०४

अज्ञानार्णवमग्नानां सर्वेषां प्राणिनामयम् ।
सर्वपाप(प्रणाशा)र्थं मन्त्रोद्धारः कथं भवेत् ॥ १ ॥

ईश्वर उवाच ॥

मन्त्रोद्धारं प्रवक्ष्यामि शृणुष्व कमलासन ।
मननं सर्वमन्त्राणां त्राणं संसारसागरात् ॥ २ ॥

मननत्राणधर्मिभ्यां मन्त्रमित्यभिधीयते ।
महेन्द्रे मलये चैव सह्ये विन्ध्ये तथैव च ॥ ३ ॥

केदारे निर्मदे चैव गये वापि विशेषतः ।
गङ्गाकूले समुद्रे वा प्रभासे वा विशेषतः ॥ ४ ॥

प्। १९)

गवां गोष्ठे विशेषेण नद्यां वापि तटागके ।
अन्येषु शुद्धदेशेषु मन्त्रमुद्धारयेत्क्रमात् ॥ ५ ॥

हस्तमात्रं खनित्वा तु पूरयेत्तेन पांसुना ।
स्नानं कृत्वा तु विप्रेन्द्र तत्स्थाने मन्त्रमुद्धरेत् ॥ ६ ॥

पुण्याहं वाचयेत्तत्र पवमानं समुच्चरन् ।
आचार्यस्तु शुचिर्भूत्वा कृतोपवाससंयुतम् ॥ ७ ॥

पूर्वं नेत्राधिवासं तु प्रभाते मन्त्रमुच्चरन् ।
रत्नेन * * * विप्र अक्षरं लेखयेद्धृदा ॥ ८ ॥

शिवतत्वे परे सूक्ष्मे बिन्दुरुत्पद्यते तदा ।
बिन्दोर्नादस्समुत्पन्नस्तस्माच्छक्तिरजायत ॥ ९ ॥

शक्तेस्तु वाग्भवो जातो वाचः षोडषकाः कलाः ।
कलाया व्यञ्जनं जातं व्यञ्जना * * मन्त्रकः ॥ १० ॥

सान्तं सर्वगतं शून्यं शिवरूपमिति स्मृतम् ।
अवर्गं च कवर्गं च चवर्गं च टवर्गकम् ॥ ११ ॥

तवर्गं च पवर्गं च यवर्गं च शवर्गकम् ।
आदिवर्गेषु ऋ-ऋच चतुरक्षरं वर्जयेत् ॥ १२ ॥

वर्जयेच्चैव विप्रेन्द्र अवर्गं च दशाक्षरम् ।
पूर्वं हृस्वं समाख्यातं परं दीर्घमिहोच्यते ॥ १३ ॥

हृस्वा ब्रह्मसमाख्याता दीर्घा अङ्गानि चोच्यते ।
सद्योजातं तु गोक्षीर सदृशं वर्णमुच्यते ॥ १४ ॥

प्। २०)

जपापुष्पनिभं वाममघोरं त्वञ्जनप्रभम् ।
पुरुषं कुङ्कुमप्रख्यम् ईशानं स्फटिकं भवेत् ॥ १५ ॥

ब्रह्मवर्णाः समाख्याता रूपं वक्ष्यामि तेऽधुना ।
द्विनेत्रां चारुवदनां सुस्तनां च सुयौवनाम् ॥ १६ ॥

द्विपादं च द्विहस्तं च पञ्चब्रह्ममिहोच्यते ।
षदङ्गं सम्प्रवक्ष्यामि हृदयं च शिरस्तथा ॥ १७ ॥

शिखा कवचनेत्रं च अस्त्रमन्त्रेण संयुतम् ।
इन्दुधूम्रं सुवर्णं च किञ्चिद्धूम्रं तथैव च ॥ १८ ॥

रवेर्निभं युगान्तानि समप्रख्यं पितामह ।
षडङ्गानां च सर्वेषां मन्त्रं वर्णं विचिन्तयेत् ॥ १९ ॥

द्विनेत्राश्च द्विहस्ताश्च द्विपादेन समन्विताः ।
जटामकुटसंयुक्तां यज्ञोपवीतसंयुताम् ॥ २० ॥

