१०

पितामहः ॥

दीक्षितानां तु शिष्याणां पापकर्मविशुद्धये ।
अभिषेकं कथं देव तत्सर्वं वद मे प्रभो ॥ १ ॥

ईश्वरः ॥

यक्तमन्यस्य या दृष्टं तत्सर्वं वक्ष्यतेधुना ।
सुमुहूर्ते सुलग्ने च योगे च करणान्विते ॥ २ ॥

देवाग्रे मण्डपं कुर्यात्पूर्वोक्तविधिना सह ।
अथाङ्कुरार्पणं कुर्याल्लक्षणेन समन्वितम् ॥ ३ ॥

पालिका घटिका चैव शरावं च त्रिधा भवेत् ।
नीवारं यवशाली च तिलं वैणवमेव च ॥ ४ ॥

श्वेतशाली महाशाली मुद्गमाषकुलस्थकम् ।
कलमाशालियवोक्तं वा सर्षपं शिम्बमेव वा ॥ ५ ॥

निष्पावं च प्रियङ्गुश्च ग्राहयेल्लक्षणान्वितम् ।
पयसा क्षालयेद्विप्र ! प्राच्यादीनां तु बापयेत् ॥ ६ ॥

सोमकुम्भं तु विप्रेन्द्र स्थापयेन्मध्यमेव च ।
सवस्त्रं सहिरण्यं च सकूर्चं सापिधानकम् ॥ ७ ॥

आचार्यश्च शुचिर्भूत्वा सोष्णीषः सोत्तरीयकः ।
बीजानि वाथयेत्तत्र ताम्बूलं दापयेत्ततः ॥ ८ ॥

प्। ६९)

ततो मण्डपसंस्कारं पुण्याहं वाचयेत्ततः ।
अष्टोत्तरशतं वापि पञ्चाशत्पञ्चविंशतिः ॥ ९ ॥

अधमं नवकुम्भांश्च स्थापयेद्देशिकोत्तमः ।
सूत्रपात्रं तु कर्तव्यं शालिना विकिरेत्ततः ॥ १० ॥

अष्टद्रोणसमायुक्तं तदर्धं तण्डुलैरपि ।
तण्डुलार्धतिलैर्लाजादर्भैश्चैव परिस्तरेत् ॥ ११ ॥

मध्यमे शिवकुम्भं तु स्थापयेच्छिवमन्त्रतः ।
स सूत्रान्सापिधानांश्च स वस्त्रान्हेमसंयुतान् ॥ १२ ॥

वर्धनीं तस्य वामे तु गौरी बीजेन संयुतम् ।
सव्यादीशानपर्यन्तं स्थापयेदष्टकुम्भकान् ॥ १३ ॥

प्रधाने कुम्भे शिवः पूज्यो वर्धन्यामम्बिकां न्यसेत् ।
अनन्तेशश्च सूक्ष्मश्च शिवोत्तमश्चैकनेत्रकः ॥ १४ ॥

एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डि च ।
अधिदेवास्समाख्याता द्रव्याणां च शृणुष्व च ॥ १५ ॥

प्रधाने कलशे विप्र नवरत्नं क्षिपेत्ततः ।
वर्धनीं गौरिबीजेन सुवर्णं तत्र निक्षिपेत् ॥ १६ ॥

स्वर्णं रजत ताम्रं च * * * त्र पुसीसकम् ।
आरकूटं च विपुलं कांस्यं पूर्वं न्यसेत्ततः ॥ १७ ॥

आग्नेय्यां कलशे विप्र नवधातूंश्च विन्यसेत् ।
हरितालं च * * * * * * * चनातिलाम् ॥ १८ ॥

प्। ७०)

माषकं चैव सौराष्ट्रं रसपङ्कैकतुं ततः ।
रसेन नवकं चैव विन्यसेत्तु विशेषतः ॥ १९ ॥

वृक्षपत्रं च विप्रेन्द्र दक्षिणे कलशे न्यसेत् ।
पालाशं चादि खदिरं तार्क्ष्य न्यग्रोधमेव च ॥ २० ॥

पिप्पलं पनसं बिल्वं शिरीषं (चं)पकमेव च ।
नैर्-ऋते स्थापिते कुम्भे पुष्पाणां नवकं न्यसेत् ॥ २१ ॥

नद्याश्चोभयतीरे च नागवल्लीकरी * * ।

वारुणे स्थापिते कुम्भे पुष्पाणां नवकं न्यसेत् ।
पङ्कजं चम्पकं चैव कुमुदं नीलोत्पलं तु वा ॥ २३ ॥

पाटली करवीरं च रक्तोत्पलमेव च ।
नन्द्यावर्तं च घातं च नवपुष्पमिहोच्यते ॥ २४ ॥

वायव्यां चैव कुम्भेषु गन्धपुष्पादि विन्यसेत् ।
चन्दनं कुङ्कुमं नीलोत्पलं खगजानश्च वानरम् ॥ २५ ॥

