०७

पितामह उवाच ॥

देशिकाः कीदृशा ज्ञेयाः शैवास्सप्तविधाः कथम् ।
कस्मिन्कुले तु सञ्जातास्तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥

साधु साधु महाप्राज्ञ यत्वया परिचोदितम् ।
समासात्कथयिष्यामि तन्मे निगदतः शृणु ॥ २ ॥

देश आदिश्यते येन देशिकस्स ततः स्मृतः ।
सर्वेषां च गुरुश्चैव गुरुरित्यभिधीयते ॥ ३ ॥

लिङ्गस्थापनयोग्यत्वात्स्थापको नाम उच्यते ।
अप्रमत्तो भवेन्नित्यं नित्यं वा गुरुपूजकः ॥ ४ ॥

एवं लक्षणसंयुक्त आचार्यस्समुदाहृतः ।
शैवास्सप्तविधा ज्ञेयास्तेषां भेदं शृणुष्वथ ॥ ५ ॥

अनादिशैवः प्रथम आदिशैवो द्वितीयकः ।
तृतीयस्तु महाशैवाश्चतुर्थश्चानुशैवकः ॥ ६ ॥

पञ्चमोवान्तरः शैवः षष्ठः प्रवर उच्यते ।
सप्तमो वा न्यशैवस्तु शैवानां भेद उच्यते ॥ ७ ॥

प्। ४१)

अनादिशैवस्स शिव आदिशैवः शिवद्विजः ।
महाशैवः केवलो विप्रः क्षत्रियो वैश्य एव च ॥ ८ ॥

अनुशैवो समाख्यातौ शूद्रस्वान्तरगौ स्मृतौ ।
सवर्णाम्बष्ठ मध्यस्थौ कुलालपारशवास्तथा ॥ ९ ॥

प्रावरणशैवा विप्रेन्द्र प्रोच्यते सकलं मया ।
अन्येषामिहजाती नामन्य शैव मिहोच्यते ॥ १० ॥

आदावेव तु शैवत्वादादिशैव इति स्मृतः ।
कौशिकः काश्यपश्चैव भारद्वाजो त्रिरेव च ॥ ११ ॥

गौतमश्चेति पञ्चैते पञ्चवक्त्रेषु दीक्षिताः ।
शिवेन दीक्षिताश्चैव शिवब्राह्मण उच्यते ॥ १२ ॥

शिवः शिखस्तथा ज्योतिः सावित्री व्योम एव च ।
कौशिकश्चोत्तरमुखः काश्यपश्चैव दक्षिणे ॥ १३ ॥

भारद्वाजः पुराज्ञेयः पश्चिमे गौतमस्तथा ।
अत्रिरूर्ध्वमुखं ज्ञेयम् एवमेतेषु दीक्षिताः ॥ १४ ॥

पञ्चगोचरशुद्धात्मा * * * * * * * * ।
कौशिकः शिवभक्तस्तु काश्यपस्त्वीश्वरेण तु ॥ १५ ॥

ईशानेन भरद्वाजो ब्रह्ममूर्तिस्तु गौतमः ।
अत्रेस्सदाशिवश्चैव उमाधूर्तस्तु दीक्षितः ॥ १६ ॥

पञ्चगोचरशुद्धात्मा ऋषयः पञ्च उच्यते ।
शिवदीक्षात्परं जातः शिवब्राह्मण उच्यते ॥ १७ ॥

प्। ४२)

कौशिकस्य मही चित्रं पाण्डरीकं तु काश्यपे ।
गोकर्णे तु भरद्वाजो नागरिकस्तु गौतमः ॥ १८ ॥

अदनायस्तु वरण्डेस्सममेतद्विनिर्दिशेत् ।
शैवं पाशुपतं सोमं लाकुलं च चतुर्विधम् ॥ १९ ॥

शैवभेदमिदं ज्ञेयं सङ्करं न समाचरेत् ।
एतेषामपि तन्त्राणां नवत्वैकस्य तु सङ्करः ॥ २० ॥

तन्त्रसङ्करमेवोक्तं न कुर्यात्तत्रसंयुतम् ।
तन्त्रसङ्करदोषेण राजराष्ट्रं विनश्यति ॥ २१ ॥

अष्टाविंशति भेदेन शैवभेदं विधीयते ।
कामिकं योगजं चिन्त्यं कारणं चाजितं तथा ॥ २२ ॥

दीप्तं सूक्ष्मं सहस्रं च अंशुमान्सुप्रभेकम् ।
विजयं चैव निश्वासं स्वायम्भुवमथानलम् ॥ २३ ॥

वीरं च रौरवं चैव माकुटं विमलं तथा ।
चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा ॥ २४ ॥

सिद्धं सन्तानशार्वोक्तं पारमेश्वरमेव च ।
किरणं वा तुलं त्वेतास्त्वष्टाविंशति संहिताः ॥ २५ ॥

एतेषां सङ्करं चैव न दोषाय प्रकल्पयेत् ।
आचार्यं शिवमेवाहुः शिव आचार्य उच्यते ॥ २६ ॥

अभेदं यो विजानाति एतद्भेदास्तमुच्यते ।
सौभद्रो विषयाख्याता कौशला मागधास्तथा ॥ २७ ॥

प्। ४३)

मालवाश्चैव पाञ्चाला कलिङ्गौ च पुलिन्द च ।
केरलश्चार्यदेशश्च मालवं च मरूणि च ॥ २८ ॥

पञ्चराश्चैव केतुश्च सिंहलो दक्षिणसु च ।
जोनकास्तुलुवाश्चैव कर्णाटकश्च देशतः ॥ २९ ॥

