०६

पितामह उवाच ॥

कर्षणं कीदृशं देव वास्तुलक्षणमेव च ।
एतत्सर्वं समासेन ब्रूहि मे परमेश्वर ॥ १ ॥

ईश्वर उवाच ॥

प्। ३३)

कर्षणस्य विधिं यावत्तावच्छृणु तपोधन ! ।
पुष्यमासादिषण्मासं देवतानां दिवा भवेत् ॥ २ ॥

आषाढादिकषण्मासं रात्रिरित्यभिधीयते ।
दिवामासं च गृह्णीयाद्रात्रिमासं च वर्जयेत् ॥ ३ ॥

प्राजापत्यं च यत्सौम्यं हस्तपौष्णत्रिरुत्तराः ।
मैत्रादित्यमखास्वाती त्वष्टार्वाश्रवणाश्शुभा ॥ ४ ॥

एषामेव दिनं श्रेष्ठं धनधान्यविवर्धनम् ।
द्वितीया च तृतीया च पञ्चमी षष्ठिसप्तमी ॥ ५ ॥

दशम्येकादशी वापि शुक्लपक्षे त्रयोदशी ।
प्रतिपत्पौर्णमास्यां वा कारयेत्तु शिवद्विजः ॥ ६ ॥

राशयश्च चरा वर्ज्या ग्राह्याधनुरशोभनम् ।
सोमभार्गवसौम्यानां वारा श्रेष्ठतमाः स्मृताः ॥ ७ ॥

एषा मेवोदयः शस्तस्तत्र सोमोदयं विना ।
अष्टमस्था ग्रहाः सर्वे कर्तुः कुर्वन्तु सुस्थितम् ॥ ८ ॥

खण्डस्थ क्रान्तनक्षत्रे गुलिकावीष्ट्ययस्त्यजेत् ।
ग्रहणे विषुवे चैव अयने व्यतिपातके ॥ ९ ॥

षडशीतिमुखे वापि कृतं कार्यं विनश्यति ।
एवं परीक्षा कर्तव्या सर्वसम्पत्कराय च ॥ १० ॥

अथ भूमिं परीक्ष्यैव पश्चात्कर्षणमारभेत् ।
ऊषरं कुकुमिमिष्टर्ज? वल्मीकाढ्यं च वर्जयेत् ॥ ११ ॥

प्। ३४)

श्वेतानु ब्रह्मभूषमिति रक्ता वै क्षत्रियस्य च ।
पीता वैश्या इति प्रोक्ता कृष्णा शूद्रा इति स्मृताः ॥ १२ ॥

हस्तमात्रं खनित्वा तु पूरयेत्तेन पांसुना ।
अधिकं चोत्तमं ज्ञेयमधमं न्यूनमेव च ॥ १३ ॥

समं मध्यममेवं स्याद्वर्जयेच्छिवमन्त्रतः ।
एवं परीक्ष्य बहुधा कुर्यात्कर्षणमुत्तमम् ॥ १४ ॥

नागहीनवृषौ ग्राह्य श्वेतौ वा रक्तकापिला ।
सर्वलक्षणसंयुक्तो वलवान्मध्यमोवरः ॥ १५ ॥

सम्पूज्यवृषमन्त्रेण हेमशृङ्गसमन्वितौ ।
क्षीरवृक्षयुगं बध्वा गोचर्मेणैव बन्धयेत् ॥ १६ ॥

आसनं खदिरं वाथ फलं कृत्वा स्थलोहकम् ।
आचार्यः सकलीकृत्य नववस्त्रेण वेष्टयेत् ॥ १७ ॥

सर्वाभरणसंयुक्तम् अर्चयेच्छिवमन्त्रतः ।
तीक्ष्ण शृङ्गाय विद्महे वेदपादाय धीमहि (तन्नो वृषः) प्रचोदयात् ॥ १८ ॥

अरश्चाद्य वृषभं तत्र कर्षयेच्छिवमन्त्रतः ।
प्रागुदक्कर्षयेत्तत्र आचार्यं पूजयेत्ततः ॥ १९ ॥

शालिमुद्गकुलस्थं च भूतले विन्यसेत्ततः ।
आचार्याय प्रदातव्यं सहगौ वृषभौ तथा ॥ २० ॥

तेषु पक्वेषु कालेषु गोगणानां निवेदयेत् ।
शल्यं विमोचयेत्तत्र लक्षणेन समन्वितम् ॥ २१ ॥

प्। ३५)

पुण्याहं वाचयेत्तत्र प्रोक्षयेच्छिवमन्त्रतः ।
पूजान्ते स्पर्शयन्कर्तायिदङ्गस्तन्निरीक्षयेत् ॥ २२ ॥

वास्तुदेहेन तत्रैव शल्यन्द्रूथा यथा क्रमम् ।
अस्थिशल्यं शिरस्पर्शान्तदधस्तं च द्वयमानतः ॥ २३ ॥

कर्णस्पर्शे गले तद्वद्वृद्धस्तत्त्रयमानतः ।
त्रिहस्ते शृङ्गलाशल्यमङ्घ स्पर्शात्तु देशिकः ॥ २४ ॥

