०२

प्रणम्य भगवन्तं हि पर्यपृच्छत्पितामहः ।
तन्त्राणामुद्भवं किञ्चित्तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥

ईश्वर उवाच ।

तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ।
तनोति विपुलानर्थान्तत्वमन्त्र समाश्रितान् ॥ २ ॥

प्। ७)

त्राणं च कुरुते पुंसां तेन तन्त्रमिति स्मृतम् ।
कामिकं योगजं चिन्त्यं कारणं चाजितं तथा ॥ ३ ॥

दीप्तं सूक्ष्मं सहस्रं च अंशुमान्सुप्रभेदकम् ।
विजयं चैव निश्वासं स्वायम्भुवं तथानलम् ॥ ४ ॥

वीरं च रौरवं चैव माकुटं विमलं तथा ।
चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा ॥ ५ ॥

सिद्धं सन्तानं शर्वोक्तं पारमेश्वरमेव च ।
किरणं वातुलं चैव अष्टाविंशतिसंहिताः ॥ ६ ॥

कामिकादीनि तन्त्राणि तेषां भेदं ततः शृणु ।
कामिकं चैव विप्रेन्द्र त्रिविधं भेदमुच्यते ॥ ७ ॥

योगजं च विशेषेण पञ्चभेदेन * च्यते ।
चिन्त्यं च षड्विधं प्रोक्तं सप्तधा कारणं भवेत् ॥ ८ ॥

अंशुमान्द्वादशं भेदं प्रोच्यते कमलासन ! ।
सुप्रभेदस्य विख्यातं भेदमन्यन्न विद्यते ॥ ९ ॥

शिवभेदं मया प्रोक्तं रुद्रभेदं शृणुष्वथ ।
विमलं च विशेषेण अंशुमान्सुप्रभेदकम् ॥ १० ॥

विजयं चैव निश्वासं स्वायम्भुवमथानलम् ।
वीरं च रौरवं चैव मकुटं विमलं तथा ॥ ११ ॥

चन्द्रज्ञानं च बिम्बं च शेषाणां भेदमुच्यते ।
स्वायम्भुवे विशेषेण तद्विधेन प्रवक्ष्यते ॥ १२ ॥

प्। ८)

आग्नेयमेकरुद्रं तु भेदमन्यन्न विद्यते ।
वीरतन्त्रं च विप्रेन्द्र त्रयोदशं भेदमुच्यते ॥ १३ ॥

रौरवं षट्सुभेदेन प्रोच्यते सकलं मया ।
मकुटाख्यं महातन्त्रं द्विविधेनाभिधीयते ॥ १४ ॥

विमलाख्य महातन्त्रं चतुर्दशविधं भवेत् ।
चन्द्रज्ञानं च बिम्बं च चतुर्दशविधं भवेत् ॥ १५ ॥

मुखबिम्बं च विप्रेन्द्र भेदं पञ्चदशं भवेत् ।
प्रोद्गीताख्यं महातन्त्रं षोडशं भेदमुच्यते ॥ १६ ॥

ललिताख्यं महातन्त्रं त्रिधा भेदेनचोच्यते ।
सिद्धतन्त्रं च विप्रेन्द्र चतुर्विधेन चोच्यते ॥ १७ ॥

सन्तानाख्यमहातन्त्रं सप्तभेदेन चोच्यते ।
शर्वोक्तं तु महातन्त्रं पञ्चभेदेन चोच्यते ॥ १८ ॥

पारमेश्वर तन्त्रं तु सप्तभेदेन वक्ष्यते ।
किरणाख्यं महातन्त्रं नवधा भेदमुच्यते ॥ १९ ॥

वातुलं तु महातन्त्रं भेदं द्वादशमुच्यते ।
तन्त्रकायं प्रवक्ष्यामि तव स्नेहाद्विशेषतः ॥ २० ॥

हस्तौ च पादौ च ऋज्वागातस्थितं भवेत् ।
जटामकुटसंयुक्तं देववन्मुखमुच्यते ॥ २१ ॥

शुक्लवस्त्रपरीधानं शुक्लयज्ञोपवीतिनम् ।
मुखं प्रति त्रिणेत्रं स्यात्सर्वाङ्गलक्षणैर्युतः ॥ २२ ॥