शुक्लवस्त्रसमायुक्तं षडङ्गानामिहोच्यते ।
स्त्रीरूपं भावयेद्ब्रह्मा षडङ्गं पुरुषो भवेत् ॥ २१ ॥

जपाकुसुमसङ्काशं कुन्दपुष्पनिभं भवेत् ।
अतसीपुष्पसङ्काशं पद्मपुष्पसमं भवेत् ॥ २२ ॥

नीलजीमूतसम्प्रख्यं कुङ्कुमप्रभमेव च ।
रक्तपङ्कजसंयुक्तं भिन्नाञ्जनसमप्रभम् ॥ २३ ॥

विद्येश्वराणां वर्णं च तव स्नेहात्प्रकाशितम् ।
अक्षरस्यादिसंयुक्तं बिन्दुं चैव समायुतम् ॥ २४ ॥

प्। २१)

अष्टवर्गात्तृतीयं तु षष्ठस्वरसमन्वितम् ।
शिवविष्णुसमारूढं प्रथमं चाष्टवर्गके ॥ २५ ॥

आदिवर्गात्तृतीयं तु बिन्दुनादसमन्वितम् ।
प्रथमस्याकादसङ्गृह्य शिवविष्णुसमायुतम् ॥ २६ ॥

एकरू * * तत्वं तु शिवविष्णुसमायुतम् ।
पञ्चमस्य प्रथमं स्याद्वितीयं सप्तमस्य च ॥ २७ ॥

प्रथमस्य द्वितीयं तु शिवविष्णु समायुतम् ।
अष्टमस्यादि समायुक्तं मायानलसमन्वितम् ॥ २८ ॥

शिवविष्णुसमारूढम् अष्टमस्यादि संयुतम् ।
प्रथमस्य द्वितीयं तु बिन्दुनादसमन्वितम् ॥ २९ ॥

विद्येश्वराणां बीजानि क्रमशो वक्ष्यतेऽधुना ।
गणाम्बिका च चण्डेशो नन्दीशश्च तथैव च ॥ ३० ॥

महाकालश्च वृषभो विघ्नेशश्च तथैव च ।
भृङ्गीशश्च महासेनः स्वनामाद्यक्षरैर्युतम् ॥ ३१ ॥

इन्द्रश्चाग्निर्यमश्चैव निर्-ऋतिर्वरुणस्तथा ।
वायुस्सोमस्तथेशानो ब्रह्मा विष्णुश्च संयुतम् ॥ ३२ ॥

स्वनामाद्येन बीजेन बिन्दुनाद समन्वितम् ।
वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ॥ ३३ ॥

गदा त्रिशूलं चक्रं च पद्मं चैव दशायुधम् ।
स्वनामाद्येन बीजेन बिन्दुनादसमन्वितम् ॥ ३४ ॥

प्। २२)

दर्पणं पूर्णकुम्भं च वृषभं युग्म चामरम् ।
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ॥ ३५ ॥

स्वनामाद्येन बीजेन बिन्दुनादसमन्वितम् ।
षष्ठवर्गाद्द्वितीयं तु चतुर्थाद्येन संयुतम् ॥ ३६ ॥

द्वितीये पञ्चमं चैव आद्याक्षरसमायुतम् ।
विसर्गेण समायुक्तं पाशुपतास्त्रमुच्यते ॥ ३७ ॥

ॐ चीचिरिक्षितुञ्चैव क्षुरिकास्त्रमिहोच्यते ।
बिन्दुनादसमायुक्तमाचार्यं बीजमुच्यते ॥ ३८ ॥

भूतानां च पिशाचानां गन्धर्वयक्षरक्षसाम् ।
मात्राणां राक्षसानां च * * * गणमेव च ॥ ३९ ॥

स्वनामाद्यक्षरं विप्र बिन्दुनाद समन्वितम् ।
मूर्तिपानां च शिष्याणामेवमेव क्रमेण तु ॥ ४० ॥

अकारादि पञ्चवर्गं तु पञ्चाक्षरमिहोच्यते ।
यकारादिद्वयं वर्गं चतुरक्षरमुच्यते ॥ ४१ ॥

