वातुलागम

विस्तारः (द्रष्टुं नोद्यम्)

RE 26381 Vātulāgama. There are 63 folios in this bundle. The conditions of folios are very good. Around 7/8 lines and 50 characters in each lines are there on each side of folios. Size of the manuscript 14 x 2. This bundle deals with few paṭalas of Vātulāgma which is one of the 28 Siddhāntha śaiva mūlāgamas. The śrotā means, the receivers of this āgama is ṣanmukha. As per the Kāmikāgama the śrotā should be śiva and mahākāla but here are some changes. There are 12 upāgamas for this mūlāgama, namely vātulam, vātulottaram, kālajñānam, prarohitam, sarvam, dharmātmakam, ṇityam, śreṣṭam, śuddham, mahānanam, viśvam and Vviśvātmakam. This bundle mainly contains the Nityārcanāvidhipaṭala, the pūjāwhich is done by the priest in all the days for the sake of lOkakalyānam Multiverse. The other related topics in the paṭala are śivaliṅgārcanam, śaucādi-nityakarma, nitya-naimittika-kāmya-pūjā, utsavaviṣayaḥ, prāyaścittaviṣayaḥ and there difference in musical instruments and flowers etc.

अतः परं प्रवक्ष्यामि शिवलिङ्गार्चनं परम्। (फ़्।१अ)
भुक्तिप्रदं सर्वं दानयज्ञफलप्रदम्॥
आत्मार्त्थञ्च परार्थञ्च पूजाद्विविधमुच्यते।
…॥(स्वर्ण) रत्नमयं शैले लोहदारुमयं तथा॥
सर्वोपचारसंयु……(क्तं य) जनीयं सदाशिवः।
क्षणुके मण्डले तोये पटे वा स्वयमात्मनि॥
ग्रहर्चा प्रतिमां सर्वे आत्मार्थ यजनं स्मृतम्।
यत्र यत्र यजेत्तत्र आवहोद्वासनं परम्॥
यजेत्सर्वोपचारैस्तु तेषा (मा)वाहनोच्यते।
हृदये सवित्रदेवान् वह्नै क्षित्या जलेपि च॥
पवने गगने वापि सप्तस्वेषु हरं स्मरेत्।
एतेभ्यो सन्न्य…(सेत्)॥
यदाचावाह्यते देवास्सर्वव्याप्ति महेश्वरम्।
पूजा परिसमाप्तौ तु स्वतस्त्र………॥
……………॥त्वान्न लिङ्गे विशेषतः।
शौचमाचमनं स्नानं भस्मरुद्राक्ष संयुतम्॥
न्यास ध्यान समायुक्तम् आत्मशुद्धि समाहृता।
सम्मार्जनानुलेपञ्च पुष्पाक्षत समन्वि(तम्)॥
वितानैर्धूपदीपैश्च स्नानशुद्धि प्रकीर्तिता।
शरावङ्घाजलावर्तं वर्धनीं शङ्खशुक्तिकम्॥
शोधनं क्षालनञ्चास्त्रै पात्रशुद्धिप्रकीर्तिता।
जलेषु गन्धसंयुक्तं पाद्यादि सर्वसाधनम्॥
दशाक्षरेण सं…। द्रव्यशुद्धिः प्रकीर्तिताः। (फ़्।१ब्)
निर्माल्यञ्च वि(स)र्जित्वा लिङ्गपीठ च वारुणैः॥
शोधनं क्षालनं चास्त्रैर्लिङ्गशुद्धिः प्रकीर्तिताः।
……।रादिरुत सर्वे नमस्कारान्त योजित॥
अर्चनेतु प्रयोक्तव्या मन्त्रशुद्धिः प्रकीर्तिता।
शौचमाचमनं स्नानं सन्ध्योपस्थान भस्मना॥
न पवित्रीकरण॥
रुचिरासन-प्राणायाम त्रय-पञ्च भूताङ्गभाव- तनुश्छेद-शुष्क वृक्षमिवात्मानं दह्यमानामृताप्लावन-अङ्गन्यास-
करन्यासाष्टात्रिंशत् कलान्यास-प्राकृतं-भावमुत्सृज्य-शिवोहं भावन-अन्तर्याग-स्थानशुद्धि- द्रव्यशुद्धि- द्वारदेवार्चन-
परिवारार्चन-गायत्र्याभ्यर्च्य
न निर्माल्य विसर्जन-लिङ्गशुद्धि-पीठशुद्धि-राधाराधेयाच-
नपाद्य प्रदान- सर्वमन्त्रादष्यास…… सन्निधान-सन्निरोधन-अवकुण्ठन-
स्वागतपाद्याच- मनार्घ्य जलाभिषेचन-वस्त्राभरण- गन्धपुष्पालङ्का(र)-
नीराजन-भस्मदर्पण- चत्रचामर दर्शन- दशमुद्रा-पञ्चावरण-
पूजा-नैवेद्य-बलिहुत-निर्माल्य विसर्जना च-मन मुखवासताम्बूल-
पुस्तकाराधन-जप-समाधि-स्तोत्र-प्रदक्षिण-नमस्काराद्य- उत्सव-
पादुकार्चन-अस्त्रोद्वास-(फ़्।२अ)
नृत्त-गेय-वाद्य-चुलिकोदकाभिमुखीकरणाद्युपचारका।
उकार्जुकुन्तु-प्रित्यज्य मृगेतेदिने।
गङ्गायमुनयोर्योगे न्यसेत्बाणन्तु मध्यमे।
उधृतोपलकन्तत्र बाणलिङ्गमिहोच्यते॥
ग्रह्यद्दृश्यं व्युपलन्तु बाणकश्यन्तु वर्ज्यं
यजनेतु ददत्
दृश्यं ग्रहीतेथन पुत्रनाशं सौभाग्यदं पुत्रकरं त्वदृश्यम्।
स्निग्धं मूल्यं विजानीयात् दथालयप्रकीर्तितम्॥
उन्नतं तु मुखं विद्यात् गीर्वाणैः पूजितव्यकम्।
द्विरङ्गुलादि भूतान्तम् आत्मार्थं सम्प्रपूजयेत्॥
शैशैले विशेषेण लोलोहलोहं सपीठकम्।
सौवर्णं रजतं ताम्रं पीठं चैव तु मध्यमम्॥
भूताङ्गुलात्तदूर्ध्वेतु परार्थं तु प्रकीर्तिता।
मणिमुक्ताप्रवालन्तु वैडूर्यं स्फाटिकं तथा॥
मरतकं पुष्परागन्तु वज्रनीलं च रत्नजम्।
सौवर्णं रजतं ताम्रं काम्स्यं चैवार कूटकम्॥
आयसं सीसकं चैव द्रपुसाधातु…।वेत्।
सैकतं गोमयञ्चान्नं पैष्टं गौलं फलं तथा॥
नवनीतञ्च सप्तैते क्षणिकास्समुदीरित।
बाणन्तु मोक्षतं विद्यात् पूजयेत्तु विशेषतः॥
माणिक्यं श्रीप्रदं कुर्यात् प्रवालं जयकारणम्।
आर्षेणतु वैडूर्यं स्फटिकं पुत्रसिद्धिदम्॥
विद्वेषं मरतकं कुर्यात् स्तम्भनं पुष्परागकम्।
मौक्तिकं मुक्तिदञ्चैव वज्रमारोग्य वर्धनम्॥
नीलन्तु मारणेकार्यं रत्नजानां फलभवेत्।
हैमं तु श्रीप्रदं ज्ञेयं रौप्यं राज्यप्रदायकम्॥
ताम्रं पुत्रसमृध्यर्थं काम्स्यं विद्विषकारणम्।
आकूटञ्च पाटवन्तु आयसं क्षयकारणम्॥
सीसकं रोगकरणं त्रपुसं चायुर्वर्धनम्।
एवं तु धातुजं प्रोक्तं क्षणिकानां फलं शृणु॥
सैकतं मो(क्ष)करणं गोमयं रोगनाशनम्।
अन्नमन्नादिकारीस्यात् पैष्टं पुष्टिप्रदायकम्॥
गौलं शिवपदं प्रोक्तं फलमिष्टार्थ सिद्धिदम्।
ह्लादको नवनीतञ्च क्षणिकानां फलं भवेत्॥
सयोनिरेव पीठं स्यात् सर्वेषामिति चोच्यते।
पूजकामार्थख्ये स्यात्तु पूजकस्यात्मना फलम्॥
यदिपूजा परार्थेषु सर्वेषामात्मना फलम्। (फ़्।३अ)
आसनावाहनानार्ध्ये स्थापनं स्वागतं तथा॥
सान्निध्यं निरोधञ्च अङ्ग प्रत्यङ्ग कल्पनम्।
पाद्यमाचमनार्घ्येच गन्धपुष्पैस्तथैव च॥
धूपदीपैस्ततस्नानं वस्त्रञ्चैवोपवीतकम्।
गन्धपुष्पं तथा धूपं दीपं नीराजनं तथा॥
भूषणं व्यजनाद्यं च मुद्रा दर्शनमेव च।
आप्रतार्चन नैक …………॥॥
समाधिं तु जपं स्तोत्रं प्रदक्षिणनमस्तथा।
चुलुकोदकप्रदानञ्च पुस्तकाराधनं…(तथा)॥
आस्यं ……॥…।आर्जनियमितिमृतम्।
