प्। ४६)
पितामहः ॥
सर्वप्राणि हितार्थाय सर्वपापविमुक्तये ।
मण्डलं कीदृशं देव तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥
ईश्वरः ॥
साधु साधु महाप्राज्ञ यत्वया परिचोदितम् ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ॥ २ ॥
गङ्गाकूले समुद्रे वा नद्यां वापि तटाकके ।
उद्याने चैव गोष्ठे वा महातटाकतीरके वा ॥ ३ ॥
देवालय समीपे तु पुण्यनद्याश्च तीरके ।
अथ शुद्धगृहे वापि कारयेन्मण्डपं ततः ॥ ४ ॥
मण्डपं वापि कूटं वा कर्तव्यं तु प्रपा तथा ।
श्रुतिहस्तं पञ्चहस्तं वा षढस्तमधमत्रयम् ॥ ५ ॥
सप्तहस्ताष्टहस्तं वा नवहस्तं तु मध्यमम् ।
दशैकादशहस्तं तु द्वादशं चोत्तमं भवेत् ॥ ६ ॥
एवमेवक्रमेणैव मात्राङ्गुलं तु कारयेत् ।
षोडशस्तम्भ संयुक्तं पङ्क्तिमानमथोच्छ्रये ॥ ७ ॥
जाती च चम्पकं वापि खदिरस्तम्भमेव वा ।
क्रमुकं वेणुदण्डं वा वकुली केतकी तथा ॥ ८ ॥
याज्ञिकैरेव वृक्षैर्वा नाहं विंशतिरङ्गुलम् ।
नालिकेरस्य पत्रेण विधेयमाच्छादनं ततः ॥ ९ ॥
वस्त्रेण वेष्टयेद्गात्रं चतुस्तोरणभूषितम् ।
दिग्ध्वजैश्च समायुक्तं वितानोपरिशोभितम् ॥ १० ॥
प्। ४७)
मुक्तादामैरलङ्कृत्य पुष्पदामप्रलम्बनम् ।
एवमेव क्रमेणैव पूर्वं भूमिं परीक्षयेत् ॥ ११ ॥
ब्राह्मणस्य महीश्वेता रक्ता वै क्षत्रिया भवेत् ।
वैश्यस्य वसुधा पीता कृष्णा शूद्रा इति स्मृता ॥ १२ ॥
मधुरा ब्राह्मणा भूमिः कषाया क्षत्रियाय वै ।
वैश्यस्य षड्रसा ज्ञेया शूद्रस्तु कटुका स्मृता ॥ १३ ॥
आज्यगन्धं तु विप्रे च रक्तगन्धं नृपस्य तु ।
मूत्रगन्धा तु वैश्यस्य शूद्रा विष्ठानुगन्धिनी ॥ १४ ॥
वक्रगन्धरसानां च तत्तज्जात्यर्हकं भवेत् ।
हस्तमात्रं खनेद्भूमिं पूरयेत्तेन पांसुना ॥ १५ ॥
अधिकं चोत्तमं विद्यान्मध्यमा समपांसुभिः ।
हीनाचाप्यधमं ज्ञेयमधमं च विवर्जयेत् ॥ १६ ॥
तस्मात्तस्माङ्गन्तुषा केशाहस्तिमूर्धरिते ततः ।
पञ्चगव्येन सम्प्रोक्ष्य शिवमन्त्रेण देशिकः ॥ १७ ॥
पञ्चरत्नं क्षिपेद् तत्र षण्णवत्येन मन्त्रतः ।
पांसुभिश्छाययित्वा तु धिष्ण्यं सम्यक् प्रकल्पयेत् ॥ १८ ॥
दर्पणोदरसङ्काशं चतुरश्रं समन्ततः ।
पूर्वाग्रं सप्तहस्तं स्यादुदगग्रं तथैव च ॥ १९ ॥
कृष्णसूत्रद्वयं कृत्वा तस्याग्रे मूलमुच्यते ।
ईशो जयन्त आदित्या सत्यकश्च भृशस्तथा ॥ २० ॥
प्। ४८)
अग्निश्च वितथश्चैव गृहक्षतयमस्तथा ।