तक्कालारजकं पत्रं विन्यसेत्स्वस्वनामतः ।
सौम्यायां स्थापिते कुम्भे नवबीजानि विन्यसेत् ॥ २६ ॥

यववेणुप्रियङ्गुश्च शालिनीवारमेव च ।
गोधूमयवमुद्गांश्च सर्षपं च यथाक्रमम् ॥ २७ ॥

ऐशान्यां कुम्भमेवं तु ओषधीनां क्रमान्न्यसेत् ।
लक्ष्मी च सहादेवी च विष्णुक्रान्तिं त्रयम्बला ॥ २८ ॥

प्। ७१)

इन्द्रपर्णं शङ्खपुष्पं सूर्यावर्तं च गन्धिकाः ।
विन्यसेत्तु विशेषेण स्वस्वनामानुमन्त्रतः ॥ २९ ॥

एकाशीतीनि कुम्भानि कारयेद्या विशेषतः ।
अष्टदिक्षु च होमः स्याल्लक्षणेन समन्वितम् ॥ ३० ॥

अथवा पञ्चहोमं स्यादीशान्यां च चतुर्दश ।
पलाशखदिराश्वत्थ प्लक्षन्यग्रोध बिल्वकैः ॥ ३१ ॥

औदुम्बरशमी चैव पूर्वादि परिकल्पयेत् ।
समिदाज्यचरुन्लाजान्यवशालितिलानपि ॥ ३२ ॥

प्रियं सिद्धार्थकश्चैव प्रत्येकं तु सहस्रकम् ।
यावद्वै कुम्भसङ्ख्या तु तावत्सङ्ख्या तु होमयेत् ॥ ३३ ॥

अष्टोत्तरशतं वापि पञ्चाशत्पञ्च विंशतिः ।
यागस्थानस्य वारुण्यां महादेवस्य * * * * ॥ ३४ ॥

होमं कुर्यात्तु विप्रेन्द्र शिवदीक्षा समायुताम् ।
अध्ययनं च कर्तव्यं चतुर्वेदैश्चतुर्दिशि ॥ ३५ ॥

गन्धैः पुष्पैश्च धूपैश्च शिवं सम्पूजयेत्ततः ।
यागस्थानस्य वारुण्यां महादेवस्य पूर्वतः ॥ ३६ ॥

अभिषेकं कारयेत्तत्र प्रासादेन तु मन्त्रतः ।
ब्रह्मैरङ्गैश्च संयुक्त व्योमव्या(पि)समायुतम् ॥ ३७ ॥

अभिषेकं कारयेत्तत्र शिष्यदेहं विशेषतः ।
गन्धपुष्पादिना पूज्य प्रासादेन तु मन्त्रतः ॥ ३८ ॥

प्। ७२)

तत्रैव भोजयेच्छैव विप्रान्देशिकः शिष्यसंयुतः ।
सा वर्णक * अत्राद्य * न्त सिंहहनि भोजनम् ॥ ३९ ॥

दीक्षोपकरणं सर्वं देशिकाय प्रदापयेत् ।

पावपादुकन्तया ।

माहिषाल्गोश्चदासी च धान्यान्वस्त्रांश्च सर्वशः ।
आचार्याय प्रदातव्यं मानं च निवेदयेत् ॥ ४१ ॥

भोजनं पायसं दद्यात्क्षीरेणैव पूरितम् ।
सगुलं गोघृतैर्युक्तं कदलीफलसंयुतम् ॥ ४२ ॥

अनेकोपदंश संयुक्तं प्रासादेनादिमन्त्रतः ।
आचार्यःशिष्यसंयुक्तं भोजयेद्विधिपूर्वकम् ॥ ४३ ॥

समयाद्भोजयेत्तत्र तत्राग्रे तु बलिङ्क्षिपेत् ।
लाजान्त संयुक्तमपूवं घृतसंयुतम् ॥ ४४ ॥

देशिकेन बलिं दद्याच्चरुणा दधि संयुतम् ।
चतुष्पथे पथे चैव द्विपथेकै च विधिरवे ॥ ४५ ॥

सर्वदेवालयं चैव पञ्चरात्रं तु पूजयेत् ।
एवमेवक्रमेणैव अभिषेकं तु कारयेत् ॥ ४६ ॥

सर्वमङ्गलमाङ्गल्यं सर्वव्याधिनिवारणम् ।
विधिना कारयेद्यस्तु तस्य मृत्युर्न विद्यते ॥ ४७ ॥

एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ।
अभिषेकं मया प्रोक्तं शैवाचारं ततः शृणु ॥ ४८ ॥

इति वीरतन्त्रे षट्सहस्रसंहितायाम् अभिषेको नामदशमः पटलः ॥ १० ॥