वकारद्वयन्ताद्वस्य बिन्दुनादसमन्वितम् ।
अनन्तासनं तद्विप्रेन्द्र योगासनं तथैव च ॥ ४२ ॥

सिंहासनं तथैव स्यात्पद्मासनमतः परम् ।
विमलासनं तु विप्रेन्द्र स्वनामाद्यक्षरैर्युतम् ॥ ४३ ॥

बिन्दुनादसमायुक्तं तत्तन्मन्त्रमिहोच्यते ।
आग्नेयमण्डलं चैव विन्यसेत्तु विशेषतः ॥ ४४ ॥

प्। २३)

तत्वस्य मण्डलं चैव रजोमण्डलमेव च ।
तत्वामण्डलमेवोक्तं स्वनामाद्यक्षरैर्युतम् ॥ ४५ ॥

बिन्दुनादसमायुक्तं तत्तन्मन्त्रमिहोच्यते ।
व्योमव्यापि महामन्त्रं षण्णवत्यक्षरैर्युतम् ॥ ४६ ॥

अस्मिन्तन्त्रे च विप्रेन्द्र कथयामि तवाखिलम् ।
द्वादशस्य पदस्य बहिश्यद्विवितथा पुनम् ॥ ४७ ॥

चतुरावणैर्युक्तमभ्य नरादीवाह्यकम् ।
मन्त्रमुच्चार्यते विप्र सर्वकामानवाप्नुयात् ॥ ४८ ॥

भूतान्तं चैव भूतानां भूतभूतान्तमेव च ।
शिवविष्णुसमारूढं शिवमन्त्रमिहोच्यते ॥ ४९ ॥

चक्रमध्ये स्थितं विप्र सर्वलोकहिताय च ।
व्योमश्च रूपाश्च वश्चैवं रूपायश्वत एव च ॥ ५० ॥

घोरं च देश्वतश्वेमश्वराश्च त एव च ।
तश्च यश्चैव ध्वायश्च पुकमश्वदृदृमश्च च ॥ ५१ ॥

मश्च योश्च रसश्च मूश्चमी ऋषयश्च च ।
दश्च पाश्च विनेरश्च नेश्च मिश्च न एव च ॥ ५२ ॥

एश्च नश्च विकारश्च म्राश्च वायश्च एव च ।
एवं क्रमेण विप्रेन्द्र विन्यसेदस्त्रमन्त्रवित् ॥ ५३ ॥

वश्च तश्च समूधिश्च विश्चैव ॐ वच ।
निश्चयश्च गीपश्चैव तुमगुश्च जातश्च भाश्च त ॥ ५४ ॥

प्। २४)

गर्गणश्च स्यनरोगाश्च तश्च नश्च इमा एव च ।
व्योश्चश्चैव ये योश्च ओमश्च धश्च एव च ॥ ५५ ॥

अधश्च योयेश्च मोश्चैव वश्च सश्च स एव च ।
विश्च सर्व ॐ भ्रश्च जश्चेदीरिश्च वायनिश्च ॥ ५६ ॥

प्रदक्षिणक्रमेणैव विन्यसेद्देशिकः सदा ।
एवं क्रमेण विन्यासं सर्वकामानवाप्नुयात् ॥ ५७ ॥

व्योमव्यापीरितं मन्त्रम् ऋषिछन्दो देवतां शृणु ।
अगस्त्येन समायुक्तं बृहतीच्छन्दसा युतम् ॥ ५८ ॥

ईश्वरेण समायुक्तं व्योमव्यापिमिहोच्यते ।
वसिष्ठेन समायुक्तं प्रकृतिच्छन्दसा युतम् ॥ ५९ ॥

शिवरूपेण संयुक्तं शिवमन्त्रमिहोच्यते ।
आचार्यस्य तु बीजस्य ऋषिच्छन्दो देवता ॥ ६० ॥

कौशिकः काश्यपश्चैव भारद्वाजश्च गौतमः ।
अत्रिणा च समायुक्तं पञ्चवक्त्रेषु दीक्षिताः ॥ ६१ ॥