चत्वारिंशोपचारैस्तु आत्मार्थे देवपूजने॥
विप्रक्षत्रियविट्शूद्रादीक्षिताश्च प्रवेशका।
आत्मार्थ यजनं कुर्यात् नकुर्यात्तु परार्थकम्॥
आदिशैवेन कर्तव्यमात्मार्थञ्च परार्थकम्।
अनादिशैवस्सशिव आदिशैवश्शिवद्विजः॥
आदौत्वनादिशैवेन दीक्षिताश्चादिशैवका।
पूर्वोक्तेनैव गोत्रेव गोचरैश्च समन्विता॥ (फ़्।३ब्)
वर्णेवर्ण समुद्भूताश्शाक्तिशाम्भुमयात्मका।
शक्तिस्त्रीरूपमित्युक्तं पुरुषश्शम्भुरुच्यते॥
शक्तिश्शम्भुमयं प्राहुः जगदेतच्चराचरम्।
ब्राह्मणादिवर्णं सन्धानं ह्यनुपूर्वशत्……॥
पूर्वं ब्रह्ममुखेष्वेव शिश्चेतो समुद्भवा।
ततश्चेति समुत्पन्ना सामान्यश्चेतास्मृता॥
शिवसृष्ट्या समुद्भूता ब्रह्म वक्त्रं चतुष्टयात्।
अश्नैवै ब्रह्मना जातास्ते शिवब्राह्मणस्मृता॥
शिवसृष्ट्या विनायस्मात् जायन्ते केवलं मुखात्।
सामान्य ब्रह्मणा प्राहुः दीक्षयापयेश्चिवम्॥
प्राकूतान् प्रविंशन्त्यस्मात् शिवाराधनशासनात्।
तस्मात्प्रवेशकं त्यक्त्वा विप्राद्याश्शिवदीक्षिता॥
शिवदीक्षा प्रयुक्तो यश्चान्ये दीक्षा नविद्यते।
सर्वदेवार्हका पूजा शिवदीक्षार्हका विदुः॥
दीयते ज्ञानसद्भावं क्षीयते पाशबन्धनम्।
उभयोस्सिद्धिभावत्वात् दीक्षाशब्दस्स उच्यते॥
रसविधं यथाताम्रं नभूयस्ताम्रतां व्रजेत्।
ज्ञानविधं तथादेहं नभूयपशुतां व्रजेत्॥
एवं समाप्यते दीक्षा जननादि विवर्जिता।
विमुक्त प्राकृतं भावं तेनैवाधिकृतं पुमान्॥
प्राप्यश्छिवतनु तस्य सूतक प्रेतकन्नहि।
नलिप्यते मलैश्चैव पद्मपत्रमिवाम्भसा॥
पञ्चवक्त्रेषु ये जाता ब्रह्मणाश्चोत्तमास्मृता।
शिवेन दीक्षिताश्चैव शिवश्चेताभिधानका॥
नित्यार्चनादि कार्येषु ते परार्थायनिर्मिता।
उपनयनादि विद्युक्तं सर्वेपूजार्हका विदुः॥
अन्येषां चातुर्वर्णानाम् आत्मार्थेनैव पूजयेत्।
रुद्राक्षमुपवीतं च उष्णीषं चोत्तरीयकम्॥
भस्मचैवादि शैवानां पञ्चमुद्राः प्रकीर्तिता।
आत्मार्थ यजनं ज्ञेयं परार्थयजनं शृणु॥
अरुणोदयपूर्वे तत्रिपादेन त्रिनडिका।
कुर्यात्पञ्चमहाशब्दं तदाशुभनिवृत्तये॥
काम्स्यञ्चाम्यूञ्च त्वगडिक् …।सुषिरं तथा।
एते पञ्चमहाशब्दं शिवाय विनिवेदयेत्॥(फ़्।४ब्)
महाभूत विकाराणां शब्दपञ्चमयं स्मृतम्।
दारुकं पृथिवीजातं तत्शखं चाप उच्यते॥
आग्नेयं लोहजं जातं वायुजातं सुवंशकम्।
गेयं गगन जातं स्यात् तस्मात् भूतं विकारणम्॥
दारुकं चूक शङ्खं च लोहजं सुषिरमेव च।
गेयं सर्वसमायुक्तं शब्दपञ्चमयं स्मृतम्॥
तत्कालेतु समारभ्य पूजाकर्म समारभेत्।
शौचमाचमनं स्नानं सन्ध्योपस्थान मेवच॥
तर्पणेनैव संयुक्तं भस्मस्नानमतः परम्।
पवित्रमासनं चैव रेचकादित्रयं तथा॥
तत्वानां मण्डलं वर्णमधिदेवोच्चारणाक्षरम्।
ग्रन्थीनां वेदनं पश्चात् भूतशुद्धौतु सम्भवम्॥
अङ्गन्यास करन्यासं कलान्यासमतः परम्।
अन्तर्यागं ततः कुर्यात् स्थानशुद्धिघ शङ्खकम्॥
पाद्यमाचमनद्रव्यम् अर्घ्यं गन्धस्य लक्षणम्।
शीतारुचार्घ्यु कालेतु तथादेवमनुस्मरन्॥
त्रिगन्धाञ्चाष्टपुष्पञ्च सप्तवारुनि योजयेत्।
उपाचाराणि सर्वाणि महाघण्टा प्रताडनम्॥ (फ़्।५अ)
प्रजाभेद समाख्यातं द्रव्यशुद्धिमतः परम्।
द्वारपूजाविधिश्चैव परिवारर्चनं परम्॥
गर्भगेह प्रवेशञ्च महाघण्टा प्रताडनम्।
प्रच्छिन्नपट सछिन्नं लिङ्गशुद्धिमतः परम्॥
पीठशुद्धिः स्थलशुद्धिर्मुखपादञ्च पृष्ठकम्।
आसनावाहनश्चैव मुद्रा कालमतः परम्॥
स्नानोदकं स्नानकालं पञ्चामृतं च गव्यकम्।
शुद्धोदकं च गन्धं च वस्त्रमाभरणं तथा॥
पञ्चावरण पूजाञ्च तेषां वर्णाकृतिस्तथा।
नीराजन विधिश्चैव सकलाराधनक्रमम्॥
तेषां समुद्भवं वर्णं भक्तपूजा सलक्षणम्।
नैवेद्यञ्चाग्निकार्यञ्च परिवारबलिं तथा॥
नित्योत्सव विधिं पश्चात् पादुकादर्च्चनं परम्।
दुरतोक्तकं मादि निताण्डवश्चैव गेयकम्॥
चुलुकोदक प्रदानं च प्रदक्षिण नमस्कृतम्।
घणिका लक्षणं चैव जपस्तोत्रविधिक्रमम्॥
यत्तन्त्रेण समारब्धं तत्तन्त्रेण समापयेत्।
अनुक्तमन्यतो ग्राह्यर्बुध्वा तस्यार्हकान् ग्रहेत्॥

शिवस्मरन्नुषः काले दण्डपाणि शिवद्विज।(फ़्।५ब्)
उत्तरे विप्र कर्तव्यम् अथवा पूर्वतो दिशि॥
ग्रामपार्श्वे महाक्षेत्रे तटाके कूप पार्श्वके।
वल्मीकेतु तथा नद्यां दर्भमूले महापथे॥
गोवासे जलतीरे च स्मशाने च चतुष्पथे।
देव॥(गा)र समीपेतु चैत्यवृक्ष समीपकम्॥
पुष्पस्थाने तरोर्मूले शिलायां पर्वते तथा।
स्तृणां गो विप्र लिङ्गीनां प्रत्यग्रे चन्द्रसूर्ययोः॥
विण्मूत्रौ तु नकर्तव्यो ग्रहेवा वश्यक क्रिया।
उत्थायच बहिर्ग्रामात् गत्वा शौचं समाचरेत्॥
क॥व कर्णमूलेव उपवीतन्यसेत् बुधः।
रविदक्षिणतः कृत्वा विण्मूत्रञ्च विसर्जयेत्॥
दक्षिणाभिमुखो रात्रौ तृणमादाय भूतले।
अथवास्सशिरोवेष्ट्या यथा वायुस्तथामुखा॥
नासा विधाय हस्तेन दक्षिणाङ्गुठिकाश्चया।
यावत् शुद्धिर्भवेदास्यन्तावन् त्रौन॥तं चरेत्॥
वामे शिश्नं गृहीत्वातु मृत्पिण्डं दक्षिणे करे।
जलतीरं समागत्य पश्चाश्छौचं समाचरेत्॥
अक्षमात्र प्रमाणेन मृदं वामकरे बुधः।
दक्षिणेनोदकं ग्राह्यक्षालयेत्…॥
शिश्नं पादौ च हस्तौ च त्रिधा वै शोधयेत् बुधः। (फ़्।६अ)
यावन्मात्रं मनश्शिद्धिन्तावच्छौचं समाचरेत्॥
एवं विधि गृहस्तानां द्विगुणं ब्रह्मचारिणाम्।
वानप्रस्थ यतीनाञ्च त्रिगुणं प्रोच्यतेधुना॥
शौचमेवं समाख्यातं दन्तकाष्टमतः शृणु।
प्लक्ष वैणव निम्बैश्च करजीव कुलं तथा॥
क्षीरवृक्षमपामार्गं चूतं वापि विशेषतः।
सार्वत्वक् समश्छेदं रुजुशुद्धमपर्वकम्॥
कनिष्ठाङ्गुलि परीणाहं द्वादशाङ्गुलमायतम्।
गण्डूषैः विधाय स्नानमाचरेत्॥
दन्दधावनमेवोक्तम् आचम्यद्विरुच्यते।
…लेतु दक्षिणं पादं वामपादं जलेस्थितम्॥
जानुमध्यकरो भूत्वा हस्ते गोकर्णवत् कृते।
माषमग्नजलं ग्राह्य निर्दोषैस्त्रिपिबेद्बुधः॥
आस्यं द्विः प्रमृजेत्तत्र सकृन्मार्ज्य मुखं शनैः।
पदावभ्युक्ष्य मूर्धान्तम् अङ्गुष्ठानामिके नतु॥
सव्यादि चक्षुषोस्पृश्य तर्जन्याङ्गुष्ठके नतु।
नासिदारा उभौ स्पृष्ट्वा कनिष्ठाङ्गुष्ठके नतु॥ (फ़्।६ब्)