प्। ९)

पदमूर्ध्वस्थितं देवं सर्वाभरणभूषितम् ।
तत्र कायं महाप्रोक्तं सर्वकामार्थसाधनम् ॥ २३ ॥

पुस्तकस्य प्रमाणं च शृणुष्व कमलासन ।
चतुर्दशाङ्गुलं वापि पञ्चदशाङ्गुलं तु वा ॥ २४ ॥

षोडशाङ्गुलमेवं वा सप्तदशाङ्गुलं तु वा ।
अष्टादशाङ्गुलं वापि नवदशाङ्गुलं तु वा ॥ २५ ॥

अथवा विंशतिर्वापि एकविंशतिरेव वा ।
द्वाविंशतिर्वा विप्रेन्द्र कारयेद्देशिकोत्तमः ॥ २६ ॥

एवं पुस्तकं चैव मानाङ्गुलेन कारयेत् ।
उत्सेधं चाष्टधा हित्वा एकाङ्गुलं चैव विस्तरम् ॥ २७ ॥

विस्तारार्धं घनं प्रोक्तं पार्श्वौ कम्पदयेण्यजेत् ।
त्रिभागं तु चतुर्भागं मध्ये सुषिरमुच्यते ॥ २८ ॥

वसुभिर्गुणितं तत्रास्विभिश्च हरेत्ततः ।
शेषमायमिति प्रोक्तं गुणैरेव विवर्जयेत् ॥ २९ ॥

हरेच्चतुर्दशेनैव शेषं व्यय मिहोच्यते ।
पदं प्रतिगुणे वृद्धिरष्टभिर्ह्रासयेत्ततः ॥ ३० ॥

शेषं योनिरितिख्यातमष्टाभिर्वर्धितं पदम् ।
सप्तविंशतिभिर्ह्रासं लब्धमिष्टमिति स्मृतम् ॥ ३१ ॥

शेषं नक्षत्रमेवोक्तमष्टाभिर्व्यर्धितं पदम् ।
त्रिंशद्भिर्ह्रासयेत्तानि शेषं तिथिरिहोच्यते ॥ ३२ ॥

एवं पुस्तकमानं तु आद्य व्यायदिकं शृणु ।
लब्धोच्चं चैव विप्रेन्द्र मानाङ्गुलेन भाजयेत् ॥

एकाङ्गुलं पदं प्रोक्तं हीनाङ्गुलं च वर्जयेत् ।
समं चेत्तत्परिग्राह्य मायव्ययमिहोच्यते ॥

प्। १०)

अष्टाभिर्वृध्य तं चैव सप्तभिर्ह्रासयेत्ततः ।
शेषं वारमिति प्रोक्तम् आयं व्ययं च योनि च ॥ ३३ ॥

आयुष्यं चैव नक्षत्रं तिथिवारमुदाहृतम् ।
आयाधिकं व्ययं हीनं सम्पत्करमिहोच्यते ॥ ३४ ॥

आयहीने व्ययाधिक्ये दोषाकरमिहोच्यते ।
तस्मात्सर्वप्रयत्नेन आयहीनं न कारयेत् ॥ ३५ ॥

ध्वजसिंहं च वृषभो हस्ति चेध्वच्चनाय च ।
धू?म्रश्वा गर्दभं काको दोषान्येतानि वर्जयेत् ॥ ३६ ॥

यजमानस्य ऋक्षेण नक्षत्रं चानुकूलकम् ।
एवं परीक्ष्य बहुधा कर्तव्यं पुस्तकं परम् ॥ ३७ ॥

ऋषिच्छन्दोधिदेवानां वक्ष्ये तु कमलासन ।
विश्वामित्रोऽथ वाल्मीकिः काश्यपश्चाङ्गिरास्तथा ॥ ३८ ॥

गौतमो मुद्गलो गार्ग्यो वसिष्ठश्चोशनास्तथा ।
चतुर्दशाङ्गुलादीनि क्रमाद्विन्यस्य देहिनः ॥ ३९ ॥

त्रिष्टुभचैलानुप्रकृतिमविकृतिस्तथा ।
जगती शत्वरी चैव अतिशत्वरि एव च ॥ ४० ॥

उत्तमण्यक्तमेवं तु छन्दसानां विधीयते ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च ॥ ४१ ॥