तत्तत्कुलेषु जातानां तत्तत्प्रभृतिकदा हृतम् ।
जगती शक्वरी चैव अनुष्टुब्त्रिष्ठुभेव च ॥ ६२ ॥

प्रकृतिश्चैव विप्रेन्द्र छन्दसानामिहोच्यते ।
आगमेव तु बीजानि प्रवक्ष्याम्यनुपूर्वशः ॥ ६३ ॥

द्वितीयस्यादिसंयुक्तं द्वितीयस्वरसंयुतम् ।

प्। २५)

कामिकाक्षरमेवोक्तं योगजस्य शृणुष्वथ ।
सप्तमस्यादिसंयुक्तं त्रयोदश समन्वितम् ॥ ६५ ॥

बिन्दुनादसमायुक्तं योगजाक्षरमुच्यते ।
तृतीयस्यादिमं गृह्य सप्तमस्य तृतीयकम् ॥ ६६ ॥

आमध्य च चतुर्थं तु बिन्दुनादसमन्वितम् ।
चिन्त्याक्षरमिदं प्रोक्तं द्वितीयस्यादिसंयुतम् ॥ ६७ ॥

सप्तमस्य द्वितीयं तु बिन्दुनादसमन्वितम् ।
कारणाख्यमिदं प्रोक्तं प्रथमस्यादि संयुतम् ॥ ६८ ॥

आकाशबीजसंयुक्तं सप्तमस्य द्वितीयकम् ।
बिन्दुनादसमायुक्तमजिताक्षरमुच्यते ॥ ६९ ॥

पञ्चमस्य तृतीयं तु सप्तमस्यादिसंयुतम् ।
द्वादशाक्षरसंयुक्तं बिन्दुनादसमन्वितम् ॥ ७० ॥

दीप्तबीजमिदं प्रोक्तमष्टवर्गद्वितीयकम् ।
द्वादश स्वर संयुक्तं बिन्दुनादसमन्वितम् ॥ ७१ ॥

सूक्ष्मबीजमिदं प्रोक्तम् अष्टवर्गद्वितीयकम् ।
सप्तमस्य द्वितीयं तु मायाबीजेन संयुतम् ॥ ७२ ॥

बिन्दुनादसमायुक्तं सहस्रं चोच्यते मया ।
अन्त्याक्षरसमायुक्तमाद्यक्षरसमन्वितम् ॥ ७३ ॥

बिन्दुनादसमायुक्तमंशुमानक्षरं भवेत् ।
अष्टवर्गात्तृतीयं तु अनलेन समायुतः ॥ ७४ ॥

प्। २६)

पञ्चमस्वरसंयुक्तं बिन्दुनादसमन्वितम् ।
सुप्रभेदाक्षरं प्रोक्तं सप्तवर्गस्य चादिकम् ॥ ७५ ॥

तृतीयस्वर संयुक्तं बिन्दुनादसमन्वितम् ।
विजयं चैव विप्रेन्द्र पञ्चमस्यान्तसंयुतम् ॥ ७६ ॥

मायानलसमायुक्तं बिन्दुनादसमन्वितम् ।
निश्वासतन्त्र मेवोक्तमष्टवर्गतृतीयकम् ॥ ७७ ॥

सप्तमस्य चतुर्थं तु मायाबीजसमन्वितम् ।
बिन्दुनादसमायुक्तं वीरतन्त्रमिहोच्यते ॥ ७८ ॥

सप्तमस्यादिमं बीजं मायानलसमन्वितम् ।
अक्षराणां परश्रेष्ठं रौरवं प्रोच्यते मया ॥ ७९ ॥

षष्ठमस्यान्तिमं बीजम् अन्त्याक्षरसमायुतम् ।
मायानलसमायुक्तं मकुटाक्षरमुच्यते ॥ ८० ॥

सप्तमस्यादिमं बीजं मायानलसमन्वितम् ।
बिन्दुनादसमायुक्तं विमलं चैव कथ्यते ॥ ८१ ॥

तृतीयस्यादिमं प्रोक्तं मायानलसमन्वितम् ।
बिन्दुनादसमायुक्तं चन्द्रज्ञानमिहोच्यते ॥ ८२ ॥

