०३

प्। १५)

पितामह उवाच ।

नमस्कृत्य जगन्नाथं पर्यपृच्छत्पितामहः ।
श्रीपञ्चाक्षरकल्पं च तत्सर्वं वद मे प्रभो ! ॥ १ ॥

ईश्वर उवाच ॥

तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ।
नमस्कारेण संयुक्तं शिव इत्यक्षरद्वयम् ॥ २ ॥

आदिवर्गचतुर्थ्यन्तं यवर्गं च द्वितीयकम् ।
तद्वर्गान्तं सप्तमं स्यात्पञ्चाक्षरमिति स्मृतम् ॥ ३ ॥

एतन्मन्त्रमनुस्मृत्य बिन्दुनादसमायुतम् ।
चतुर्थ्या तु समायुक्तं पञ्चाक्षरमिति स्मृतम् ॥ ४ ॥

नकारं च मकारं च शिकारं च वकारकम् ।
यकारेण समायुक्तं पञ्चाक्षरमिहोच्यते ॥ ५ ॥

प्रणवेन समायुक्तं पञ्चाक्षरमिति स्मृतम् ।
ऋग्वेदो जायते विप्र नकाराक्षरमुच्यते ॥ ६ ॥

मकारस्तु यजुर्वेदः शिकारः सामवेदकः ।
अथर्ववेदे वाकारं यकारमितिहासके ॥ ७ ॥

नकारं पृथिवी ज्ञेयं मकारं चाप एव च ।
शिकारं तैजसमायुक्तं वाकारं वायुमेव च ॥ ८ ॥

यकारं व्योमसम्भूतं तत्तद्भूतेषु संस्थितम् ।
नकारं श्वेतवर्णं तु ईश्वरेण समायुतम् ॥ ९ ॥

सावित्रीछन्दसायुक्तं गौतमेन समायुतम् ।
स्थानं सद्योमुखं चैव नकाराक्षरमुच्यते ॥ १० ॥

प्। १६)

मकारं पीतवर्णं तु ब्रह्मसूत्राधिदैवतम् ।
अनुष्ठुभ्छन्दसायुक्तं मन्त्रिणा च समायुतम् ॥ ११ ॥

स्थानं च वामदेवं स्यान्मकाराक्षरमुच्यते ।
वाकारं रक्तवर्णं तु स्कन्दस्तत्राधिदैवतम् ॥ १२ ॥

बृहती छन्दसायुक्तम् अङ्गिरा च समन्वितम् ।
पुरुषस्य मुखं स्थानं वाकाराक्षरमुच्यते ॥ १३ ॥

यकारं शुक्लवर्णं तु विघ्नेशोऽत्राधिदैवतम् ।
सावित्री छन्दसा युक्तं भारद्वाजेन संयुतम् ॥ १४ ॥

ईशानस्य मुखस्थानं यकाराक्षर मुच्यते ।
पञ्चाक्षरमिति प्रोक्तं प्रणवं शृणु तत्वतः ॥ १५ ॥

अकारश्च उकारश्च मकारश्च त्रिधा भवेत् ।
अकारं ब्रह्मदैवत्यमुकारं विष्णुदैवतम् ॥ १६ ॥

मकारं महेश्वरस्तत्र अधिदेवाः प्रकीर्तिताः ।
ऋग्वेदस्तु अकारः स्याद्यजुर्वेदमुकारकम् ॥ १७ ॥

मकारं सामवेदं तु इदमन्यच्छृणुष्व तु ।
अकारं सात्विकं विद्यादुकारं राजसं भवेत् ॥ १८ ॥

मकारं तामसं ज्ञेयम् अकारं शान्तिकं भवेत् ।
उकारं पौष्टिकं विद्यान्मकारमाभिचारकम् ॥ १९ ॥

अकारं श्वेतवर्णं स्यादुकारं रक्तवर्णकम् ।
मकारं पीतवर्णं स्यादेवमेव क्रमेण तु ॥ २० ॥

प्। १७)

गुणेन सन्धिकारं स्यादोङ्कारं शिवमुच्यते ।
ओङ्कारेण समायुक्तं षडक्षरमिहोच्यते ॥ २१ ॥

रुद्राक्षेण जपं कुर्यात्पञ्चाक्षेण समायुतम् ।
अङ्गुल्या प्रजपेदेकं पञ्चधा मृण्मयं भवेत् ॥ २२ ॥

रेखादष्टगुणं प्रोक्तं बीजैर्दशगुणं भवेत् ।
शतसङ्ख्यैस्तु विज्ञेयं प्रवालैस्तु सहस्रकम् ॥ २३ ॥

स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमेव च ।
पद्माक्षैः कोटिगुणितं सौवर्णैर्दशकोटिकम् ॥ २४ ॥

शतकोटिक * * ल्याद्रुद्राक्षैः स्यादनन्तकः ।
न्यासं कुर्यात्ततो मन्त्री पञ्चाक्षरमिहोच्यते ॥ २५ ॥

अङ्गुष्ठादिकनिष्ठान्तं सृष्टिन्यासमुदाहृतम् ।
कनिष्ठाद्यङ्गुष्ठान्तं संहारन्यासमुच्यते ॥ २६ ॥

यकारं करतले विप्र सङ्कुर्यादन्ततो बुधः ।
करन्यासं पुराकृत्वा अङ्गन्यासं ततः शृणु ॥ २७ ॥

यकारं शिरसान्यस्य वाकारं तु ललाटके ।
शिकारं कर्णदेशे तु मकारं हृदये न्यसेत् ॥ २८ ॥

नकारं नाभिदेशे तु विन्यसेत्तु विशेषतः ।
सर्वाङ्गेषु च विप्रेन्द्र ओङ्कारं विन्यसेत्ततः ॥ २९ ॥

सहस्रं वा तदर्धं वा त्वष्टोत्तरशतं तु वा ।
पञ्चाशत्पञ्चविंशैर्वा जपं कुर्याद्विशेषतः ॥ ३० ॥

प्। १८)

प्रासादेन तु मन्त्रेण हृदयेन समन्वितम् ।
जपं कुर्यात्तु विप्रेन्द्र प्रणवेन समायुतम् ॥ ३१ ॥

गृहेषु फलमेकं स्याद्गोष्ठे दशगुणं भवेत् ।
नदीतीरे शतं विद्यात्सहस्रं देवतालये ॥ ३२ ॥

जप्त्वा विंशतिभिर्लक्षैः स्वयं भूपदमाप्नुयात् ।
पञ्चविंशन्ततो लक्षैर्वैष्णवं पदमाप्नुयात् ॥ ३३ ॥

लक्षलक्षं ततो जप्त्वा रौद्रं पदमवाप्नुयात् ।
प्रविशेच्छिवमीशानं * * संसार सागरात् ॥ ३४ ॥

श्रीपञ्चाक्षरमेवोक्तं मन्त्रोद्धारं ततः शृणु ।

इति वीरतन्त्रे षट्सहस्रसंहितायां श्रीपञ्चाक्षरकल्पस्तृतीयः पटलः ॥ ३ ॥