कालरुद्रो नीलरुद्रः प्रलयानिल सदाशिव ।
चतुर्दशाङ्गुलादीनि देवानामिहचोच्यते ॥ ४२ ॥

प्। ११)

मषिणा लेखयेद्वापि वर्णेनैव तु लेखयेत् ।
षट्पङ्क्तिर्वाथ पञ्चैर्वा लेखयेत्पुस्तकं ततः ॥ ४३ ॥

ऋषिश्च वसवश्चैव ग्रहदिक् त्वैकशूद्रकम् ।
पङ्क्तिरेवं समाख्यातं तत्तन्नामाधिदेवता ॥ ४४ ॥

एवं लक्षणसंयुक्तं राजराष्ट्र विवर्धनम् ।
ऋषीणां भूर्जपत्रे तु लेखयेत्तु द्विजोत्तम ॥ ४५ ॥

स्वर्णया तालपत्रे तु लेखयेद्देशिकस्सदा ।
द्वौ पार्श्वकम्प संयुक्तौ पुस्तकायमतत्समम् ॥ ४६ ॥

प्रतिष्ठाविधिं प्रवक्ष्यामि लक्षणेन समन्वितम् ।
शिवाग्रे मण्डपं कुर्यादीशाने दक्षिणेऽपि वा ॥ ४७ ॥

मण्डपं तु त्रिधामध्ये वेदीं कृत्वा विचक्षणः ।
वेदीबाह्ये तु परितः पञ्च कुण्डानि कारयेत् ॥ ४८ ॥

वृत्तं वा चतुरश्रं वा कुण्डान्येतानि कारयेत् ।
स्थण्डिलं वा प्रकर्तव्यं लक्षणेन समन्वितम् ॥ ४९ ॥

मण्डपे नैर्-ऋते भागे शालिना स्थण्डिलं कुरु ।
यथाङ्कुरार्पणं कुर्यात्पञ्चाहे वा त्र्यहेपि वा ॥ ५० ॥

सोमकुम्भं च तन्मध्ये स वस्त्रं सापिधानकम् ।
स हिरण्यं सकूर्चं च सोमराजाधिदैवतम् ॥ ५१ ॥

कृत्वा नवपदं तत्र मध्यमे सोमकुम्भकम् ।
विन्यसेत्तु विशेषेण पालिकाश्चाष्टदिक्षु च ॥ ५२ ॥

प्। १२)

माषमुद्गकुलस्थं च सर्षपं चैव वापयेत् ।
हृदयेन तु मन्त्रेण बीजानि विन्यसेत्ततः ॥ ५३ ॥

दैवतात्कुम्भानभिषिच्य ततो जलम् ।
सुप्तदेशे समुत्थाप्य पालिकाः स्थापयेत्ततः ॥ ५४ ॥

पुण्याहं वाचयेत्तत्र पवमानेन प्रोक्षयेत् ।
स्वर्णेन तन्तुना विप्र कौतुकं बन्धयेद्धृदा ॥ ५५ ॥

एलालवङ्गतक्कोलमुशीरश्चन्दनैर्युतम् ।
लेपयेत्पुस्तकं तत्र शयने शाययेत्ततः ॥ ५६ ॥

शालिना विकिरेद्वेदिं पद्ममष्टदलं लिखेत् ।
शाल्यर्धांस्तण्डुलान्न्यस्य तण्डुलार्धं तिलान्न्यसेत् ॥ ५७ ॥

पञ्चधा शयनं कल्प्य शाययेत्पुस्तकं तदा ।
तत्तदागमबीजेन शाययेच्छयनोपरि ॥ ५८ ॥

ह्रस्वं ब्रह्म समाख्यातं दीर्घाण्यङ्गानि चोच्यते ।
आद्यक्षरसमायुक्त मनुस्वारसमन्वितम् ॥ ५९ ॥

ब्रह्ममङ्गमिति प्रोक्तं सर्वेषां च विधीयते ।
वस्त्रेणावेष्टयेत्तत्र पुस्तकं च विशेषतः ॥ ६० ॥

दर्पणं चैव विप्रेन्द्र एवमेव क्रमेण तु ।
सरस्वतीं न्यसेत्तत्र पुस्तकस्य तु मध्यमे ॥ ६१ ॥