हस्तमात्रे करस्पर्शात्खलापादिं समादिशेत् ।
अङ्गारकत्रिहस्ते तु बाहुस्पर्शनमुच्यते ॥ २५ ॥

गुल्फेनपादिनिर्दिष्टं वितस्ति प्रमाणादेकाङ्गमुच्यते ।
कनिष्ठां गुष्टयोः स्पर्शात्करार्धैकाङ्गमुच्यते ॥ २६ ॥

कटस्पर्शात्तु लोहं च करद्वयप्रमाणतः ।
नाभिकोर्परं हस्ते जानुस्पर्शमेव च ॥ २७ ॥

एवं परीक्ष्य बहुधा शल्यमुद्धरते जमात् ।
कुघ्नंसत्वा तु विप्रेन्द्र गोमयेनानुलेपयेत् ॥ २८ ॥

पुण्याहं वाचयेत्तत्र षण्णवत्या तु प्रोक्षयेत् ।
अश्वत्थोदुम्बरो वाथ शङ्कुं ग्राहयेत्ततः ॥ २९ ॥

आयामद्वादशाङ्गुल्यं नाहं स्यात्तु षडङ्गुलम् ।
तत्र मध्ये स्थितं शङ्कुं तन्मानेन तु भ्रामयेत् ॥ ३० ॥

सूत्रद्वयं च * * * * * * नैव मात्ततः ।
पूर्वाह्ने च पराह्ने च शङ्कुच्छायां विलोञ्चयेत् ॥ ३१ ॥

प्। ३६)

तत्रसूत्रद्वयं प्राचीं पातयेच्छङ्कुमध्यमे ।
वास्तु देवान्समर्भ्यर्च्य पुरुषं पूजयेत्ततः ॥ ३२ ॥

असुराणां हितार्थाय शुक्रः कृत्वा महातपः ।
महातपसि सम्भूतं भूताकारं महाबलम् ॥ ३३ ॥

भूम्यामधोमुखस्थं तु तद्वास्तु पुरुषो भवेत् ।
प्रागेव तत्तन्मानेन मध्यस्थेनैव कारयेत् ॥ ३४ ॥

उदक्सूत्रं भवेदत्र कृत्वा तु चतुरश्रकम् ।
पञ्चगव्येन सम्प्रोक्ष्य षण्णवत्येन मन्त्रतः ॥ ३५ ॥

एवमेव क्रमं ज्ञात्वा वास्तुं तत्रैव कल्पयेत् ।
दशसूत्रांश्च प्रागग्रानुदगग्रांस्तथैव च ॥ ३६ ॥

एकाशीतिपदं कृत्वा वास्तुदेवान्प्रकल्पयेत् ।
मध्ये नवपदं कृत्वा चतुर्दिक्षु च विन्यसेत् ॥ ३७ ॥

ब्रह्माणं पूर्वतो भागे समन्याकं तु षट्पदम् ।
दक्षिणे तु विवस्वांश्च षट्पदं चैव भुज्यते ॥ ३८ ॥

मित्रं चैव तु विप्रेन्द्र पञ्चमे षट्पदस्तथा ।
उत्तरे षट्पदं भुङ्क्ते पृथिवीधर एव च ॥ ३९ ॥

आपश्चैवापवत्सश्च ऐशान्यं तु पदद्वयम् ।
सावित्र सविताश्चैव आग्नेय्यां तु पदद्वयम् ॥ ४० ॥

इन्द्रश्चेन्द्रजयश्चैव नैर्-ऋत्यां तु पदद्वयोः ।
रुद्ररद्रोजयश्चैव वायव्यां तु पदद्वये ॥ ४१ ॥

प्। ३७)

ईशानश्चैव पर्जन्यो जयन्तश्च मत्तेन्द्रकः ।
आदित्यस्सत्यकभ्रंश अन्तरिक्षश्च पूर्वशः ॥ ४२ ॥

अग्निः पूषा च वितथो ग्रहक्षतयमस्तथा ।
गन्धर्वो भृङ्गरागश्च भृङ्गश्चैव तु दक्षिणे ॥ ४३ ॥

पितृ दौ वारिकश्चैव तथा सुग्रीव एव च ।
पुष्पदन्तश्च वरुण अप्सरश्च तथैव च ॥ ४४ ॥

शोषश्च पापयक्ष्मा च पश्चिमेषु व्यवस्थितः ।
उत्तरेषु तथा रोगान्नागो मुख्यस्तथैव च ॥ ४५ ॥

भल्लाटश्च तथा सोमो ऋगोदितिदितिस्तथा ।
पूतना नैर्-ऋते चैव पापराक्षसि वायवे ॥ ४६ ॥

वास्तुपानां तु सर्वेषां ब्रह्माभिमुखमेव च ।
एवं विन्यस्य देवांश्च पुरुषः प्रोच्यते मया ॥ ४७ ॥

