पितामहः ॥
दीक्षामार्गः कथं देव मन्त्रन्यासः कथं प्रभो ! ।
शैवास्सप्तविधाज्ञेया तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
साधु साधु महाप्राज्ञ यत्त्वया परिचोदितम् ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ॥ २ ॥
दीयते ज्ञानसद्भावं क्षीयते पाशपञ्जरम् ।
तथोस्तु सङ्घटीकृत्य सा दीक्षा इति कथ्यते ॥ ३ ॥
सप्तधा शैवमादिष्टं मत्तस्त्वं तन्मनाः शृणु ।
अनादि शैवं प्रथममादिशैवं द्वितीयकम् ॥ ४ ॥
महाशैवं तृतीयं तु चतुर्थं चानुशैवकम् ।
अवान्तरस्तु शैवं तु पञ्चमं तु विदुर्बुधाः ॥ ५ ॥
प्। ५९)
षष्ठं प्रवरशैवं तु सप्तमं चान्य शैवकम् ।
शैवास्सप्तविधाः प्रोक्तास्तेषां भेदं शृणुष्व च ॥ ६ ॥
अनादिशैवं विज्ञेयमागमेनैव संयुतम् ।
शिवद्विजाश्च विप्रेन्द्र आदिशैवाः प्रकीर्तिताः ॥ ७ ॥
कौशिकः काश्यपश्चैव भारद्वाजोऽत्रिरेव च ।
गौतमश्चैव पञ्चैव पञ्चवक्त्रेषु दीक्षिताः ॥ ८ ॥
एतेषां तु ऋषीणां तु जातानां तु शिवद्विजा(नाम्) ।
शिवदीक्षा न कर्तव्या कर्तव्या चेत्सुनिष्फला ॥ ९ ॥
उपनीय तु तत्काले तु मण्डले पूजयेच्छिवम् ।
स्नपनं चाङ्गशुध्यर्थं कारयेत्तु शिवद्विजान् ॥ १० ॥
महाशैवं तु विप्राणां शिवदीक्षासमन्वितम् ।
अदीक्षितश्चतुर्वेदी शिवपूजां न कारयेत् ॥ ११ ॥
भृत्यार्थ परमेशान दीक्षाविरहिता द्विजाः ।
सण्मासात्पतनं यान्ति यजेद्देवलकाः स्मृताः ॥ १२ ॥
त्रीणिवर्षाणि भृत्यार्थं स्मितलिङ्गेऽपि दीक्षिताः ।
पूजयेद्यदि विप्रस्तु स वै देवलको भवेत् ॥ १३ ॥
एतेषां चैव सर्वेषां लोकानां च विशेषतः ।
स्थिरलिङ्गेषु यत्पूजान्नकुर्वन्ति कदाचन ॥ १४ ॥
क्षत्रियश्चैव वैश्यस्तु अनुशैवमिहोच्यते ।
शूद्रो वाप्यन्तरो वापि अन्तरे शैव चोच्यते ॥ १५ ॥
प्। ६०)
सवर्णाम्बष्ठ मध्यस्थो कुलालो पारकिस्तथा ।
प्रवरशैवमिति ख्यातम् इदमन्यच्छृणुष्व च ॥ १६ ॥
अन्येषां चैव जातीनामन्यशैवमिहोच्यते ।
अन्यथा कारयेद्यस्तु निष्फलं चैवमवाप्नुयात् ।
शैवभेदा मयाख्याता दीक्षाविधिमतः शृणु ॥ १८ ॥
रोहिणी श्रवणार्द्रा च श्रविष्ठा त्रीणि चोत्तरे ।
पुष्यं शतभिषक् चैव दीक्षानक्षत्रमुच्यते ॥ १९ ॥
वृषभं वाथ सिंहं वा वृश्चिकं कुम्भमेव वा ।
मिथुनं वापि कन्या वा धनुर्वा मीनमेव वा ॥ २० ॥
एते हि राशयः प्रोक्ताश्चरराशिं च वर्जयेत् ।
द्वितीया पञ्चमी वापि षष्ठी वापि विशेषतः ॥ २१ ॥
द्वादशी वाथ कर्तव्यं त्रयोदश्यामथापि वा ।
एते हि तिथयः प्रोक्ता वारांश्चैव शृणुष्व च ॥ २२ ॥
सोमशुक्रबुधावापि जीवा रविसुतापि वा ।
बृहस्पत्युदयं वापि शुक्रोदयमथापि वा ॥ २३ ॥
बुधोदयं वा कुर्वीत सोमोदयमथापि वा ।
अष्टमस्था ग्रहाश्चैव पश्चाच्छिष्यानुपोषितान् ॥ २४ ॥
स शुद्धहृदयान्भक्तान्कृतशौचो जितेन्द्रियः ।