पुस्तकस्यैशदिग्भागे विन्यसेत्कुम्भमेव च ।
शुद्धोदकेन सम्पूर्य स कूर्चं सापिधानकम् ॥ ६२ ॥

प्। १३)

स वस्त्रं स हिरण्यं च सरस्वतीं न्यसेत्ततः ।
मूलमन्त्रेण विन्यस्य अर्चयेत्तु विशेषतः ॥ ६३ ॥

पूर्वादीशानपर्यन्तं विन्यसेद्वर्धनीषु च ।
स वस्त्रं सहिरण्यं च सकूर्चादीनि विन्यसेत् ॥ ६४ ॥

वामाज्येष्ठा च रौद्री च काली कलविकरणी तथा ।
बलविकरिणीं बलप्रमथिनीं सर्वभूत दमनीम् ॥ ६५ ॥

पूर्वादीनि च विन्यस्य पुस्तके च मनोन्मनीम् ।
हृदयादीषसङ्घैश्च पूजयेत्तु विधानतः ॥ ६६ ॥

हविर्निवेदयेत्तत्र पश्चाद्धोमं समाचरेत् ।
पालाशः पूर्वतोभागे अश्वत्थं दक्षिणे तथा ॥ ६७ ॥

पश्चिमे बिल्वमेवं तु अपामार्गं तथोत्तरे ।
उदुम्बरं तथैशान्यां पालाशैर्वापि हूयते ॥ ६८ ॥

समिदाज्य चरुं लाजान्सर्षपांश्च यवांस्तिलान् ।
समिधं सद्यमन्त्रेण ईशानेनाज्यमेव च ॥ ६९ ॥

चरुं वै हृदयेनैव लाजान्वामेन चैव हि ।
सर्षपान्सद्यमन्त्रेण नेत्रेण तु यवांस्तथा ॥ ७० ॥

कवचेन तिलान्हुत्वा सप्तद्रव्यमिहोच्यते
सहस्रं वा तदर्धं वा तदर्धं वापि हूयते ॥ ७१ ॥

अष्टोत्तरशतं वापि पञ्चाशत्पञ्चविंशतिः ।
द्रव्यान्ते व्याहृतिं हुत्वा पुस्तकं स्पर्शयेद्धृदा ॥ ७२ ॥

प्। १४)

सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् ।
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे ॥ ७३ ॥

ततः प्रभाते विमले पूर्णाहुतिं विशेषतः ।
तत्तदागमबीजेन प्रोक्षयेद्बर्धनीं ततः ॥ ७४ ॥

सन्निधौ दर्पणं न्यस्य अभिषेकं तु कारयेत् ।
हविर्निवेदयेत्पश्चात्ताम्बूलं दापयेत्ततः ॥ ७५ ॥

आचार्यं पूजयेत्पश्चाद्वस्त्रहेमाङ्गुलीयकैः ।
ब्राह्मणान्पूजयेत्तत्र सप्तकन्याश्च पूजयेत् ॥ ७६ ॥

बोद्धमार्हतं चैव शैवं पाशुपतं तथा ।
कापालं पञ्चरात्रं च षडेते समयाः स्मृताः ॥ ७७ ॥

एतेषां सङ्कारं चैव तन्त्र सङ्करमुच्यते ।
तन्त्रसङ्करदोषेण राजराष्ट्रं विनश्यति ॥ ७८ ॥

तस्मात्सर्वप्रयत्नेन सङ्करं नैव कारयेत् ।
अष्टाविंशतिभेदेन शैवभेदं विधीयते ॥ ७९ ॥

एतेषां सङ्करं चैव न दोषाय प्रकल्पते ।
दीक्षितस्य सुबीरस्य शिवभक्तिरतस्य च ॥ ८० ॥

तस्मै देयं ततो ग्राह्यं * * तन्त्रमिहोच्यते ।
अदीक्षितं न श्रोतव्यं न देयं यस्य कस्य चित् ॥ ८१ ॥

एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ।
तन्त्रावतारमेवोक्तं पञ्चाक्षरं ततः शृणु ॥ ८२ ॥

इति वीरतन्त्रे षट्सहस्त्रिकायां तन्त्रावतारो द्वितीयः पटलः ॥ २ ॥