भृङ्गश्च पितृ सुग्रीवो वरुणश्चासुरस्तथा ॥ २१ ॥
रोगनाशश्च मुख्यश्च सोमश्चादित एव च ।
अर्धार्धद्विपदं भुङ्क्ते पूर्वे तु समरीचकः ॥ २२ ॥
विवस्वान्दक्षिणे चैव मित्रश्चैव तु पश्चिमे ।
अर्धार्धद्विपदं भुङ्क्ते उत्तरे पृथिवीधरः ॥ २३ ॥
आपापवत्ससावित्री इन्द्रजयस्तथैव च ।
रुद्रजयश्च विप्रेन्द्र ईशानैक पदस्थिताः ॥ २४ ॥
ब्रह्मा चतुष्पदं भुङ्क्ते षट्त्रिंशं पदभागिना ।
चरकी विदारी चैव पूतना पापराक्षसी ॥ २५ ॥
चतुश्शूल्ये न्यसेत्तत्र गन्धपुष्पादिनार्चयेत् ।
पुरुर्षं पूर्वं सङ्कल्प्य * * रीके शिरो भवेत् ॥ २६ ॥
ब्रह्मकायदिति प्रोक्तं वामबाल्य वत्सरे ।
सावित्रीं चन्द्र च विप्रेन्द्र दक्षीमबहुरुच्यते ॥ २७ ॥
शूद्रजायास्तथा चैव वामपादं प्रकीर्तिता ।
इन्द्रजयस्तथैव स्याद्दक्षिणं पादमुच्यते ॥ २८ ॥
मित्रश्चैव तु लिङ्गः स्यादधोम्मुखं तु कारयेत् ।
गन्धैः पुष्पैश्च धूपैश्च वरुणश्चैव पूजितम् ॥ २९ ॥
मण्डलं वर्धयेद्धीमान्पुण्याहं वाचयेत्ततः ।
पूर्वे चतुष्पदे चैव अष्टादश तु भाजयेत् ॥ ३० ॥
प्। ४९)
एकांशं वर्तयेत्तत्र अन्तर्मध्यादि भ्रामयेत् ।
एवमेव क्रमेणैव चतुर्दिक्षु च भ्रामयेत् ॥ ३१ ॥
मध्यात्कर्णं परिग्राह्य ददद्धेनैव भ्रामयेत् ।
अभ्यन्तरकर्णपदे वर्तयेद्दलमेव च ॥ ३२ ॥
एवमेव क्रमेणैव चत्वारे दण्डमुच्यते ।
बाह्यकार्णं पदे चार्धो वर्तयेद्वृत्तमेव च ॥ ३३ ॥
अष्टाभिर्दलमेवं तु दलाग्रस्तत्र योजयेत् ।
प्रतिवारणरेखा च एकाङ्गुलेन कारयेत् ॥ ३४ ॥
अङ्गुलीत्रयकार्यं तु शोभां चैवं त वर्जयेत् ।
अङ्गुलेनैव भूमित्वा * * * * * * * * ॥ ३५ ॥
अङ्गुलित्रयबाह्ये तु शोभां चैव तु वर्तयेत् ।
अङ्गुले नैव विप्रेन्द्र उपशोभां च वर्तयेत् ॥ ३६ ॥
मध्यात्पूर्वदलान्तं तु सीतयेत्केसरं ततः ।
केसरं तु त्रिभागैकं कर्णिकां चैव वर्तयेत् ॥ ३७ ॥
एवमेव क्रमेणैव वर्तयेन्मण्टपं ततः ।
मोक्षदं मण्डलं प्रोक्तं शान्तिकं च शृणुष्वथ ॥ ३८ ॥
पूर्वाग्रमुत्तराग्रं च सूत्रद्वयं प्रसारयेत् ।
नैर्-ऋते शानकोणे वा वायव्याग्नेयमेव वा ॥ ३९ ॥
सूत्रं प्रसारयेत्तत्र मध्ये शङ्कुं तत्रैव विन्यसेत् ।
खादिराः शङ्कवः कार्या बिल्वचूतकदम्बकैः ॥ ४० ॥
प्। ५०)
मधुकं देवदारुं वा याज्ञिकं वृक्षमेव च ।
अष्टाङ्गुलसमुत्सेधं तदर्धं नाहमुच्यते ॥ ४१ ॥
कर्तव्या चतुरङ्गुल्यं केसराश्च षडङ्गुलम् ।