श्रोत्रौ स्पृष्ट्वा जलोपेतमङ्गुष्ठेनतु बाहुकौ।
नाभिमङ्गुष्ठकेनैव सर्वाङ्गुल्यग्रपिण्डिता॥
हृत्प्रदेशं तु संस्पृश्य सर्वाङ्गुल्यग्र मूर्धनि।
ऋग्यजुस्सामवेदानां त्रिपान तृप्तुरिष्यते॥
आस्यद्विमार्जनात्प्रीति अथर्वेदेति हास(स्य)योः।
असकून्मार्जनाद्वक्त्रं गणेशस्य प्रियं भवेत्॥
पार्श्वयोर्भ्युक्षणेनैव ऋषीणाञ्च प्रियं भवेत्।
नयनस्पर्शनेनैव प्रियं स्यात्सूर्यसोमयोः॥
नासिकास्पर्शनेनैव आश्विनौस्तु प्रियं भवेत्।
श्रोत्रञ्च स्पर्शनेनैव दिशां प्रीतिकरं भवेत्॥
ब्रह्मविष्ण्वनिलानाञ्च बाहु नाभिस्तथा हृदि।
शिरसि स्पर्शनेनैव शिवप्रीत्करं भवेत्॥
क्षुतेच कफजाते च सव्यस्त्वाचमनं कुरु।
स्पर्शयित्वा ततश्रोत्रम् अङ्गुष्ठनास्यकं मृजेत्॥
एवमाचमनं कृत्वा सर्वपापक्षयं भवेत्।
आचम्येवं विधानेन स्नानार्थं च विधिंशृणु॥
वेणुं दण्डं पवित्रञ्च नववस्त्रं कमण्डलुम्। (फ़्।७अ)
मृत्पिण्डं गोमयं पुष्पं तिलमामलकं कुशम्॥
हरिद्रांश्चैव सङ्ग्राह्य नदीं गच्छेत् समुद्रगाम्।
समुद्र……॥ णातदालाभे बृहत्सरः॥
त(दा)लाभे तटाकं स्यात् तदालाभेतु पुष्करम्।
तदालाभेतु कूपं स्यात् गत्वा स्नानं समाचरेत्॥
कूपाद्दशगुणं वापि वाप्याद्दशगुणं नदी।
नद्याद्दशगुणं वृद्धि स्नानार्थञ्च समुद्रगाम्॥
कूपस्नानं नकर्तव्यं नद्यादिषु समुद्भवेत्।
उत्तमन्तु समुद्रं स्यात् तटाकाद्यास्तु मध्यमम्॥
अधमं स्नानमेवं स्यात् वापीकूपादिभिस्मृताः।
प्राङ्मुखोदङ्मुखोभूत्वा स्नानं दशगुणं भवेत्॥
तोयं शुद्धमशुद्धं व(वा) शिवालय समीपतः।
शिवगङ्गेति तीर्थं वा शिवधामाम्बु सेचनात्॥
देवालयस्य श्रङ्गाणां छाय(या) यत्र निरीक्ष्यते।
तस्मिन्कूपे तटाकेवा तत् गङ्गा सदृशं जलम्॥
तेषु तीर्थं समागम्य स्नानं कृत्वा विशेषतः।
शुचौ देशेसीन प्राङ्मुखोदङ्मुख क्रमात्॥
गोमयामलकैश्चूर्णैरङ्ग प्रत्यङ्गमर्दनैः।
मलस्नानमिदं प्रोक्तं विधिस्नानमिदं शृणु॥ (फ़्।७ब्)
मत्स्य मण्डूक सर्पाणाम् अन्यैश्च जलजातिषु।
नित्यं जलेपिजायन्ते तस्माच्छौचन्नकारयेत्॥
तद्दोषं विनाशाय शिवतीर्थं तु कल्पयेत्।
हस्तमात्रप्रमाणेन मण्डनं(लं) चतुरश्रकम्॥
हुम्फट्कार समायुक्तं मृदं सङ्ग्राह्य देशिका।
पूर्वे वा दक्षिणे चैव चोत्तरेत्तु त्रिधाभवेत्॥
अस्त्रं ब्रह्मशिवं जप्त्वा पूर्वादिक्तमशोन्यसेत्।
अस्त्रजप्तं तयो(धो)भागे (दशदिक्षु विनिक्षिपेत्) तीर्थमध्ये विनिक्षिपेत्॥
मूर्धानं वक्त्र हृदयौ गुह्यं पादौ च भागशा।
हृदयेनास्त्रमन्त्रेण सर्वाङ्गं निस्पृशेत् क्रमात्॥
स्नायान्नृपोपचारैश्च रजन्यामलकादिभिः।
गुरूपदिष्ट प्रकारेण सन्ध्योपस्थानमाचरेत्॥
जप्त्वा ब्रह्मषडङ्गानि तीर्थं सङ्ग्राह्यचात्मनि।
जलादुत्तीर्य तद्वस्त्रम् आदिवस्त्रं विसृज्य च॥
अप्रशस्तं निशिस्नानं राहोरन्यत्र दर्शनात्।
[पुत्रस्य] स्रवन्ति रुधिरं नित्यं स्रवन्ति निशि निर्मितम्॥
तस्मात् स्नानं च पानं च नकुर्या……।
स्वर्णानि च समीत्येव प्राणायामेन वा जलम्॥ (फ़्।८अ)
साये चाभ्युदिते सूर्ये मश्रु कर्मणि मैथुने।
दुस्वप्नं दुर्जनस्पर्शे स्नानं षट्वसु विधीयते॥
स्नानमेव विधानेन तर्पयेत्तु विशेषतः। ऴ्ऴ्ऴ्
देवान् ऋषीन् पितॄन् सर्वान् वामाघोरक सद्यके॥
देविकेनतु तीर्थेन देवानां योजयेत् बुधः।
आर्षयेणतु तीर्थेन ऋषीणां तर्पयेत् बुधः॥
पैतृकेनतु तीर्थेन पितॄणां तर्पयेत् बुधः।
कनिष्ठाङ्गुलि मूलेतु दैविकं तीर्थमुच्यते॥
आर्षञ्चाङ्गुलाग्रैस्तु पैतॄकाङ्गुष्ठमूलता।
मध्ये करतलस्यापि शिवतीर्थमुदाहृदम्॥
वैष्णवं तस्यवामेतु दक्षिणेब्राह्ममुच्यते।
तस्यपूर्वे सूर्यतीर्थं पश्चिमे वारुणं भवेत्॥
आग्नेयामग्नि तीर्थेन नैऋत्यामासुरं द्वये।
वायव्यां वायुतीर्थं स्यादैशान्या…तीर्थकम्॥
विप्राणां दक्षिणेहस्ते तीर्थं द्वादश संस्थितम्। (फ़्।८ब्)
तस्मात्सर्व प्रयत्नेन ब्राह्मणस्य करस्य…।॥
…………………सर्वपापक्षयं भवेत् ।
कनिष्ठाङ्गुलि मध्येन देवां तर्प्योथ पुष्पयुक्॥
अङ्गुल्यग्रेण हस्ताभ्यां मुनिं तर्प्यकुशैस्तथा।
यज्ञं कृत्वाऽपसव्यन्तु जलैस्सतिलमिश्रकैः॥
दक्षिणाङ्गुष्ठ तर्जन्यौ मूलेनैव पितृन्नपि।
प्रत्येकमेव विंशभिः सङ्ख्याभिस्तर्पयेद्गुरुः॥
पितापितामहाश्चैव प्रपितामह एवच।
मातामहातकाश्चैव तर्पयेत् पैतृकोदकैः॥
तत्सव्योभय हस्तेन मुक्तकेशस्तिलेनच।
स्नानेदेवार्चनेचैव होमकार्योजपे तथा॥
भोजनावश्य कार्येच मौनं षट्वसु विधीयते।
तर्पणं तु समाख्यातं पवित्रस्य विधिं शृणु॥
प्रक्षाल्य पाणिपादौ च आचसम्य सविचक्षण।
सपवित्रकरेणैव सर्वकार्यं समाचरेत्॥
कुशाकाशा उशीराश्च दूर्वाश्च पीहिभिस्तथा।
विश्वामित्रा यवाश्चैव सप्तदर्भाः प्रकीर्तिताः॥
मूलस्थूलं भवेनारी अग्रस्थूलं नपुंसकम्। (फ़्।९अ)
मूलमग्र सममेवन्तु पौरुषं दर्भलक्षणम्॥
गोपालं कुशदर्भं स्यात् पर्वतं कनकप्रभम्।
चतुः पञ्चन(द)लैर्वापि पवित्रं सद्यगाचरेत्॥
त्रिभिर्दर्भै कृतं यस्तत् पवित्रं शान्तिकं विपुः।
पञ्चभिः पौष्टिकं विद्यात् चतुर्भिश्चाभिचारकम्॥
द्विदर्भं देवकार्येतु पितृकार्ये कुतोभवेत्।
चतुरङ्गुलमध्यं स्यात् ग्रन्थिरेकाङ्गुलं भवेत्॥
वलयं द्वयङ्गुलचैव पवित्रस्यतु लक्षणम्।
सपवित्रकरेणैव कुर्यादाचमनक्रिया॥
नोच्छिष्टन्तु पवित्रं स्यात् भुक्तोच्छिष्टवर्जयेत्।
तदग्रं रुद्रदैवत्यं ग्रन्थिं विष्णुस्तथैव च॥
वलयं ब्रह्मदैवत्यं पवित्रस्याधिदेवता।
यथा वज्रेणचेन्द्रस्य यथा शूलं हरस्य च॥
यथा विष्णुमयं चक्रं ब्राह्मणस्य पवित्रकम्।
हस्तयोरुभयोश्चैवानामिकायातु योजयेत्॥
त्रिशत्द्विरष्टमङ्गुलीयमयुगं दर्भांश्च बाह्योन्नतं (फ़्।९ब्)
केतोदण्ड शिरोपविष्टमतुलं कूर्चं शतं साग्रजम्।
कुम्भं सङ्कुलपञ्चकं स्तरिणकं सर्पं ह्विवावै नवं
ज्ञानाख्यासि दश त्रयञ्च षडुकं मेकं जपेत् ग्राहिकम्॥
स्थूलञ्चागिलि सन्निभम् ऋजुकरं श्यामञ्च वामेपितं
कीटेनापि नदं शितं शुभकरं बा मं साग्रजम्।
