०५

पुष्पाणां चैव सर्वेषां पात्राणां च तथैव च ।
विशेषं श्रोतुमिच्छामि तं मे ब्रूहि महेश्वर ॥ १ ॥

प्। २९)

यावत्पुष्पस्य सङ्ख्यानि पूजनायोग्यमेव च ।
अयोग्यानि च पुष्पाणां पत्राणां च तपोधन ॥ २ ॥

अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते ।
करवीर सहस्रेभ्यो बिल्वपत्रं विशिष्यते ॥ ३ ॥

बिल्वपत्रसहस्रेभ्यः पद्ममेकं विशिष्यते ।
पद्मपत्र सहस्रेभ्यः पुण्डरीकं विशिष्यते ॥ ४ ॥

पुण्डरीकसहस्रेभ्यः शतपत्रं विशिष्यते ।
शतपत्रसहस्रेभ्यः सहस्रपर्णं विशिष्यते ॥ ५ ॥

सहस्रपर्णसहस्रेभ्यो बकपुष्पं विशिष्यते ।
बकपुष्पसहस्रेभ्यो धुर्धूरकं विशिष्यते ॥ ६ ॥

धुर्धूरक सहस्रेभ्यो द्रोणपुष्पं विशिष्यते ।
द्रोणपुष्पसहस्रेभ्यो अपामार्गं विशिष्यते ॥ ७ ॥

अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते ।
कुशपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते ॥ ८ ॥

शमीपुष्पसहस्रेभ्यो व्याघातं तु विशिष्यते ।
व्याघातकसहस्रेभ्यः शङ्खपुष्पं विशिष्यते ॥ ९ ॥

शङ्खपुष्पसहस्रेभ्यो व्याघ्रपुष्पं विशिष्यते ।
व्याघ्रपुष्पसहस्रेभ्यः सदाभद्रं विशिष्यते ॥ १० ॥

सदाभद्रसहस्रेभ्यो (विशिष्टा) कृष्णगन्धिका ।

प्। ३०)

बृहत्पुष्पसहस्रेभ्यो श्वेतार्कं (तु) विशिष्यते ।
श्वेतार्कस्य सहस्रेभ्यो बृहद्द्रोणं विशिष्यते ॥ १२ ॥

बृहद्द्रोणसहस्रेभ्यो नीलोत्पलं विशिष्यते ।
स्वर्णधुर्धूरपुष्पं तु नीलोत्पलसमोद्भवैः ॥ १३ ॥

प्रक्षाल्य पञ्चगव्येन नीलोत्पलं तु काञ्चनम् ।
पुनः पूजाः प्रकर्तव्याः सर्वलोकहिताय च ॥ १४ ॥

जपापुष्पं कदम्बं च * * पुन्नागमेव हि ।
द्रोणपुष्प सहस्रेभ्यो ज्ञेयं विष्णुक्रान्तिं च पस्तथा ॥ १५ ॥

अजाय मल्लिका जाति धूर्धूरसञ्ज्ञेयं चम्पकं तु कटस्तथा ।
बिल्वपत्रसमं ज्ञेयं * * * * * * * * ॥ १६ ॥

केरब्जमालती चैव करवीरसमं भवेत् ।
पद्मपुष्पसमं ज्ञेयं वकुलं प * * * * ॥ १७ ॥

अशोकं श्वेतमन्दारं व्याघातं च समं भवेत् ।
श्वेतङ्कुसुम * रक्तोत्पलमपामार्गं भवेत् ॥ १८ ॥

पटकारत्तकस्वा च व्याघ्रपुष्पसमं भवेत् ।
गन्धपुष्पी गन्धपुष्पा पद्मपुष्पसमं भवेत् ॥ १९ ॥

कोरण्डकस्य पुष्पं च अपामार्गसमं भवेत् ।
वेदसी से का चोत्पलं चैव कल्हारं कृन्तकं तथा ॥ २० ॥

नीलनीलरपुष्पं च अपामार्गसमं भवेत् ।
मुसली पलाशपुष्पं च द्रोणपुष्पसमं भवेत् ॥ २१ ॥

प्। ३१)

बकपुष्पसमं ज्ञेयम् अम्बिका अत शिंशुपा ।
सूर्यावर्तं च नागं च * * * * * मेव च ॥ २२ ॥

धुर्धूरकसमा ज्ञेयां महाभद्रनृणामपि ।
वज्रं च पद्मरागं च मरकतमौक्तिकानि च ॥ २३ ॥

इन्द्रनीलं महानीलं वैडूर्यं च प्रवालकम् ।
नीलोत्पलसमा ज्ञेया सर्वरत्नानि चैव हि ॥ २४ ॥

सिङ्के * * परपालं च * * * * मेव च ।
अङ्कोलसङ्करश्चैव प्रियङ्गुश्चम्पकेव च ॥ २५ ॥

अर्कपुष्पसमायुक्तं पूजयेत्तु विशेषतः ।
पालाशपुष्पं विप्रेन्द्र रविरश्मिसमायुतम् ॥ २६ ॥

नवभाण्डे परिग्राह्य षण्मासं पूजयेच्छिवम् ।
यवगोधूमनीवार ब्रीहिवैणवकानि च ॥ २७ ॥

निष्पावमाषश्यामं च नीलमुद्रक एव च ।
अङ्कुराणि प्रकर्तव्यं पूजयेच्छिवमादरात् ॥ २८ ॥

व्याघातसममेवं तु इदमद्य शृणुष्व यः ।
कदम्बार्जुन सिन्दूरं कुडुमं कुसुमानि च ॥ २९ ॥

श्वेता तु गिरिकर्णी च नन्द्यावर्तं च शारिबा ।
कदलीपुष्पपुन्नाग नागनन्दी तथैव च ॥ ३० ॥

गिरिवैरिं च पत्रं च करवीरसमं भवेत् ।
मधूक धूर्तपुष्पं च करपाद्धिर्धवानि वा ॥ ३ ॥

प्। ३२)

पद्मश्चैव विप्रेन्द पद्मपुष्पसमं भवेत् ।
गिरिरागककौ गिरिककच धुर्धूरक समं भवेत् ॥ ३२ ॥

निर्गन्धान्युग्रगन्धानि कुसुमानि विवर्जयेत् ।
पुष्पाणामप्यलाभे तु फलानां पूजयेत्ततः ॥ ३३ ॥

फलानाप्यभावे तु मूलेनैव तु पूजयेत् ।
मूलानामप्यभावे तु भक्त्या चैव तु पूजयेत् ॥ ३४ ॥

एवमेवं क्रमेणैव पूजयेद्देव कर्मणि ।
केतकीमाधवीपद्मं मधुधी पूजयेत्सदा ॥ ३५ ॥

शिरीषसद्बन्धूक किं शुकद्युनितं तथा ।
नीलकण्ठी च मेवश्च तलपोटकमेव च ॥ ३६ ॥

मत्स्याज्याक्षी च शिग्रुश्च वर्जयेल्लिङ्गकर्मणि ।
एवमेवं क्रमेणैव यो नरः पूजयेत्सदा ॥ ३७ ॥

स मुक्तः सर्वपापेभ्यो रुद्रलोकं च गच्छति ।
पुष्पाध्यायमिदं प्रोक्तं कर्षणस्य विधिं शृणु ॥ ३८ ॥

इति वीरतन्त्रे षट्सहस्रसंहितायां पुष्पलक्षणं पञ्चमः पटलः ॥ ५ ॥