दलायामं च विप्रेन्द्र चतुर्दशाङ्गुलं भवेत् ॥ ४२ ॥
प्रतिवारण चाङ्गुल्यं विधं च त्रियाङ्गुलम् ।
शोभा वप्युपशोभां च वर्तयेदङ्गुलान्तरा ॥ ४३ ॥
एवमेवक्रमेणैव वर्तयेन्मण्दलं ततः ।
मण्डलं सम्प्रवक्ष्यामि मुक्ताचूर्णेन संयुतम् ॥ ४४ ॥
शालिगोधूम पिष्टैश्च पञ्चरागं च चूर्णकैः ।
गैरिकैष्टक चूर्णैश्च इन्द्रनीलस्य चूर्णकैः ॥ ४५ ॥
कृष्णाङ्गारकचूर्णैश्च मरकतस्य च चूर्णकैः ।
हरिद्रा चूर्णसंयुक्तं मण्डले विन्यसेत्ततः ॥ ४६ ॥
केसरस्य तु मूले तु शुक्लवर्णं प्रकीर्तितम् ।
मध्यमे पीतवर्णं तु अग्रे श्वेतमिहोच्यते ॥ ४७ ॥
पूर्वायां तु दले चैव श्वेतवर्णमिति स्मृतम् ।
आग्नेय्यां रक्तवर्णं च याम्ये कृष्णमिहोच्यते ॥ ४८ ॥
श्वेतं वक्त्रेण विप्रेन्द्र विन्यसेत् प्रतिवारुणे ।
तदन्ते रजनीं न्यस्य शालिपिष्टं तदन्तके ॥ ४९ ॥
चतुर्द्वारसमायुक्तं लेखयेत्तु शिवद्विजः ।
एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा ॥ ५० ॥
प्। ५१)
अष्टौ वा द्वादशं हस्तं षोडशं विंशतिस्तु वा ।
हस्तं च त्रिंशतिर्वापि इत उर्ध्वं न कारयेत् ॥ ५१ ॥
अष्टौ वा षोडशं वापि द्वात्रिंशद्दलमेव वा ।
अष्टोत्तरशतं वापि दलसङ्ख्या विधीयते ॥ ५२ ॥
मन्त्रन्यासं प्रवक्ष्यामि शृणुष्व कमलासन ।
पुरुषं पूर्वदले न्यस्य अघोरं दक्षिणे दले ॥ ५३ ॥
सद्यं तु पश्चिमे न्यस्य वामदेवं तथोत्तरे ।
आग्नेय्यां हृदये न्यस्य शिरमीशानके दले ॥ ५४ ॥
नैर्-ऋते तु दले विप्र शिखामन्त्रं तु पूजयेत् ।
कवचं वायुदेशे तु नेत्रमीशान देशके ॥ ५५ ॥
अस्त्रं दिशासु सम्पूज्य एवमेव क्रमे न्यसेत् ।
दैत्यके तु पदे चैव शिष्याधिवासनं भवेत् ॥ ५६ ॥
मनुष्येऽपि च कुण्डं स्यात्पैशाचे गुरु तिष्ठति ।
ब्राह्मीके मण्डले कुर्यादेवमेव क्रमेण तु ॥ ५७ ॥
कर्णिकायां शिवं पूज्य ऐशान्यां केसरे न्यसेत् ।
प्रोक्षयेदम्भसा चैव पुण्याहं वाचयेत्ततः ॥ ५८ ॥
गन्धैः पुष्पैश्च धूपैश्च हृदयेन तु पूजयेत् ।
आवाहयेत्ततो देवं सद्यो जातेन मन्त्रतः ॥ ५९ ॥
स्थापयेद्वामदेवेन अघोरेण निरोधयेत् ।
सान्निध्यं पुरुषेणैव ईशानेन तु पूजयेत् ॥ ६० ॥
प्। ५२)
पञ्चावरणमार्गेण पूजयेद्विधिपूर्वकम् ।
निवेदच्चरणं तस्मात्सर्वोपदंश संयुतम् ॥ ६१ ॥
अर्धं निवेदयेद्देवे चार्धार्धं बलि चाग्निभिः ।
पात्रशेषं चतुर्थांशं तं तच्छिष्याय प्रदापयेत् ॥ ६२ ॥
पञ्चब्रह्मैरनुस्मृत्य पञ्चपिण्डं कुरुष्वथ ।