विषयभेदं समाख्यातं समासात्कथयामि ते ।
कुमारी हिमवन्मध्ये * * * * * * * * ॥ ३० ॥

तस्मात्सर्वप्रयत्नेन स देशः पुरुषोत्तम ।
हैहलं बघरं जोन्यं वर्जयेल्लिङ्गकर्मणि ॥ ८१ ॥

गृहस्थं चोत्तमं विद्यादथवा ब्रह्मचारिणा ।
आदिशैवकुले जातस्स तु वैदिक उच्यते ॥ ३२ ॥

शिखी बोद्बद्धकेशी वा भस्मोद्धूलितविग्रहः ।
दीक्षितस्य कुले जातस्सर्वागमविशारदः ॥ ३३ ॥

अप्रमत्तो भवेन्नित्यं देवाग्निगुरुपूजकः ।
सर्वायवसम्पूर्णः सर्वलक्षणसंयुतः ॥ ३४ ॥

क्रिया वान्निपुणश्चैव शुभाचार समन्वितः ।
क्रियादि ज्ञानपर्यन्ततन्त्रज्ञान विशारदः ॥ ३५ ॥

एवं लक्षणसंयुक्त आचार्यस्समुदाहृतः ।
सनाभिः कुनखो * * बालो वृद्धस्तथैव च ॥ ३६ ॥

निर्दयश्च निराहारो परापवादशीलवान् ।
अतिदीर्घोऽतिहृस्वश्च अतिस्थूलः कृशस्तथा ॥ ३७ ॥

प्। ४४)

कपालं हाप्रदिश्चैव अन्येषां सम एव च ।
नग्नप्रभा तथा क्षीबश्मश्रुरोमादिवर्जितः ॥ ३८ ॥

अनबद्याश्च विप्रेन्द्र गणकाश्च तथैव च ॥ ३९ ॥

अनग्निश्चैव विप्रेन्द काणश्चैव विवर्जयेत् ।
व्यसनाः क्रूरकर्माणः पारदारिक चोरकाः ॥ ४० ॥

शिपिविष्टा बहिः कीर्णा द्विपदाश्च तथैव च ।
कुष्ठिनश्चक्षुहीनाश्च बधिराः श्रुतिदूषकाः ॥ ४१ ॥

एभिस्तु लक्षणैर्युक्ता न कुर्युः स्थापनार्चनात् ।
राजराष्ट्रापि नश्यन्ति तस्मिन्देशे न वर्षति ॥ ४२ ॥

तस्मात्सर्वप्रयत्नेन आचार्ये लक्षणान्विते ।
आदिशैवेन कर्तव्यं प्रतिष्ठाद्यर्चनान्तकम् ॥ ४३ ॥

अन्यथा वीकरयेद्यस्तु माहिचाराय चैव हि ।
स गोत्रेण तु सम्बन्धं न कर्तव्यं कदाचन ॥ ४४ ॥

तत्र यो जायमानस्तु तत्कुलं स्यान्न वर्धते ।
एषामृषीणां विप्रेन्द्र जातानां च पुनः पुनः ॥ ४५ ॥

शिवद्विजानां दीक्षां च न कुर्वीत कदाचन ।
उपनयन कालान्ते मण्डले पूजयेच्छिवम् ॥ ४६ ॥

स्नपनं चाङ्गशुद्ध्यर्थं कारयेत्तु शिवद्विजः ।
स्थिरलिङ्गं तु शूद्राणां स्पृश्यते त्वभिचारतः ॥ ४७ ॥

प्। ४५)

अद्भुतं यादितद्देशं तदा देशक्षयो भवेत् ।
आत्मार्थं पूजयेन्नित्यं सर्वेषां जातिरेव च ॥ ४८ ॥

तस्मात्सर्वप्रयत्नेन देशिको नैव कारयेत् ।
आचार्यहस्तयोर्दद्याच्छिव लोकमवाप्नुयात् ॥ ४९ ॥

ऋषिरान्वयजातीनां स विशेषो हि सर्वशः ।
शिवद्विजानां सर्वेषां न दोषाय प्रकल्पयेत् ॥ ५० ॥

ईश्वरार्थं हि भूम्यादि सर्व वस्तु द्विजोत्तमः ।
आचार्यहस्तयोर्दद्याच्छिव लोकमवाप्नुयात् ॥ ५१ ॥

आवृत्त वंश * * * * वन्दाहं च षण्डकम् ।
पतितं चानुचाण्डाल धूपदेशेविकं शिविम् ॥ ५२ ॥

आरूढपतितं चैव धूतिकं च विशेषतः ।
ग्रामकुक्कुटमेवं तु संस्पृष्ट्वाग्निं तथैव च ॥ ५३ ॥

भुञ्जानोश्वमृदृष्टाश्चेद्विसृज्यैव तु भोजनम् ।
स्नानं कृत्वा तु विप्रेन्द स प्रासादेन संयुतम् ॥ ५४ ॥

मानस्तोकैस्त्रिभिर्जप्त्वा शुद्धं भवति ध्रुवम् ।
प्रयं प्रातस्त्रयं सायं * * मद्यादयाचितम् ॥ ५५ ॥

त्र्यहं परं तु या तु प्राजापत्यं चरेन्नरः ।
षोडशानां क्रियाणां च पूर्वमेवाचरेत्तथा ॥ ५६ ॥

आचार्यलक्षणं प्रोक्तं दीक्षा(या) मण्डलं शृणु ॥ ५६ � ॥

इति वीर तन्त्रे षट्सहस्रसंहितायाम् आचार्य लक्षणं सप्तमः पटलः ॥ ७ ॥