समनीय केसरं विद्याद् बृजकायमथोच्यते ।
आपापवत्सके विप्र वामबाहुरिति स्मृतः ॥ ४८ ॥

सावित्री सविता चैव दक्षिणो बाहुरुच्यते ।
रुद्रो रुद्रोदयश्चैव वामपादं प्रकीर्तितम् ॥ ४९ ॥

इन्द्रो इन्द्रजयश्चैव दक्षिणं पादमुच्यते ।
मित्रश्चैव तु लिङ्गस्य वृषणं पृष्ठमेव च ॥ ५० ॥

एवं वास्तुरिदं प्रोक्तं चरवास्तुं शृणुष्वथ ।
मासे भाद्रपदेष्वादि पूर्वशीर्षकमुच्यते ॥ ५१ ॥

प्। ३८)

मार्गशीर्षकमासादि कुचोमासं तु दक्षिणे ।
फल्गुन्यादित्रयो मासाः पश्चिमं शिर उच्यते ॥ ५२ ॥

ज्येष्ठमासादिविज्ञेयमुत्तरं शीर्षकं तथा ।
पूर्वशीर्षं तु मध्याह्ने साये दक्षिणशीर्षकम् ॥ ५३ ॥

मध्यरात्रे तु विप्रेन्द्र पश्चिमं शिर उच्यते ।
उषःकाले तु सर्वेषु उत्तरे शिर उच्यते ॥ ५४ ॥

एवं पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् ।
वक्ष्ये बलिविधिं यश्च तावच्छृणु तपोधन ॥ ५५ ॥

बलिं दातव्यं पायसान्नं घृतप्लुतम् ।
प्रदद्य फलभक्ष्यं तु समर्याके विशेषतः ॥ ५६ ॥

तिलमाषान्नसंयुक्तं विवस्वादि बलिं ततः ।
पूष्णे च दधिमित्रे च महिषक्षीरमेव च ॥ ५७ ॥

पर्जन्ये चैव सर्पिश्च जयन्ते नवनीतकम् ।
महेन्द्रे पिष्टमेवं तु * * * मधुरुच्यते ॥ ५८ ॥

मधुश्चक्रेदरुफलं सत्ये बलिरिहोच्यते ।
कक्वानश्चत * * थे बिम्बान च ग्रहक्षते ॥ ५९ ॥

कृसरं यममेवं तु गन्धर्वे खिल उच्यते ।
समुद्रमत्स्यं विप्रेन्द्र भृङ्गराजबलिं ततः ॥ ६० ॥

दध्यन्नं च मृगे दद्यात्पितृपिण्याकतैलकम् ।
इष्टेव शतपिष्टे दौवारिश्च ग्रवके ॥ ६१ ॥

प्। ३९)

पुष्पदन्ते च कुसुमं पायसं वरुणे तथा ।
असुरे मधुकं विद्याच्छोषे च तिलतण्डुलैः ॥ ६२ ॥

रोगो हि शुष्कं हीनागौचाजबलिं तथा ।
मुख्येऽपि धान्यचूर्णं तु दधि संयुतमेव च ॥ ६३ ॥

भल्लाटे तु गुलान्नं स्यात्सोमे गुलान्नमेव च ।
ऋग्वेदवे गुलं चैवदितिदैवस्तु मोदकैः ॥ ६४ ॥

दितौ च तिलभक्ष्येण क्षीरान्नं सर्षपशीरके ।
आपे तथा पवत्से च अजमांसं च मत्स्यकम् ॥ ६५ ॥

सविता सावित्रिके चैव जङ्गगन्धोदनं ततः ।
इन्द्रे बलिस्तथा दद्यादिन्द्रजये तु मुद्गकम् ॥ ६६ ॥

रुद्रे रुद्रजये चैव मांसं क्षीरबलिं ददेत् ।
चरकीघृतमेनं तु पितारि लवणं तथा ॥ ६७ ॥

तिलापिष्टं पूतना चैव गुलमांसं पापराक्षसी ।
स्फटितः कृतोपवासं च एवमेव बलिं ददेत् ॥ ६८ ॥

देवतानामसंयुक्तं माषमुद्गसमन्वितम् ।
आचार्यश्च शुचिर्भूत्वा उपवाससमन्वितम् ॥ ६९ ॥

नववस्त्रपरीधानं सोष्णीषं सोत्तरीयकम् ।
प्रणवाद्येन संयुक्तं बलिं दद्याच्छिवद्विजः ॥ ७० ॥

आचार्यं पूजयित्वा तु वस्त्रधान्यादिकाञ्चनैः ।
एवमेव महाशान्तिस्सर्वसम्पत्कराय च ॥ ७१ ॥

प्। ४०)

एवं यः कुरुते मर्त्यो देवकर्मणि सारिणः ।
शिवलोकमवाप्नोति शिववन्मोदते सदा ॥ ७२ ॥

कर्षणस्य विधिः प्रोक्त आचार्यलक्षणं शृणु ॥ ७२ � ॥

इति वीरतन्त्रे षट्सहस्रसंहितायां कर्षण विधिः षष्ठः पटलः ॥ ६ ॥