आचम्य विधिनानेन दन्तेनास्पृश्य प्राशयेत् ॥ ६३ ॥
व्योमव्यापि जपेत्तत्र आचम्य च विधानतः ।
दन्तकाष्ठं ततः कुर्याद्द्वादशाङ्गुलदैर्घ्यकम् ॥ ६४ ॥
पिप्पलं वटवृक्षं च खादिरं वापि कारयेत् ।
क्षीरवृक्षमपामार्गं दन्तधावनमुच्यते ॥ ६५ ॥
पाशुपतास्त्रमन्त्रेण जपित्वा खानयेत्ततः ।
शोधयित्वा मलं विप्र आचम्य च विधानतः ॥ ६६ ॥
व्योमव्यापि जपेत्तत्र शिवाङ्गं विन्यसेत्ततः ।
अघोरेण तु मन्त्रेण भस्म शिरसि विन्यसेत् ॥ ६७ ॥
पञ्चगव्यं ततो दद्याच्छिवमन्त्र समायुतम् ।
शिवाङ्गैर्ब्रह्मभिर्युक्तं जपित्वा पञ्चप्राशयेत् ॥ ६८ ॥
आचम्य च विधानेन पूतो भवति निश्चयः ।
शिष्यं चाधिवसेन्मन्त्री मण्डलस्य तु दक्षिणे ॥ ६९ ॥
भस्मदर्भसमारूढः शिवध्यानपरायणः ।
अग्निकुण्डं प्रकर्तव्यं द्वात्रिंशत्षोडशं तु वा ॥ ७० ॥
प्। ५३)
अष्टौ वा पञ्चसङ्ख्या वा दिकद्रान्नीव वा ।
वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् ॥ ७१ ॥
बिल्वोदुम्बरशमी चैव वैकङ्कतशमीं तथा ।
पालाशखदिराश्वत्थ प्लक्षन्यग्रोधमेव च ॥ ७२ ॥
अपामार्गं च विख्यातं समिद्भिस्समुदाहृतम् ।
समिदाज्य चरुं लाजान्बलिं च सर्षपं तथा ॥ ७३ ॥
यवांश्चैव तु विप्रेन्द्र होमयेत्तन्त्रपारगः ।
समिधं सद्यमन्त्रेण आज्यं हृदयमेव च ॥ ७४ ॥
शिखया चरुहोमं तु लाजान्वामेन चैव हि ।
शिलान्यन्नेयमं चैव शालीं च पुरुषेण तु ॥ ७५ ॥
सर्षपं शिरमन्त्रेण कवचेन यवांस्तथा ।
शिवाय दशहोतव्यं विद्येशाद्विगुणं भवेत् ॥ ७६ ॥
गणेशान्लोकपालांश्च त्रिगुणं होमयेत्ततः ।
त्रिगुणं लोकपालास्त्रं होमयेद्देशिकोत्तमः ॥ ७७ ॥
मण्डलस्य तु पूर्वे च कलशान्विन्यसेन्नव ।
स वस्त्रान्सापिधानांश्च समग्रे हेमसंयुतान् ॥ ७८ ॥
नवरत्नं च विप्रेन्द्र नवकुम्भे च विन्यसेत् ।
धान्योपरि विधातव्यं चन्दनोदकपूरितम् ॥ ७९ ॥
शिवमन्त्रेण संस्थाप्य प्रधानकलशं तथा ।
पुरुषं पूर्वतः स्थाप्य अघोरं दक्षिणेन तु ॥ ८० ॥
प्। ५४)
सद्यं पश्चिमतः स्थाप्य वामदेवं तथोत्तरे ।
ऐशान्यामीशमन्त्रेण आग्नेय्यां हृदयेन तु ॥ ८१ ॥
शिखामन्त्रेण नैर्-ऋत्यां कवचं वायुगोचरे ।
तत्तन्मन्त्रेण संयुक्तं तत्तत्कुम्भेषु देशिकः ॥ ८२ ॥
गन्धैः पुष्पैश्च धूपैश्च दीपैरर्ध्यैर्विशेषतः ।
हृदयेन तु मन्त्रेण नैवेद्यं दापयेच्छिवे ॥ ८३ ॥
शुभाशुभानि स्वप्नानि यत्नेन तु परीक्षयेत् ॥ ८३ � ॥