पादप्रक्षालनं कुर्यादाचम्य विधिना ततः ॥ २५ ॥
प्। ६१)
नेत्रबन्धं प्रकर्तव्यं हृदयेन तु मन्त्रतः ।
दुकूलपट्टसंयुक्तं कार्पासिकमथापि वा ॥ २६ ॥
उत्तमं द्वादशं हस्तं दशहस्तं तु मध्यमम् ।
अधमं नवहस्तं तु चतुस्तालं तु विस्तृतम् ॥ २७ ॥
वर्णेन स्फटिकेनैव दध्ये तु मरुणं भवेत् ।
सदशाहतवस्त्रेण नेत्रबन्धं तु कारयेत् ॥ २८ ॥
अस्त्राचयेन संयुक्तं नेत्रमन्त्रदशं जपेत् ।
व्योमव्यापि जपेत्तत्र तत्पुरुषेण समायुतम् ॥ २९ ॥
नेत्रबन्धं प्रकर्तव्यं स्वर्णपुष्पसमायुतम् ।
उत्तमं दशनिष्कं तु अष्टनिष्कं तु मध्यमम् ॥ ३० ॥
अधमं पञ्चनिष्कं तु लक्षणं चोच्यते मया ।
दरिद्राणां तु सर्वेषां यथालाभेन कारयेत् ॥ ३१ ॥
उत्तराभिमुखो भूत्वा एकचित्तेन बुद्धिमान् ।
ईशानेन तु मन्त्रेण पुष्पं हस्ते निधापयेत् ॥ ३२ ॥
प्रदक्षिणत्रयं कृत्वा वामदेवेन मन्त्रतः ।
ध्यात्वा तु परमेशानं शिवमन्त्रेण बुद्धिमान् ॥ ३३ ॥
मण्डले विकिरेत्पुष्पं स्वस्तिमङ्गलवाचकैः ।
ध्यात्वा तु परमेशानं शिवमन्त्रेण बुद्धिमान् ॥ ३४ ॥
यस्मिन्मन्त्रे पदे पुष्पं नामगोत्र तदात्मकम् ।
तन्मन्त्रं सिध्यते तस्य कुरुतो वाप्यनुग्रहम् ॥ ३५ ॥
प्। ६२)
ईशानस्य दलेर्वाराग्नेयांशोकदं तथा ।
नैर्-ऋत्यां श्रीकरं प्रोक्तम् अनायुष्यं तु वायु च ॥ ३६ ॥
चतुर्दिक्षु च विप्रेन्द्र तच्छ्रीकरमिति स्मृतम् ।
कर्णिके पतिते पुष्पे सुखं चैव भवेत्तदा ॥ ३७ ॥
ईशानस्य दले चैव नेत्रं नाममिहोच्यते ।
उदकेन समायुक्तं भस्म शिरसि निक्षिपेत् ॥ ३८ ॥
सुगव्यादिभिरभ्यर्च्य हृदयेन तु मन्त्रतः ।
शिवाग्रे चैव तु कुम्भं तु शाल्योपरि च विन्यसेत् ॥ ३९ ॥
ससूत्रां सापिधानां च स वस्त्रान्हेमसंयुतान् ।
शिवमन्त्रमनुद्धृत्य स्थापयेत्कुम्भमेव च ॥ ४० ॥
तस्योदकेन विप्रेन्द्र प्रोक्षयेच्छिष्य मुर्धनि ।
ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् ॥ ४१ ॥
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ।
सद्योजातं न्यसेत्पादौ विन्यसेच्छिष्यदेहके ॥ ४२ ॥
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ।
शिखायां तु शिखां न्यस्य कवचं हस्तमध्यतः ॥ ४३ ॥
अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् ।
देवस्य दक्षिणे पार्श्वे पलाशपत्रं च संयुतम् ॥ ४४ ॥
कूर्चेनैव समायुक्तमासनं तत्प्रकीर्तितम् ।
आसनस्था तु शिष्याणां पूर्वाभिमुखमेव च ॥ ४५ ॥
प्। ६३)
अग्निबीजेन विप्रेन्द्र त्रिकोणमण्डले स्थिते ।
पादाङ्गुष्ठात्समारभ्य दहेद्यावच्छिरोन्तकम् ॥ ४६ ॥
अभूते नार्पयेत्तत्र एकचित्तेन वै बुधः ।
चन्द्रमण्डलसङ्काशमकारं चात्मसम्भवम् ॥ ४७ ॥
विद्यातत्वमुकारं तु शिवतत्वं मकारकम् ।
ओमित्येकेन मलं योगपीठमधोमुखम् ॥ ४८ ॥