एवं कुण्डनवेष्टिञ्च परिधिं होमार्थमाकल्पितं
सम्याश्वा…मङ्गुलञ्च सिमिधं दण्डाग्रहीताकृतम्॥
पवित्रलक्षणमाख्यातं भस्मस्नानविधिं शृणु। ऴ्ऴ्ऴ्
कपिला गोमयं श्रेष्टं श्वेतगोमय मध्यमम्॥
रक्ताकृष्णाधमं प्रोक्तं ग्राहके पद्मपत्रके।
सद्येन गोमयं ग्राह्यं पिण्डं वामेन कारयेत्॥
अघोरास्त्रेण संशुद्धि कुर्याद्वैदेशिकोत्तमा।
शिवमन्त्रेण दह्यन्तु तत्पुरुषेणतु ग्राहयेत्॥
अलाबुपात्रे मतिमान् भस्माधारेतु वा क्षिपेत्।
मृत्कुम्भेतु नवेस्थाप्य कवचेनाभिरक्षितम्॥
पञ्चब्रह्म शिवाङ्गैश्च व्योमव्यापिन् जपेत् सकृत्।
दक्षिणेन करेणैव वामहस्तेतु विन्यसेत्॥
ईशानेन शिरोद्धूल्य मुखं तत्पुरुषेणतु।
अघोरेणैव हृदयं बाहु जङ्घेच नाभिकम्॥ (फ़्।१०अ)
पृष्ठे चोरसि चोद्धूल्या बहुरूपेण मन्त्रता।
मध्यमानामिकाचैव तर्जन्याच त्रिपुण्ड्रकम्॥
ब्रह्माविष्णुश्च रुद्रश्च त्रिपुण्ड्रस्याधिदेवताः।
सृष्टिस्थितिश्च संहारस्त्रिपुण्ड्रस्य त्रिरेखया॥
पूर्वाह्ने भोजनचैव आसने शयनेऽपि च।
भस्मनाथ त्रिपुण्ड्रं स्यात् सर्वरक्षाविधीयते॥
श्रीकरञ्च पवित्रञ्च हार………।णं तथा।
लोकवश्यकरं पुण्यं भस्मस्नानं दिने दिने॥
……॥…॥प्रीति बाहुभ्यां केशवस्तथा।
हृदये चैश्वरप्रीति नाभौचैव प्रजापति॥
दुर्गा सरस्वतीचैव स्कन्धे पृष्ठे तथैव च।
जान्वेतु चाश्विनौ चैव पादयोः पञ्चगस्तथा॥
सर्वतीर्थेषु यत्स्नानं सर्वतीर्थेषुयत्फलम्।
कोटि कोट्यास्तु गुणितं भस्मस्नानेन सिद्ध्यति॥
चातुर्वणस्य सर्वेषां स्त्रिपुरुषं नपुंसकम्।
त्रिकालं वा द्विकालं वा एककालं त्रिपुण्ड्रकम्॥
सर्वरक्षाचमर्त्यानां शिवलोकं सगच्छति।
शिवस्य सन्निधे मार्गे देवाग्नि गुरु सन्निधौ॥ (फ़्।१०ब्)
भस्मोद्धूलनं कर्तव्यं कर्तव्यं शुद्धभूतले।
रन्ततत्द्रव्य…।म्य च
ततश्चैवान् प्रणम्यैव भस्ममुद्धूलयेन्नरः।
यावत्तु पतिताभूमौ भस्मस्य परमाणवः॥
तावद्युग सहस्राणि तत्कर्ता नरकं व्रजेत्।
प्रमादात्पतितं भस्मं भूमौ हस्तेन मार्जचि॥
मूर्ध्नोरसासु संस्पृश्य ततश्शिवम
षडङ्गुलं तु विस्तारं ब्राह्मणानां विधीयते॥
चतुरङ्गुल विस्तारं क्षत्रियाणां त्रिपुण्ड्रकम्।
त्रियङ्गुलं तु वैश्यानां त्रियङ्गुलं सर्वकामदम्॥
एकाङ्गुलं तु रु(शू)द्राणां स्त्रीणाञ्चैवतु तत्समम्।
तत्तद्युक्तेन मतिमान् सर्वपापक्षयं भवेत्॥
दुस्स्वप्न दर्शनं चैव दुर्जने स्पर्शनेऽपि च।
स्नानादशक्त पुरुषो आतुराणाञ्च सर्वदा॥
भस्मस्नानेन शुद्ध्यन्ति अर्चना योग्यमेव च।
ज्वर……।पिशाचाश्च आतुरायातु धानका॥
कुमारग्रहभूताश्च कूष्माण्डा डाकिनीरपि।
ब्रह्मराक्षस उद्गीषा भूतकीष्ठकगुल्मक॥
भगन्तराणि सर्वाणि अशीतिर्वातरोगक।
चतुष्षष्टि पित्तरे……। सप्तति पञ्च च॥
व्याघ्र सर्वभयानागा सर्वे रक्षाविधीयते। (फ़्।११अ)
लीङ्गाकारञ्च बिल्वञ्च वेणु पत्रं तथैव च॥
अश्वत्थेऽदुम्बरं चैव शम्भोश्शासन लेखया।
स्वि…भघ्न च भुक्तौ च पवने जल गाहने॥
षण्डां शूद्रस्त्रियां स्पृष्टे आग्नेयं स्नानमाचरेत्।
त्रिंशद्दण्डं समारभ्य वर्तुलं पुण्ड्रमेव च॥
त्रिशूलञ्चार्धचन्द्रञ्च दीपं पञ्चविधिक्रमम्।
वर्तुलं चोर्ध्ववक्त्रेषु त्रिपुण्ड्रं पूर्वमेव च॥
त्रिशूलं दक्षिणे वक्त्रे अर्धचन्द्रं तु पश्चिमे।
उत्तरे वदने प्रोक्तं दीपाकारं षडानना॥
सुप्त्वा भुक्त्वा जलं पीत्वा कृत्वा चावश्यकादिकम्।
तीयदावसनेन भस्म स्नानं समाचरेत्॥
काकाग्रीद्ध्रकराश्चान्यैः वर्णसंस्पर्शने तथा।
तद्वैकूत स्मशानो ग्रामसूकरकुक्कुटैः॥
निर्माल्य भोजक प्रेत सूतकापतितैस्सह।
तथान्यफङ्गिभिश्चैव वारुण स्नानमाचरेत्॥
जलस्नानशतं कृत्वा मन्त्रस्नानसहस्रशः।
भस्मोद्धूलन मात्रेण सारुद्रप्रतिद्रू॥ते॥
रक्षतो सर्वतो दिक्षु क्षीयते दुष्कृतं तथा।
तस्माद्दृक्षेति साप्रोक्ता शिवहस्त प्रदायका॥ (फ़्।११ब्)
भूति भूतिकरी पुंसां रक्षा रक्षाकरी पुरुम्।
भसितं भासनात् प्रोक्तं भस्म कल्मषभक्षणात्॥
भस्माश्रयो यदावह्नि तस्मिन्नेवा॥यङ्गता।
भस्मस्नानेन तेजस्वी वह्निवद्दृष्यते नव॥
त्रिपुण्ड्रं ब्राह्मणो विद्वान् मनसाऽपि न लङ्घयेत्।
शृत्वा विधीयते यस्मात् तमन्यागि पतितोभवेत्॥
त्रिपुण्ड्रधारणं कृत्वा मूर्तिमिश्छन्ति या पुंसाम्।
विषपानेन नित्यत्वं कुरुतेत्वात्मनोहिसा॥
नदीक्षा नतपो मन्त्री नयन्त्रो(ज्ञो) देवतानि च।
विद्यानामाग…… भस्ममाहात्म्यवर्जितम्॥
नतत्सा(स्ना)नं नतत् ध्यानं नतत् ज्ञानं न तत्फलम्।
विना तिर्यक् त्रिपुण्ड्राङ्गं विप्रेण यदनुष्ठितम्॥
सत्यं शौचं जपं होमं तीर्थं देवादिपूजनम्।
तस्य व्यर्थमिदं पुण्यं यस्त्रिपुण्ड्रन्नधारयेत्॥
सुरापाना ब्रह्महत्याञ्चा कुद्धेत्वापरदाराश्च।
गम्या भस्मञ्चिन्नाभस्म शैयाशयानोरुद्रध्या॥
विमुच्यते सर्वपापैः
भस्मस्नानं सुनित्यं शुद्धिकरमनिशं व्याधिनाशं सुमोक्षं
गङ्गातीर्थेन तुल्यं विषहरं क्रोधनाशं सुशान्तम्।
यक्षः पैशाचरक्षः प्रबलमिदहरं तुष्टिपुष्टिं समस्तं
वश्यं लोकेनराणां सकलजनसुखं पार्वतीश प्रसादम्॥
भस्मस्नानं परं तीर्थं नित्यं पापविनाशनम्।
भस्मरूपं शिवं साक्षात् भस्मं त्रैलोक्य शासनम्॥
रक्षार्थं मङ्गलार्थं च परमार्थं च पावनम्।
सितेन भस्मना कुर्यात् त्रिसन्धिं यस्त्रिपुण्ड्रकम्॥
सर्वपाप विनिर्मुक्तश्शिवलोके महीयते।
भस्मस्नानं समाख्यातं माहेन्द्रस्नानमुच्यते॥
वर्तमानेकरां सौच…।…। षुति तिष्ठति।
प्राङ्मुखोनूर्ध्व बाहूच वामेसव्यकरसि॥
मूलमन्त्रं जपेद्वाच पावतैः पद……।।
आदित्यादिमुखं पश्चात् तन्नमस्कृतु बुद्धिमान्।
एवं कृते महा पापैः मुच्यते नात्रसंशयः॥
स्नानम्माहेन्द्रमित्युक्तं मारुतं त्वधुना शृणु। (फ़्।१२ब्)
पूर्वाह्ने वा पराह्नेवा रजसा गोष्पते नतु॥
अभिषिक्तस्ततोमन्त्री मूलमन्त्रमनुस्मरन्।
मन्त्रस्नानं तदन्तेतु प्रक्षाल्य पाणिपादयोः॥
हस्ते प्रक्षाल्य चाचम्य पात्रेक्षिप्ता जलं ततः।
व्योमव्यापिपदैश्चैव षडङ्गैर्ब्रह्मपञ्चकैः॥
मूलेनैवतु तत्तोयम् अभिमन्त्र्य सकृत् कुरु।