षष्ठवर्गतृतीयं तु द्वादशस्वरभूषितम् ।
बिन्दुनादसमायुक्तं बिम्बस्याक्षरमुच्यते ॥ ८३ ॥

अष्टवर्गादिमं बीजं द्वादशैवानलो भवेत् ।
बिन्दुनादसमायुक्तं प्रोद्गीतं च मयोच्यते ॥ ८४ ॥

प्। २७)

सप्तमस्य तृतीयं तु एकादशेन संयुतम् ।
बिन्दुनादसमायुक्तं ललितस्य तु मन्त्रकम् ॥ ८५ ॥

अष्टवर्गतृतीयं तु सप्तस्वरसमायुतम् ।
अनलेन समायुक्तं सिद्धतन्त्रमिहोच्यते ॥ ८६ ॥

अष्टवर्गात्तृतीयं तु अष्टमस्वरभूषितम् ।
सप्तमस्य द्वितीयेन बिन्दुनादसमन्वितम् ॥ ८७ ॥

सन्तानस्य तु मन्त्रोयम् अष्टवर्गादिसंयुतम् ।
द्वादशस्वरसंयुक्तं बिन्दुनादसमन्वितम् ॥ ८८ ॥

शर्वोद्गीतमिदं प्रोक्तं षष्ठवर्गादिसंयुतम् ।
मायानलसमायुक्तं बिन्दुनाद समन्वितम् ॥ ८९ ॥

पारमेश्वरमेवोक्तं द्वितीयस्यादिसंयुतम् ।
द्वादशस्वरसंयुक्तं बिन्दुनादसमन्वितम् ॥ ९० ॥

किरणस्याक्षरं प्रोक्तं सप्तमस्य चतुर्थकम् ।
मायानलसमायुक्तं बिन्दुनादसमन्वितम् ॥ ९१ ॥

वातुलस्य तु मन्त्रोऽयमष्टाविंशति भेदकम् ।
ऋषिच्छन्दोदैवतान्वक्ष्ये आगमानां विशेषतः ॥ ९२ ॥

वसिष्ठेन समायुक्तं शक्वरीच्छन्दसायुतम् ।
तवरूपेण संयुक्तं कामिकादीनि सप्त च ॥ ९३ ॥

सहस्रादीनि सप्तैते व्यासेनैव समायुतम् ।
जगतीच्छन्दसायुक्तं विष्णुस्तत्राधिदैवतम् ॥ ९४ ॥

प्। २८)

एवमेवक्रमेणैव मन्त्राणां प्रोच्यते मया ।
अदीक्षितं न श्रोतव्यं न देयं न प्रकाशतः ॥ ९५ ॥

शिष्याणां चैव दातव्यं समासात्कथयामिते ।
अष्टवर्गतृतीयान्ता आद्यक्षरसमायुतम् ॥ ९६ ॥

अष्टवर्गात्तृतीयं तु आद्याक्षर विवर्जितम् ।
शक्तिबीजमिदं प्रोक्तं सर्वकर्मार्थसाधनम् ॥ ९७ ॥

सदाशिवस्य रूपं तु वक्ष्यामि शृणु तत्वतः ।
शुद्धस्फटिक सङ्काशं त्र्यक्षं दशभुजैर्युतम् ॥ ९८ ॥

पञ्चवक्त्रयुतं देवं जटामकुटमण्डितम् ।
दिव्याम्बरधरं देवं सर्वाभरणभूषितम् ॥ ९९ ॥

परशुं खड्गवज्रं च अभयं दक्षिणे करे ।
पाशं चाङ्कुशघण्टां च नागवह्निं च वामके ॥ १०० ॥

पद्मासनसमासीनो नेत्रैः पञ्चदशैर्युतम् ।
एतत्सकलमाख्यातं धर्मकामार्थमोक्षदम् ॥ १०१ ॥

मन्त्रोद्धारं मया प्रोक्तं पुष्पाणां च शृणुष्वथ ।

इति वीरतन्त्रे षट्सहस्र संहितायां मन्त्रोद्धारश्चतुर्थः पटलः ॥ ४ ॥