥ ३० ॥
प्। ७६)
दिने युग्मे पुमानश्चेदयुग्मे स्त्री प्रजायते ।
सोमाभिवर्ध इत्युक्तं तदस्याङ्गं च तिष्यति ॥ ३१ ॥
निषेकमेतदुद्दिष्टं तव स्नेहाद्विशेषतः ॥ ३१ � ॥
इति वीरतन्त्रे ऋतु सङ्गमनविधिः एकादशः पटलः ॥ ११ ॥