सं शक्तेन तोयेन मूलमन्त्रेण वर्मणा॥
मूर्ध्ना(धा)दि पादपर्यन्तं त्रिधा संस्पर्शनं तथा।
सर्वपापक्षयं मुक्त्वा सर्वरोगक्षयं भवेत्॥
वारुणं भस्ममाहेन्द्रं मारुतं मन्त्र सञ्ज्ञकम्।
एवं पञ्चविधं स्नानं सर्वकार्येषु पूजितम्॥
पञ्चस्नानं समाख्यातं पाद्यादीनं विधिं शृणु।
कुङ्कुमञ्चन्दनोदूर्वोशीरं सिद्धार्थकं तथा॥
जलेनैव समायुक्तं पाद्यमुत्तममुच्यते।
उशिरं चन्दनं चैव दूर्वा सिद्धार्थकेन तु॥
उदकेनैव समायुक्तं मध्यमं पाद्यमुच्यते।
चन्दनोशिरयुक्ताभं कन्यसं पाद्यमुच्यते॥
प्रत्येकं धारणं श्रेष्ठं तस्यार्धं मध्यमं भवेत्। (फ़्।१३अ)
तदर्धमधमं ज्ञेयं पाद्यद्रव्यमितिस्मृतम्॥
पाद्यं दक्षिणपादादि प्रतिपादं सकृत् सकृत्।
पाद्यद्रव्यमितिख्यातं द्रव्यमाचमनं शृणु॥
उशीरं जातिकर्पूरं तुटिक्तं तीबु लवङ्गकम्।
उदकेनैव(क)र्तव्यमुत्तमाचमनीयकम्॥
एलालवङ्ग कर्पूरम् उशीरं जाति संयुतम्।
जलेनैव समायुक्तं मध्यमाचमनं स्मृतम्॥
एलालवग(ङ्ग)भस्माभैः कन्यसाचमनीयकम्।
एतेषाञ्च प्रमाणञ्च पूर्ववत् परिकल्पयेत्॥
मुखेष्वाचनमं दद्यात् अविच्छिन्नाम्बु धारयेत्।
द्रव्यमाचमनं प्रोक्तमर्घ्यद्रव्यमथ शृणु॥
…।मस्नाच नवनीतञ्च कुशाग्रं सितसर्षपम्।
कर्पूरं लघुपत्रं च लवङ्गञ्चाष्टमुच्यते॥
अर्घ्य…मितिख्यातं पूजाकाले शिरोन्यसेत्।
आपः क्षीरकुशाग्राणि अक्षतैर्यवतण्डुलैः॥
तिलैस्सिद्धार्थकञ्चैव अर्घ्यमुत्तममुच्यते।
यवसर्षपशाल्यादिस्तण्डुलैर्मध्यमार्ध्यकम्॥
उअदकं तण्डुलं शलिर्भवेदर्घ्यं तु कन्यसम्।
अर्घ्यद्रव्यप्रमाणं तु पूर्ववत् परिकल्पयेत्॥ (फ़्।१३ब्)
अर्घ्यद्रव्यमितिख्यातं स्नान(द्रव्यं)ततः शृणु।
एलोशीरफलत्रयामलसितैः कर्पूरसत्कुङ्कुमैः॥
श्रीकर्णागरुपत्रकैश्च कुसुमैरामोदिभिस्संयुता।
चूपोमर्जनकं मणिप्रणभि…।शम्भोर्यथा लाभता॥
प्रोक्तद्रव्य गुणेषु लब्धमहया तद्ग्राह्यमाढ्येतरैः।
अष्टद्रोणैरथाद्भिस्तु स्नानं कन्यसमुच्यते॥
द्विगुणं मध्यमं ज्ञेयम् उत्तमं त्रिगुणं भवेत्।
जलद्रोणीं समादाय वस्त्रपूतेन वारिणा॥
चन्दनं तुटिकर्पूरं तक्कोलोशीर जायते।
एकैकनिष्कमारोप्य जलेषवालोढ्य यत्नतः॥
विधायच विधानेन स्वनुगुप्तं निधापयेत्।
शिवाम्भसा इति ज्ञेया शिवमन्त्रेण मन्त्रिता॥
स्नानद्रव्यमितिख्यातं गन्धद्रव्यं ततश्शृणु।
कर्पूरं कुङ्कुमं पत्रं खट्गं चैव फलत्रयम्॥
चन्दनोशीरलोहैश्च गन्धमुतममुच्यते।
उशीरं चन्दनं चैव कर्पूरं च फलत्रयम्॥
नवखट्गसमायुक्तं मध्यमं गन्धमुच्यते।
हिमं घनञ्चा कर्पूरं कन्यसं गन्धमुच्यते॥
द्रव्यं प्रतिफलं श्रेष्ठं तस्यार्धं मध्यमं भवेत्।
त…।(दर्धं) मध्यमं (अधमं) ज्ञेयं गन्धद्रव्यं प्रकीर्तितम्॥
गन्धद्रव्यमिति ख्यातं वस्त्रलक्षणमुच्यते। (फ़्।१४अ)
वासांसि सुविचित्राणि सारवन्ती…। च॥
धूपितानि सुपुष्पाणि वि॥शानि नवानि च।
देवाङ्गमुत्तमं प्रोक्तं मध्यमं क्षौममुच्यते॥
कार्पासतन्तुजं वस्त्रमधमं परिकल्पितम्।
उत्तमं सप्तहस्तं स्यात् षड् हस्तं मध्यमं भवेत्॥
अधमं पञ्चहस्तं स्यात् वस्त्रलक्षणमुच्यते।
असितं सन्न(सर्व)नाशं स्यात् हतराज्ञास्तु दोषभाक्॥
अदशं ग्रामनाशं स्यात् राष्ट्रनाशमलक्षणम्।
यावद्वस्त्रतज्ञानां परिमाणविधीयते॥
तावद्युग सहस्राणी शिवलोकेमहीयते।
वस्त्रलक्षणमेवं स्यात् शङ्खलक्षणमुच्यते॥
सौवर्णं रजतं ताम्रं काम्स्यपात्रं विशेषता।
पलाशपद्मपत्राभ्यां ताम्रपात्रसमं भवेत्॥ऴ्ऴ्ऴ्
शङ्खं चतुर्विधं ज्ञेयं ब्राह्मणादि क्रमेण तु।
लघुचायतसौभावं दीर्घाग्रपृष्टतस्समम्॥
उदरं पूर्णयित्वातु ब्राह्मणश्श्ङ्खमुच्यते।
अग्रदीर्घं समं…लावण्य कनकोज्वलम्॥
दक्षिणावर्त वृत्तेन क्षत्रियश्शङ्खमुच्यते। (फ़्।१४ब्)
ईशत्पीतं तु वर्णेन वामावृत्तेन संयुतम्॥
गुरुल्लघुसमं चैव वैश्यशङ्खमितिस्मृतम्।
शीद्रजात लघुश्चैव दीर्घ्वगां ह्रस्वपृष्टकम्॥
ईशत्कृष्णं समाशृत्य शूद्रशखमिति स्मृतम्।
गङ्गासङ्गरमध्ये तु ब्राह्मण क्षत्रिय शङ्खयोः॥
नर्मदासिन्धु मध्येतु वैश्यशूद्रस्य शङ्खयोः।
सर्वेपूर्ण…रुन्दद्यात् दक्षिणावर्तमुच्यते॥
अग्रेकुक्षुमयं प्रोक्तं कुक्षिर्ग॥(ङ्)गा प्रकीर्तिता।
पृष्टे ब्रह्मा इति प्रोक्तं पार्श्वे शाश्वनि(चाश्विनि) देवतौ॥
देवश्छन्दृषि चैवा चन्दसावित्रि चाङ्गिरा।
आचर्योधारयेच्छङ्खं शक्तिमन्त्रमनुस्मरन्॥
शङ्खलक्षणमेवं स्यात् पञ्चामृतमत शृणु। ऴ्ऴ्ऴ्
मन्त्रीरन्ध्रपदं विधायविधिवद्दुग्धाविधौ पूजयेत्॥
देवेन्द्रे दधि भानुजे नवघृतं सोमे मधुप्रोचितम्।
पश्चाश्चोदित शर्करां च वरुणे वह्नौ तु धात्रीं तथा॥
… रात्रि चरेत् विष्टमनिले शम्भो कुशाम्भस्तथा।
प्रागग्रं चतुस्सूत्रमन्दग्ग्रं तथैव च॥
तालमात्र प्रमाणेन कारयेद्देशिकोत्तमः।
शालिना माम्रकं श्रेष्ठं त्रिप्रस्थं मध्यमं भवेत्॥ (फ़्।१५अ)
द्विप्रस्थमधमं प्रोक्तं कलशानां पृथक् पृथक्।
तदर्धेस्तण्डुलैर्भूष्यं तदर्धैश्च तिलैरपि॥
लाजपुष्पैश्च दर्भैश्च षर्करैश्च विशेषतः।
कलशान् लक्षणोपेतान् चतुःप्रस्तेन पूरितान्॥
सूत्रेन वेष्टयेत् सर्वान् गवाक्षसदृशान्तरान्।
स्थण्डिलं ब्रह्मदैवत्यं दर्भाणां विष्णुदैवतम्॥
सूत्रमीश्वरदैवत्यम् अधिदेवाः प्रकीर्तिताः।
क्षीरं दधि घृतं चैव मधुश्शर्करसंयुतम्॥
पञ्चामृतं ब्रह्मपञ्च पूजयेत्सूत्र मन्त्रतः।
क्षौद्रं दुग्धं घृतं सर्पिरिक्षुसारं पृथक् पृथक्॥
पञ्चामृदमिदं प्रोक्तं ब्रह्माङ्गानि प्रपूजयेत्।
प्रत्येकं प्रस्थ सम्पूर्णं मध्यमन्तु तदर्धकम्॥
तदर्धमधमं ज्ञेयं पञ्चामृतमिहोच्यते।
पञ्चामृतानि पञ्चैते अभिषेकं पृथक् पृथक्॥
अभिषेकं प्रकर्तव्यं सद्यादि ब्रह्मपञ्चकैः। (फ़्।१५ब्)
कल्पकोटि सहस्राणि शिवलोके महीयते॥
स्नापयेद्देवदेवेशं दधिक्षीरघृतैस्तथा।
नालिकेरोदकेनैव मधुना ब्रह्मपञ्चकैः॥
पञ्चामृदं (इदं) प्रोक्तं पञ्चप(फ)लततशृणु।
कदलीपनसञ्चैव नालिकेरफलं तथा॥
आम्रञ्च मातुलङ्गञ्च एते पञ्चफलं भवेत्।
सद्यादीशान पर्यन्तम् अभिषेकं पृथक् पृथक्॥