चिन्तयेदमृतं तोयं सुषुम्ना भिन्नमस्तकम् ।
तेन प्लावितमात्मानमार्य * न्तं विचिन्तयेत् ॥ ४९ ॥
इमालं योश्यते नित्यं समाधी मृत्युनाशनम् ।
न तस्य जायते मन्युरत्र शास्त्रस्य निश्चयः ॥ ५० ॥
षडध्वा विन्यसेत्पश्चाच्छिष्येदेहे (तु) विशेषतः ।
मन्त्राध्वा च पदाध्वा च तत्वाध्वा भुवनात्मकम् ॥ ५१ ॥
वर्णाध्वा च कलाध्वा च विंशत्येकं शिवं पदम् ।
सत्वो रजस्तमश्चैव आत्म त्रयमेव च ॥ ५२ ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चाष्टशक्तिभिः ।
पञ्चब्रह्मशिवाङ्गां च प्रासादं तु सदाशिवम् ॥ ५३ ॥
शिष्यदेहे न्यसेद्विप्र प्रणवादिनमोन्तकम् ।
तत्तन्मन्त्रमनुस्मृत्य योजयेच्छिष्यदेहके ॥ ५४ ॥
मन्त्राध्वा विन्यसेन्मूर्ध्नि कलाध्वा मुखमेव च ।
तत्वाध्वा हृदये न्यस्य नाभौ तु भुवनात्मकम् ॥ ५५ ॥
प्। ६४)
वर्णाध्वा मेढ्रदेशे तु पादयोस्तु कलाध्वकम् ।
पादाध्वा तु पुनर्योज्य पादारभ्य शिरोन्तकम् ॥ ५६ ॥
सद्यः कलाभिरष्टाभिर्वामदेवं त्रयोदशम् ।
अघोरमपि चाष्टौ तु तत्पुरुषं तथैव च ॥ ५७ ॥
ईशानस्य कलाः पञ्च अष्टत्रिंशत्कला न्यसेत् ।
विद्येश्वराणामष्टौ तु गणेशानां चतुष्टयम् ॥ ५८ ॥
द्विपदं लोकपालानाम् अस्त्राणां पदमेकशः ।
एवं पदाध्वा विन्यस्य तत्वाध्वा च पुनर्न्यसेत् ॥ ५९ ॥
पृथिव्यापस्तथातेजो वायुराकाशमेव च ।
श्रोत्रं चक्षुश्च जिह्वाश्च घ्राणं त्वक्चैव पञ्चमः ॥ ६० ॥
वाक्पादपाणि पायूपस्थं च पञ्चमम् ।
शब्दस्पर्शोरूपरसो गन्धश्चापि च पञ्चमम् ॥ ६१ ॥
मनोहङ्कारबुद्धिश्च प्रकृतिः पुरुषस्तथा ।
रागो माया च विद्या च कला नियतिमेव च ॥ ६२ ॥
स गृहेश्वरकालश्च शुद्धमाया तथैव च ।
शुद्धविद्या शुद्धकला सदाशिवः शिवः परम् ॥ ६३ ॥
षट्त्रिंशत्तत्वमेवं तु क्रमेणैवं तु विन्यसेत् ।
भुवनाध्वा ततो न्यस्य कलानां तु शिवान्तकम् ॥ ६४ ॥
भुवनाध्वा न्यसेत्पश्चान्मेढ्रमेवं क्रमेण तु ।
अधस्ताद्धृदयादीनि कल्पयेत्कल्पवित्तमः ॥ ६५ ॥
प्। ६५)
कालाग्निश्चान्धकारं तन्नरकानेक विंशतिः ।
रौरवं कुम्भीपाकं च महारौरवमेव च ॥ ६६ ॥
क्षुधानासी न काक्तं चे जंलं च शीतलेन च ।
उष्णसन्तापनं चैव लोहतप्ततपस्तथा ॥ ६७ ॥
कूटशाल्मलिकूपं च तिलयन्त्रेषु यन्त्रकम् ।
धनुर्निरयमाधानं क्षुरिकानीयमेव च ॥ ६८ ॥
पाषाणं तप्तपांसुर्वै तरणी च तथैव च ।
तलं च वितलं चैव नितलं च तलातलम् ॥ ६९ ॥
अतलं च तलानील * * * रौतलमतो ।
परहलोकश्च भुवर्लोकः स्वर्लोकश्च तथैव च ॥ ७० ॥
महल्लोकश्च विज्ञेयो जनलोकस्तथैव च ।
तपोलोकं सत्यलोकं गन्धर्वाक्षयलोककम् ॥ ७१ ॥
विद्याधराणां लोकं च सोमलोकं तथैव च ।
ईशानं देवलोकं च ब्रह्मलोकं तथैव च ॥ ७२ ॥
ब्रह्मलोकोपरिस्तस्य विष्णुलोकमतः परम् ।