आरोहणं गोवृषकुञ्जराणां प्रासादशैलाग्रवनस्पतीनाम् ।
विष्ठानुलेपं रुधिरस्रुतिं च स्वप्नेषु गम्यं गमनं च धान्यम् ॥ ८४ � ॥
पश्यते पिशजं स्वप्ने महा(न)र्थमवाप्नुयात् ॥ ८५ ॥
पद्मं पुष्पं च वृषभं मकुटं भूमिलाभकम् ।
अर्पितं पिलितं वापि पक्वं वा शुभवृक्षके ॥ ८६ ॥
वृष्टे वृष्टफलं चैव लभतेत्र न संशयः ।
शालिक्षेत्रे महं पक्वं दृश्यते शालिलाभकम् ॥ ८७ ॥
स्वप्ने महोदकं दृश्येद्धनधान्यमवाप्नुयात् ।
दृश्यते पुष्पमालाया अर्थलाभं विनिर्दिशेत् ॥ ८८ ॥
विविधानि फलान्येव मधुराणि तथैव च ।
स्वप्नेपि दृश्यते विप्र धनलाभं विनिर्दिशेत् ॥ ८९ ॥
धेनुं वापि वराश्वं वा शुकं वा मृग एव वा ।
शारिकां वा भयं वापि दृश्येत् कुटुम्बवर्धनम् ॥ ९० ॥
प्। ५५)
यस्तु स्येते ससर्पेण दृश्यते दक्षिणे भुजे ।
पत्रं वा चार्थलाभं वा लभतेऽत्र संशयः ॥ ९१ ॥
गन्धिशालि महाशाली कलमाशालिश्च मेव वा ।
दातव्यमपि स्वप्नेपि (तु) दुःखनाशं भवन्ति वै ॥ ९२ ॥
सवत्सां सुरभिं पश्येदायुष्यं तस्य वर्धते ।
जनं वा वानरं वापि सर्पं वापि च दृश्यते ॥ ९३ ॥
धनधान्यमवाप्नोति पुत्रपौत्रविवर्धनम् ।
प्रासादारोहणं वापि समुद्रं दृश्यते नरः ॥ ९४ ॥
स राज्यं लभतेऽवश्यं स्वप्नान्ते दृश्यते नरः ।
आदित्यमण्डलं स्वप्ने दर्शनाद्राज्यमाप्नुयात् ॥ ९५ ॥
दैवज्ञं चैव राजानकन्यालसुरमेव वा ।
अर्थलाभमवाप्नोति दर्शनादर्थमाप्नुयात् ॥ ९६ ॥
रुधिरं वा सुरां वापि पानं वा दृश्यते यदि ।
विद्यालाभं द्विजानां तु इतरस्तु धनं लभेत् ॥ ९७ ॥
तरते सृक्नदी वापि महदर्थमवाप्नुयात् ।
अमेध्यं दर्शनं भक्ष्ये अर्थलाभं विनिर्दिशेत् ॥ ९८ ॥
क्षीरपाने महाव्याधिर्घृतपाने महद्भयम् ।
रक्तपाने महाव्याधिराज्यं च दधिभोजनम् ॥ ९९ ॥
पायसं चैव श्वानं वा तदर्धो लीयते ततः ।
महत्सुखमवाप्नोति मासा मरणमाप्नुयात् ॥ १०० ॥
प्। ५६)
श्येनं वापि खरं वापि आधूर्त * मुलूककम् ।
मूढो वा लीयते पक्षे मासान्मरणमाप्नुयात् ॥ १०१ ॥
स्वदन्त पतिते चैव बन्धोर्मरणमाप्नुयात् ।
निगलं चात्र दृश्ये तु महद्व्याधिमवाप्नुयात् ॥ १०२ ॥
रक्तवस्त्रैश्च माल्यैर्वा कृष्णं वापि च धार्यते ।
पाददेशे स्थिता नारी व्याधितैर्मरणं भवेत् ॥ १०३ ॥
करयुक्तारथारुह्ये नीयते तु यमालयम् ।
मासान्मरणमाप्नोति स्वप्नान्ते दृश्यते यदि ॥ १०४ ॥
रूपे तु पतिते दृश्ये मरणं तस्य निर्दिशेत् ।