क्षीरं दधि घृतं चैव मधु शर्करसंयुतम्।
पञ्चमृतेतु पञ्चाङ्गं प्रत्येकं विन्यसेत् क्रमात्॥
गोमयं रोचनामूत्रं क्षीरं दधि घृतं गवाम्।
षडङ्गानि पवित्राणि सर्वं सिद्धिकराणि च॥
नवकृत पदमध्ये दुग्धमैन्द्रे दधीस्यात्
यमदिशि घृतमिन्द्रो वारुणे गोमयौ द्वौ।
अनल निऋति वायुमीशकोणेषु पिष्ट-
मलक तदनुश्च विरशेत् ॥
सुरतिष्ठं सुशान्तं तेजोरूपश्च रत्नोदकममृतव्यक्त पात्रेषु।
तेषु क्षीरं दध्याज्य गोमूत्रमयकुशजलं गौरिकावाच पाद्याम्॥ (फ़्।१६अ)
शिवं सदाशिवं विद्यात् पुंस्तत्वं कालसञ्ज्ञकम्।
नियतिञ्च कलारागं विद्यागोष्ठं नवै बुधः॥
सुप्रतिष्ठं सुशान्तं च तेजोवदूत्नजं हृदा।
अमृतञ्चेति पात्राणि इति पात्राणि योजयेत्॥
कपिलायां घृतं श्रेष्ठं कृष्णां क्षीरमुत्तमम्।
श्वेतायां दधिमुख्यं स्यात् रक्तगोमूत्रमेव च॥
षकापात्रनिभाश्चैव सकृदुक्तन्तु दैविकम्।
एवं वै गव्यलाभन्तु श्वेतायं कृष्णये तु वा॥
देशकाले प्रसन्नात्मा सवत्सां गां विधीयते।
गृहीत्वा गे(गो)मयं खस्थं भूमौ न पतितं शुभम्॥
आहारे तत्प्रयत्नेन सद्यो दुग्धम्ं तु यत्पयः।
अतामन्दधि गृह्णीयात् सुदृढं प्रिय दर्शनम्॥
काश्यपं घृतमेवन्तु कौशिकं दधिरुच्यते।
भारद्वाजन्तु क्षीरं स्यात् गौतमं गोमयं तथा॥
अगस्त्यं चैव गोमूत्रम् ऋषयः परिकीर्तिताः।
घृतं वै रुद्र दैवत्यं दधिं वै सोम दैवतम्॥
क्षीरं तु शुक्र दैवत्यं गोमयञ्चार्क दैवतम्। (फ़्।१६ब्)
गङ्गायां चैव गोमूत्रं पञ्चगव्याधिदैवतम्॥
उत्तमं द्रोणमेवन्तु मध्यमं तु तदर्धकम्।
तदर्धमधमं ज्ञेयं त्रिविधं परिकल्पयेत्॥
घृतं वै प्रस्थमेवन्तु दधिं द्विप्रस्थमेव च।
क्षीरं त्रिप्रस्थमेवन्तु चतुः प्रस्थं तु गोमयम्॥
षट्प्रस्थं चैव गोमूत्रम् उत्तमन्तु प्रशस्यते।
प्रस्थर्धं तु घृतं चैव प्रस्थं तु दधिरुच्यते॥
प्रस्थं प्रस्थाकं क्षीरं द्विप्रस्थं गोमयं भवेत्।
त्रिप्रस्थं चैव गोमूत्रं मध्यमं तु प्रशस्यते॥
कुडुपन्तु घृतं चैव दधिं स्यात् कुडुपद्वयम्।
क्षीरं चैव त्रि॥दन्तु प्रस्थं गोमयमेवच॥
प्रस्थं प्रस्थार्ध गोमूत्रम् अधमं तु प्रशस्यते।
ईशानादीनि सद्यान्तं पूजयेत्तु विशेषतः॥
एक द्वि त्रि चतुः पञ्च वारैः षट्भिः कुशोदकम्।
दुग्धं शतृ निवारणं दधिघृतं पुत्रप्रदं मोक्षदम्॥
पापघ्नम् ॥ल गोमयं शुभकरं गोमूत्रधाराजलम्।
एतत्सर्वकरं कुशाग्रसलिलं गन्धेन सम्मिश्रितम्॥
क्षुत्वायुष्वभिरामदं यजिनृणां स्नानीयचूर्णत्रयम्। (फ़्।१७अ)
पञ्चगव्यं समाख्यातं ब्रह्मकूर्चं शृणुष्वथ॥
गोमूत्रं गोमयं क्षीरं दधिसर्पि कुशोदकम्।
ब्रह्मकूर्चमितिख्यातं ……।(पूजा)कालेभिषेचयेत्॥
पाद्यं पादे दधेद्धीमान् प्रतिपादं सकृत् सकृत्।
मुखेष्वाचमनं दद्यात् विच्छिन्नाम्बु धारया॥
अर्घ्यं शिरसिविन्यस्य गन्धमङ्गानुलेपनम्।
पुष्पं मूर्ध्नि विन्यस्याद्धूपं नासापुट॥भो॥
तथाहि दीपं नेत्रेषु भक्त्यं(क्ष्यं) करतलं न्यसेत्।
भक्ष्यं भोज्यान्नपानं च शोष्यं लेह्यं तथैव च॥
हस्तेद्वर्क्तन पुष्पञ्च पश्चादाचमनं ददेत्।
पाद्यं पृथिवि दैवत्यम् आचमनीयं सरस्वती॥
अर्ध्यं श्रीदेवि दैवत्यं गन्धं वै वायुदैवतम्।
पुष्पं गान्धर्व दैवत्यं धूपं वै चान्द्र दैवतम्॥
दीपश्चै(व)वाक् दैवत्यं सर्वेषां भावयेद्द्विजः।
सर्वेष्ठादेवतानाञ्च सव्यहस्तेन धारयेत्॥
पाद्यं तु पापनाशं स्यात् आचमं श्रीयावहम्।
अर्ध्यं तु कर्मसाफल्यं गन्धं गोवर्धनं भवेत्॥ (फ़्।१७ब्)
पुष्पं पुष्टिकरं प्रोक्तं धूपं दानन्तु शुद्धिदम्।
दीपं वश्यकरं प्रोक्तम् आरार्त्रिकञ्जयप्रदम्॥
भस्मं विश्वस्य रक्षार्थं भूपन्तश्च विशेषतः।
तर्पणं ज्ञानदं प्रोक्तं छत्रमाज्ञाप्रपालनम्॥
छामरं शतृनाशं स्यात् गीतं वाद्यं सुखप्रदम्।
नैवेद्यं धान्यवृद्धिं स्यात् पाणीयं प्राणरक्षनम्॥
क्षीरादिमधुरैश्चान्यैः वृष्ट्यार्थं ग्रहशान्तिकम्।
ताम्बूलं पुष्पदानञ्च लोकानां सौख्यमावहम्॥
स्नानञ्च रोगनाशार्थं पञ्चगव्यं मलापहम्।
आत्मसृष्टिकरं प्रोक्तं वस्त्रदानं भवेदिह॥
भोगाङ्गपूजनं चैव सर्वभोगमवाप्नुयात्।
राजाराष्ट्रञ्च सर्वेषां महाभोगमवाप्नुयात्॥
हेमरत्नं प्रवालादि भूषणैरर्थसम्भवम्।
फलं सस्यसमृद्धिं स्यात्सर्वदुष्कृतिनाशनम्॥
त्रिशूलाद्यायुधानाञ्च सर्वमन्त्रभ(म)यं भवेत्।
रोगशोकारिनाशार्थं सर्व दारिद्रनाशनम्॥
सर्वशतृक्षयकरं सर्वोपद्रवनाशनम्।
सर्वशान्तिकरं नृणां देवानाञ्च विशेषतः॥
आवाहनादिकं तस्यद्वादशं मात्रमुच्यते। (फ़्।१८अ)
पाद्यं तु पञ्चमात्रं स्यात् त्रिमात्राचमनं भवेत्॥
एकमात्रं भवेदर्घ्यं षाण्मात्रं गन्धमुच्यते।
धूपञ्चा दशमात्रं स्यात् षण्मात्रं दीपमुच्यते॥
आरात्र्यार्च्चनं सप्त नीराजनं तु षोडशम्।
भस्मनां दापयेत्पश्चात् सप्तमात्रं तु कथ्यते॥
व्यजनं च त्रिमात्रं स्यात् चामरं दशमात्रकम्।
छत्रं च पञ्चमात्रं स्यात् मुनिमात्रं तु तर्पणम्॥
निवेदनं ततः कुर्यात् चतुर्विंशतिमात्रकम्।
बलिदानकालं यत् अधिकं पञ्चविंशति॥
सौख्यं तु त्रिशतं प्रोक्तं नाडिकानाञ्च सङ्ख्यया।
पूज्यपूजकभावेना ज्ञात्वा यजनमारभेत्॥
पूज्य एवश्शिवं चैव पूज्यकश्शक्तिरुच्यते।
पूजाहीनेभवेद्रोगो पुष्पहीने कुलक्षयम्॥
गन्धहीने भवेत्कुष्ठि तोयहीनेतु दुःखदम्।
धूपहीने सुखं नाशं दीपहीने धनक्षयम्॥
नैवेद्यहीने दुर्भिक्षं मन्तहीने दरिद्रता।
वस्त्रहीने महारोगं होमहीने बलक्षयम्॥
बलिहीने महाव्याधि राज्यहीनेति मारणम्। (फ़्।१८ब्)
बिल्वदूर्वाक्षताहीने शतृभ्योभयमाप्नुयात्॥
घण्टाहीने बधिरित्वं मुद्राहीने सुराद्भयम्।
नित्याग्निकार्यहीनेतु पूजायां निष्फलं भवेत्॥
नित्योत्सवहीनेतु राजराष्ट्रभयं भवेत्।
सस्यद्रव्य विहीनेतु देवताकोपमेवच॥
द्रव्यहीनं तथा कर्तं मन्त्रहीनं तथा गुरोः।
पूजाहीने तु वैकल्यं पुत्रस्त्रीभूमिनाशनम्॥
वाद्यध्वनि विहिनेतु राक्षसैः परिभूयते।
तस्मात्सर्व प्रयत्नेना देवताभक्ति पूर्वकम्॥
मद्दलञ्च सुखञ्चैव तालङ्क्लेशहरं भवेत्।