अनन्ते सत्यलोकं तु सूक्ष्मलोकमतः परम् ॥ ७३ ॥
शिवोत्तमस्य लोकं तु एकनेत्रस्य लोककम् ।
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डि च ॥ ७४ ॥
महेश्वरस्य लोकं तु सदाशिवस्य लोककम् ।
गोलोकं शिवलोकं च क्रममेषां प्रकीर्तितम् ॥ ७५ ॥
प्। ६६)
शिवलोकोपरिष्टात्तु लोकमन्यन्न विद्यते ।
नाभिमूलात्समारभ्य यावद्धृदयदेशकम् ॥ ७६ ॥
वर्णाध्वा विन्यसेद्विप्र कादिपादान्तमेव च ।
अकारं मूर्ध्निदेशे तु आकारं तु ललाटके ॥ ७७ ॥
इकारं दक्षिणे नेत्रे ईकारं वामनेत्रके ।
ऌकारं दक्षिणे गण्डे ॡकारं वामगण्डके ॥ ७८ ॥
ए ऐ च तालुरन्ध्रे तु ओ औ ओष्ठद्वयेपि च ।
दन्तपङ्क्तिद्वये न्यस्य अम् अः इत्यक्षरद्वयम् ॥ ७९ ॥
कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके ।
टवर्गं दक्षिणे पादे तवर्गं वामपादके ॥ ८० ॥
पवर्गं दक्षिणे पार्श्वे वामपार्श्वे बभौ न्यसेत् ।
मकारं हृदये न्यस्य यकारं चैव विन्यसेत् ॥ ८१ ॥
रेफं तु रक्तमेवोक्तं लकारं मांसमेव च ।
लकारं मेदे विन्यस्य शकारं चाधिदेशके ॥ ८२ ॥
मज्जदेशे षकारं तु सकारं शुक्लमेव च ।
हकारं प्राणमित्याहु लकारं मेढ्रमेव च ॥ ८३ ॥
क्षकारं वृषणे प्रोक्तं सर्वानेतान्समान्न्यसेत् ।
नवत्रिंशत्कला विप्र कादिपादान्तविन्यसेत् ॥ ८४ ॥
रास्वताधारमणीताय पङ्क्तिश्च दारुणि ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ ८५ ॥
प्। ६७)
शान्त्यतीतं परं व्योम क्रमाद्विन्यस्य तत्वतीः ।
ततो मोहौ क्षुधानिद्रा मृत्युमायजरा मया ॥ ८६ ॥
राजारक्ष्यारतः पाल्यारम्याक्षणमतिक्रिया ।
धृतिः कार्या च रात्री च भ्रामणी मोहिनी तथा ॥ ८७ ॥
सिद्धिद्धिः शान्तिलक्ष्मी मेधा कान्तिः स्वधा स्थितिः ।
नवत्रिंशत्कलाव्याता देवदेवेन धीमहि ॥ ८८ ॥
हृदये चाग्नि विन्यस्य मुखे वा * * विन्यसेत् ।
आकाशं मूर्ध्नि विन्यस्य पञ्चतत्वान्क्रमान्न्यसेत् ॥ ८९ ॥
मन्त्राध्वा सद्यमन्त्रेण वामेनैव पदाध्वकम् ।
तत्वा वैश्यघोरेण भुवनाध्वा पुरुषेण तु ॥ ९० ॥
वर्णाध्वा च कलाध्वा च ईशानेन तु विन्यसेत् ।
एवमेव क्रमेणैव शिष्यदेहे न्यसेत्ततः ॥ ९१ ॥
ईशानं मूर्ध्नि विन्यस्य मुखे विष्णुरिति स्मृतम् ।
हृदये ब्रह्मणः प्रोक्तम् अश्विन्यां हस्तयोर्न्यसेत् ॥ ९२ ॥
एवं यः कुरुते मर्त्यः भूमौ भवति मानवः ।
देशिकश्चात्मना विप्र शिवस्तत्रैव तिष्ठति ॥ ९३ ॥
तस्मात्सर्वप्रयत्नेन देशिकं पूजयेत्ततः ।
यद्द्रव्यं पात्रशेषादि शिवस्य परमेष्ठिनः ॥ ९४ ॥
होतव्यं देशिकस्यापि न दोषाय प्रकल्पयेत् ।
शिवमुद्दिश्य सर्वं तु वस्त्रधान्यादिकाञ्चनम् ॥ ९५ ॥
प्। ६८)
दद्यादाचार्यहस्ते तु शिवलोकमवाप्नुयात् ।
दीक्षाविधिरिति प्रोक्तम् अभिषेकमतः शृणु ॥ ९६ ॥
इति वीरतन्त्रे दीक्षाविधिः नवमः पटलः ॥ ९ ॥