सन्न्यासिनं क्षपणं बोद्धं दृश्यते मरणं भवेत् ॥ १०५ ॥
शैवाच्चान्यद्विजं वापि रक्तवस्त्रां सुमङ्गलीम् ।
महास्त्रियमवाप्नोति स्वप्नान्ते दृश्यते यदि ॥ १०६ ॥
तालवृक्षफलं चैव फलानां वर्जयेत्ततः ।
किंशुकं रक्तपुष्पाणि करवीरं तु वर्जयेत् ॥ १०७ ॥
धूर्धूरकठिना विप्र श्वेतपुष्पं प्रशस्यते ।
नराणां ब्राह्मणः श्रेष्ठो राजानां मध्यमं भवेत् ॥ १०८ ॥
शुकं * * * * * * पक्षिणां तु प्रदर्शयेत् ।
धेनुं (च) वृषभं चैव सिंहं चैव मृगं तथा ॥ १०९ ॥
स्वप्नेपि दृश्यते विप्र आयुष्यं चैव वर्धयेत् ।
कुलस्थं सर्षपं मुद्गं दृश्यते व्याधिमाप्नुयात् ॥ ११० ॥
प्। ५७)
कदली नालिकेरं वा पनसं मातुलुङ्गकम् ।
एतेषां तु फलं दृष्ट्वा धनधान्यं मवाप्नुयात् ॥ १११ ॥
देवतानामृषीणां वा देवपत्नी च चाप्सराः ।
यस्तु पश्यति स्वप्नान्ते धनमायुर्यशो भवेत् ॥ ११२ ॥
आयुधान्वाहनान्वापि दृश्यते कुटुम्बवर्धनम् ।
मांसं वापि च मत्स्यं वा लब्धो शुभदं भवेत् ॥ ११३ ॥
जुषं वा तस्करं वापि महर्षिं व्याघ्रमेव वा ।
राजा पीडामवाप्नोति प्रतारैर्व्याधिमादिशेत् ॥ ११४ ॥
स्नानकार्यं प्रकर्तव्यात्तु सद्यो व्याधिमुच्यते ।
रण्डां च मुण्डां वापि नग्नस्त्रीं वापि पश्यति ॥ ११५ ॥
धान्यक्षयं भवेत्तस्य स्वप्नान्तेऽपि न संशयः ।
पुरीषं वापि मूत्रं वा न स्वप्ने दर्शयेत्ततः ॥ ११६ ॥
वस्तु नश्यति स्वप्नान्ते अर्थहानिमवाप्नुयात् ।
शाल्यन्नं भुञ्जते यस्तु आयुः श्रीकीर्तिवर्धनम् ॥ ११७ ॥
स्त्रीभिः सुमङ्गलीभिस्तु संयोगं शयनं शुभम् ।
शुभे तु प्रविशेद्दीक्षामशुभे होममाचरेत् ॥ ११८ ॥
सहस्र परमा देवी शतमूला शताङ्कुरा ।
सर्वं हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी ॥ ११९ ॥
इदं मन्त्रं जपित्वा तु दूर्वां शिरसि निक्षिपेत् ।
स्वप्नं तु प्रथमे यामे वत्सरत्रय पाकनम् ॥ १२० ॥
प्। ५८)
द्वितीयेन द्वयं चैव तृतीयामे संवत्सरम् ।
चतुर्थे विश्वयामे च षण्मासात्सिध्यते ततः ॥ १२ ॥
उषायां तु दशाहं तु प्राहे (प्रगे) पञ्चदशं दिनैः ।
अरुणोदयवेलायां सप्ताहात्सिद्धिमाप्नुयात् ॥ १२२ ॥
एवमेव क्रमेणैव स्वप्नं चैव परीक्षयेत् ।
स्वप्नं परीक्ष्य बहुधा प्रभाते स्नपनं भवेत् ॥ १२३ ॥
दीक्षामण्डलतः प्रोक्तदीक्षामार्गमतः शृणु ॥ १२३ � ॥
इति वीरतन्त्रे षट्सहस्रसंहितायां दीक्षामण्डलविधिरष्टमः पटलः ॥ ८ ॥