पटहं पापनाशं च भेरीपुष्टि विवर्धनीम्॥
वामसेत प्रियञ्चैव कंसताले प्रियावहम्।
झल्लरी चेष्टकाम्यञ्च कुम्भवाद्यञ्च मोक्षदम्॥
नाडीसन्धानवाद्यञ्च कोटियज्ञफलं भवेत्।
वैणवं सुषिरं गानं पुत्रपौत्रविवर्धनम्॥
चारुचर्माणि सन्धानं वाद्यघोषं जयावहम्।
शङ्खध्वनि समायुक्तं सर्वशतृ निवारणम्॥
नृत्तं व्याधि विनाशञ्च गीतमायुष्यवर्धनम्।
नाटकं धान्यवृद्धिं स्यात् शुद्धवृत्ते शुभं तथा॥ (फ़्।१९अ)
शहमार्गेण कोण्डल्ये राजा विजयमाप्नुयात्।
न्यालं त्रैलोक्यवश्यं तु किटुकञ्च सुखावहम्॥
कद्रुटी दोषशुद्ध्यर्थं मुरसादृष्टि सम्भवम्।
धारायास्सर्वसिद्धिं स्यात् चिन्नं राजवशीकरम्॥
त्रियष्टं भोगमोक्षं च कत्तृका स्त्रीवशीकरम्।
गर्भगेहं च मन्यत्र शिवद्विजसमाचरेत्॥
अध्ययनमात्र विप्राणां मण्डपसंस्थितिः।
दीक्षितानां तपस्वीनां बाह्यमण्टपसंस्थितिः॥
अन्यजातिषु सर्वेषु स्थूपिं दृष्ट्वा स…।रेत्।
पाद्यादिरेवमाख्यातं पुष्पाणाञ्च विधिं शृणु॥
श्वेतं रक्तं तथा पीतं कृष्णं चेति चतुर्विधम्।
श्वेत…ञ्च पुन्नागं शङ्खपुष्पञ्च मल्लिका॥
नन्द्यावर्तं श्रियावर्तं मन्दारं बहुकर्णिका।
द्विकर्णि कुरवं जाति लक्ष्मी च वकुलं तथा॥ (फ़्।१९ब्)
श्वेतार्क मालति द्रोणमतसि श्वेतलोद्ध्रकम्।
वृषकासी सकुसुमं भू……………॥तथा॥
……श्वेतपुष्पाणि सात्विकानि र्दशेत्।
यथासम्भव पुष्पाणि पूर्वाह्ने चैव पूजयेत्॥
रक्तपद्मं पलाशञ्च रक्तोत्पलं च पाटलम्।
मौसली चैव दुर्धूरं बृहती करवीरकम्॥
व्याध्री च रत मन्दारं वाटिका वेजिका तथा।
रक्तान्येतानि पुष्पाणि राजसानि विनिर्दिशेत्॥
शौनक्यं कर्णिकारञ्च चम्पकं हेमदुर्धूरम्।
आरग्वधं चकोरण्डं शैलेयं गिरिकर्णिका॥
एतानि मिश्रपुष्पाणि कृष्णानि तामसानि वै।
ततो नीलोत्पलाद्यानि तामसानि विनिर्दिशेत्॥
नीलोत्पलसमं पुष्पं नभूतो नभविष्यति।
स्वर्णपुष्प सहस्रं तु नीलोत्पलसमं भवेत्॥
नीलोत्पलं हेमपुष्पं निर्माल्यं तु न वर्जयेत्।
प्रक्षाल्य पञ्चगव्येन पुनः पूजां समारभेत्॥
नन्द्यावर्तं श्रियावर्तं श्वेतार्कं श्वेतपद्मकम्।
उत्पलं पाटली द्रोणं मध्याह्नेतु प्रदापयेत्॥ (फ़्।२०अ)
चम्पकं बेजिका भद्रीधुर्धूरं बहुकर्णिकम्।
मालतीमल्लिकाचैव दाप…(येत्तु) प्रोदोषके॥
जाती नीलोत्पलं चैव बिल्वपत्रं कदम्बकम्।
द्विकर्णिञ्चैव भद्राच अर्धयामे प्रदापयेत्॥
बोल्वपत्रं तपस्वी च सहाभद्रा च तातकी।
अपामार्गं कुशादूर्वा पञ्चबिल्वं शमी तथा॥
बिल्वं कपित्थ निर्गण्डी घरणं शरणं तथा।
इत्येते पञ्चबिल्वानि महापातकनाशनम्॥
तुलसीदल सञ्ज्ञश्च जम्बुको नाग नन्दिका।
एकपत्रारविन्द(श्च) विष्णुक्रान्तिस्तथैवच॥
पत्रजातिषु सर्वेषु बिल्वपत्रं विशिष्यते।
पुष्पजातिषु सर्वेषु करवीरं विषिष्यते॥
तथैव पुष्पजातीनां पत्रं पुष्पमुदाहृदम्।
शमीव्याघातपुष्पञ्च अयुतं नियुतं फलम्॥
श्वेतमन्दारलुसुमं लक्षं तु फलमादिशेत्।
तस्मात् सर्वप्रयत्नेन पुष्पं गन्धं समायुतम्॥
अर्घ्यं निवेदितञ्चैव सर्वयज्ञफलं भवेत्।
आत्मारामोद्भवं पुष्पम् उत्तमं फलमादिशेत्॥ (फ़्।२०ब्)
अरण्येतु समुद्भूतं मध्यमं फलमादिशेत्।
………………………॥फलमादिशेत्॥
एकैकेनतु मासेन पुष्पमेकैकमर्च्चयेत्।
पुष्पाणिद्वादशैर्मासैः अर्कादीनि क्रमादिशेत्॥
अर्कबिल्वमपामार्गं द्रोणं चोत्पलपङ्कजम्।
व्याघातं बृहती व्याघ्री शमी चम्पक पाटली॥
मासेनेकैकपुष्पाणि अन्यानि परिवर्जयेत्।
यदृषाफलमाप्नोति मृत्युनाशं नसंशयः॥
यजेत् संवत्सरम् एतत् अश्वमेधफलं भवेत्।
पूजापुष्पं समाख्यातं वर्जपुष्पमथ शृणु॥
केतकी माधवी कुन्दं यूथिका मदयन्तिका।
शिरीर्ष जपबन्धूक जपापुष्पाणि वर्जयेत्॥
किंशुकार्तकरञ्चैव नीलकण्ठी च मे(व)च।
तलपेटकपुष्पाणि पिशाचकुसुमानि च॥
वर्जयेतानि पुष्पाणि विष्णुपूजार्हकं भवेत्।
पलाशं ब्रह्मणेदद्यात् तुलसी केशवाय च॥
चन्द्रवव्याश्च कुसुमम् इन्द्रप्रीतिकरं भवेत्।
श्वेतानि सर्वपुष्पाणि पूजयेत् शिवमादरात्॥
कृष्णं च गिरिकर्णीं(च) किंशुकं च विसर्जयेत्।
अतिपक्वमपक्वञ्च मुकुलं च विवर्जयेत्॥
केशकीटोऽपि विद्धानि लतसूत्रवृतानि च। (फ़्।२१अ)
स्वयं पतित पुष्पाणि सञ्चिता न स्व॥वस्त्रके॥
अतीतदिनपुष्पाणि पुर्यूषित विवर्जयेत्।
वस्त्रानीतं करानीतं काकसंस्पष्टमेव च॥
प्रत्युष पुल्लकुसुमं रात्रौ पाटितमेव च।
नाभेरधस्थादानीतं पादसंस्पृष्टमे(व) च॥
अवघ्रातं पक्षिभिश्चैव श्वभिक्कुक्कुटकादिभिः।
बिलालमुषिकास्पृष्टं महिषाश्वेतवानरैः॥
श्वासेनोपभतश्चैव स्पृष्टं चैपापरोगिभिः।
रजस्वलादि संस्पृष्टं श्मशानञ्च विवर्जयेत्॥
वर्जपुष्पं समाख्यातं शृणु धूपस्य लक्षणम्।
मधु शर्करखण्धञ्च कुन्दुरुक्षञ्च कुङ्कुमम्॥
धूपं वै सर्वगन्धेषु शिवप्रीतिकरं भवेत्।
एकद्वित्रिचतुर्थञ्च शङ्खञ्चन्दनलोहवत्॥
कैदुक्ष सहितचैव क्रमेण परिवर्धितम्।
शीतारिधूपमेवं तु मधुनाच परिप्मुतम्॥
चन्दनचैव नित्यासं कुन्दरुक्षञ्च कुङ्कुमम्।
मेखञ्च कृष्णलोहञ्च कर्पूरञ्च क्रमेणतु॥
सप्तर्षभूतवेदाश्च अन्यश्विन्यबरांशका।
आहृत्यचूर्णयित्वातु मधुनाच परिप्लुतम्॥
एतश्छितानि धूपन्तु शिवप्रीतिकरं भवेत्।
………॥………॥न्दुरिष्कं चतुर्गुणम्॥
गुणञ्चाष्टगुणञ्चैव धूपं रुद्रेण निर्मितम्। (फ़्।२१ब्)
कृष्णलोहञ्च निर्यासं …………॥॥
………॥।णमीषत् कर्पूरमिश्रितम्।
उत्तमं धूपमाख्यातं मधुनाच परिप्लुतम्॥
चन्दनोशीरसंयुतं लघुक्तमधुप्लुतम्।
भागन्तु पू(र्व)वत्प्रोक्तं मध्यमं धूपमुच्यते॥
गुङ्गुलं घृतसंयुक्तम् अधमं धूपमुच्यते।
दीपाङ्गार समायुतं घणावामकरान्वितम्॥
धूपपात्रं समादाय विधिवत्धूपदापयेत्।
सादाख्यं शिवधूपं (च) चण्डेशाय प्रदापयेत्॥
धूपपात्रं च सङ्क्षाल्य कष्ठादग्निञ्च पूर्यतत्।
तत्पुरुषेणतु धूपं स्यात् सकल(ला)नान्निवेदयेत्॥
निवेद्यं सदाशिवं धूपं सकलेनाभिचारकम्।
धूपद्रव्यसमाख्यातं दीपलक्षणकं शृणु॥
कपिलाघृतेन दीपन्तु पीतरक्तसितेनवा।
अलाभे चाघृतं दीपं शुद्धतैलेनवा पुनः॥
कपिलायां घृतं श्रेष्ठम् अन्येषां मध्यमं भवेत्।
अधमं स्यादजासर्पि शुद्धतैलं तथैव च॥
सात्विकं तामसं चैव तामसञ्च क्रमेणतु।
कर्पूरवर्तितं दीपं दापयेत्सर्वसिद्धिदम्॥ (फ़्।२२अ)
माहिषं घृतमुद्भूतं सर्वकार्येषु वर्जयेत्।
औष्टं माहिषमाश्चन्तु भूतं (च) परिवर्जयेत्॥
वृक्षदीपोद्भवैः स्तेहैश्शिवदीपन्तु वर्जयेत्।
उत्सवेतु प्रकर्तव्यम् अन्यदीपेतु वर्जयेत्॥
उत्तमं तु भवेद्दीपं ज्योतिस्तद्वादशाङ्गुलम्।
चतुरङ्गुलं तु कर्तव्यं स्याद्दीपं तु मध्यमम्॥
त्रियङ्गुलसमादाय तद्दिपमधिकं भवेत्।
त्रियङ्गुलाद्येकपर्यन्तं क्षुत्रदीपं यथाक्रमम्॥
अङ्गुष्ठस्य परुणाहं वर्तिस्यादुक्तमस्यतु।
अनामिका परीणाहं वर्तिस्यात् मध्यमा शुभा॥
कनिष्ठिकापरीणाहं वर्तिस्यादधमस्यतु।
नवसप्तपञ्चमं सूत्रं क्षुद्रदीपानि कारयेत्॥
उत्तमस्यभवेदाज्यं त्रिप्रस्थं परिकीर्तितम्।
मध्यमस्य भवेदाज्यं प्रस्थार्धं समुदाहृदम्॥
तदर्धं मध्यमं ज्ञेयम् उत्तमादि त्रयं भवेत्।
दीपवर्ति शिखा ज्योति दीपपूजा शिवप्रिया॥ (फ़्।२२ब्)
एकं वापि अनेकं वा देवपूजा………॥।।
……………………पिकाश्यनुरूपतः॥ (२न्द् ऴिने)
अजस्रदीपमीशानं यजं शिवमनामयम्।
शिवस्य राज्ञो राष्ट्रस्य साधकस्य विशेषतः॥
शून्यदीपं शिवं पश्येत् इति होमार्थ साधकम्। (३र्द् ऴिने)
यजमानस्य नश्यन्ति राजा नरकवासनः॥
अलक्षी(क्ष्मी)र्जायते तस्य लक्ष्मी चापि विनश्यति।
आयुश्च नश्यते तस्य रोगवानपि जायते॥ (४थ् ऴिने)
तस्योपायं प्रवक्ष्यामि अप्रकाश्यं सरेष्षफ।
मायापि तश्रुतं पूर्वं सकाशात् परमैष्टिना॥ (५थ् ऴिने)
ज्योतिर्लिङ्गमयं ज्ञात्वा भावयेद्देशिकोत्तमः।
देवप्रियं शुभं राष्ट्रं राज्ञोदेश विवर्धनम्॥ (६थ् ऴिने)
दीपनामार्चने काले तदर्च सुरसं ग्रहम्।
पूजाद्रव्यं समाख्यातं प्राणायामत्रयं श्रुणु॥
पद्मञ्च स्वस्तिकं चैव गोमुखं विकटं तथा। (७थ् ऴिने)
सूचिं वै एकपादन्तु कुङ्कुटं वीरमेवच॥
भद्रासनं भवेत् पृष्ठं कूर्मं विमलमेवच। (फ़्।२३अ)
दण्डपिण्डञ्च गोकर्णं सिह्मासनमतः परम्॥
वृत्तञ्चोद्घटिकाञ्चैव गजास्यं गजकर्णकम्।
आसनं विंशति प्रोक्तं प्राणायामं समभ्यसेत्॥ (२न्द् ऴिने)
स्थिरं सुखासनं प्रोक्तं सर्वतन्त्रसु पूजितम्।
यधिकारादि भाण्धा(न्धा।ण्ढा)नां त्रिपादे समुपस्थितम्॥
तस्मात् सर्व प्रयत्नेन आसनं पूर्व मभ्यसेत्। (३र्द् ऴिने)
वीरासनस्थो योगीन्द्र प्राणायामं समभ्यसेत्॥
धारणा सिद्धमाप्नोति प्रणायामे षडानन। (४थ् ऴिने)
तपस्सिद्धं(द्धिं) योगसिद्धिं समाधिं शाश्वतं परम्॥
स्वर्गापवर्गफलदं प्राणायामेन वै गुह।
सर्वदेवफलं चैव सर्वतीर्थफलं च तत्॥ (५थ् ऴिने)
प्राणायामेन वै वत्स शिवार्चनफलं भवेत्।
मृगाजिनोपरि कुशं वारणान न नन्दना॥ (६थ् ऴिने)
तस्योपरि सुखासीनं प्राङ्मुखोवाप्युदङ्मुखः।
अतिभुक्तमभुक्तं च वर्जयित्वा समाहितः॥
निपाते निर्जनेदेशे उपदंशादि वर्जिते। (७थ् ऴिने)
ऋजुग्रीव शिरोभूत्वा दन्तैर्दन्तान संस्पृशेत्॥
नासाग्रदृक्…सीनो दिशर्चन विलोकयेत्। (फ़्।२३ब्)
नाडीसंशोधनं कृत्वा मन्त्रदीपेन मन्दिरे॥
दक्षिणेपूरयित्वातु वामे …………।।
……………………।संयुतं भवेत्॥ (२न्द् ऴिने)
पूर्ववत् पूरयेद्धीमान् वामेनतु समाहितः।
पादाङ्गुष्ठात् समारभ्य यावत् प्राणमिहैवतु॥
दक्षिणे पिङ्गले चैव रेचयेत् पूर्वमेव हि। (३र्द् ऴिने)
द्वामहस्स्तं तु तर्जन्यां सवानासां सुसम्पुटम्॥
दक्षिणेन स्पृशं वायु रेचकं पञ्चमात्रकम्।
सव्यहस्तस्य तर्जन्यां सव्यनासासु सम्पुटम्॥ (४थ् ऴिने)
वामनासोद्धृतं वायु रेचयेत् पञ्चमात्रकम्।
एवं वै पञ्च षट् सप्त षण्मासं वत्सरन्तु वा॥ (५थ् ऴिने)
नासाशुद्धिमवाप्नोति ग्रन्थिदोषविवर्जितम्।
प्राणायामं भवेत् पश्चात् प्रासादेनतु षण्मुख॥ (६थ् ऴिने)
पूर्वं षोडशमात्रातु पूरयेद्दुदरं बुधा।
चतुष्षष्टिमात्रकं कुम्भं सर्वदेवस्समं भवेत्॥
रेचयेदुधृध्वतोवायु द्वात्रिंशत् मात्रया सहा। (७थ् ऴिने)
एवं वै ब्राह्मणानाञ्च रेचपूरककुम्भकम्॥
षोडश प्राणायामैस्तु नित्यमेवं समभ्यसेत्। (फ़्।२४अ)
चिह्नेऽस्मिन् श्रियमाप्नोति प्राणायामेन वै गुह॥
प्राणादि विजयं पश्चात् बीजं वर्णं तु स्थानकम्। (२न्द् ऴिने)
यकारं प्राणजीवं तु नीलजीमूतसन्निभम्॥
रेफं चाग्निरपानं तु मार्ताण्डोदय भासकम्।
लकारव्यानमित्युक्तं चक्रबन्धूकसन्निभम्॥ (३र्द् ऴिने)
वकारोदान इत्युक्तो वरुणश्शङ्खसन्निभम्।
भकारस्समा इत्युक्तो स्फटिकाभश्शिवो भवेत्॥
हृन्नाभि नासिकर्णञ्च पादाङ्गुष्ठान्त संस्थितम्। (४थ् ऴिने)
प्राणस्थानमिदं प्रोक्तं ब्रह्मग्रन्थि कुमात्तत॥
अपानमेढ्रवायुश्च ऊरुवक्षश्च जानुनि। (५थ् ऴिने)
उदरे जङ्घयोश्चैव नाभिमूले कटीतटे॥
व्यानेग्रोश्च चक्षुश्च घ्राणयोर्गलदेशके।
पार्श्वयोकूतदीकाय जङ्घयोर्गुल्फयोरपि॥ (६थ् ऴिने)
उदानस्सर्वसन्धिस्थ पादौ हस्तौ तथाङ्गुलि।
समानस्सर्वदेहेषु पादाङ्गुष्ठादिकान्तकम्॥ (७थ् ऴिने)
द्वारि सप्त सहस्राणि नाडीमार्गेण संस्थिति।
अष्टाविंशति कोणेषु रोमकूपेषु संस्थिता॥
समानप्राण एकस्तु जीवस्थे एक एवहि। (फ़्।२४ब्)
शनैस्समस्तमाकृष्य हृत्सरोरुह केसरे॥
पूर्ववत् पूरयित्वातु ………………।।
…………कृत्वा कन्देवै तालु रन्ध्रके॥ (२न्द् ऴिने)
कोदण्डद्वयमध्येतु ब्रह्मरन्ध्रेतु शान्तिके।
रज्वग्नि चोद्भवे चैव बन्धु माहेश्वरं परम्॥ (३र्द् ऴिने)
सदाशिवं पदं पश्चात् नयेद्देवो न देशिका।
ततो निर्वाणमाप्नोति मृत्युजिन्तान सम्भवा॥
सृष्टिमार्गं नयेत् पश्चात् शिवं चैव तथात्मके। (४थ् ऴिने)
सदाशिवम् अघटिका महेशं घटि पञ्चकम्॥
बिन्दोर्वै चतुर्घटिका नादे चैव त्रयं भवेत्। (५थ् ऴिने)
ज्योत्स्ना द्विरक्तिके चैव सोमयोगे तटसंस्थित॥
रश्मिस्तु घटिकार्धेन तदर्धं शक्ति गोचरे।
हृन्मध्ये तालुरन्ध्रे च तदर्धेन स्थितं गुहा॥ (६थ् ऴिने)
हृदये शिवास्त्र कुर्वीत प्राणायामेन वै गुहा।
देशिकोवत्सरं ह्येवं प्रासादेनतु बहिरङ्गे॥ (७थ् ऴिने)
प्रधानं तु प्राणायामम्।
रेचकं ब्रह्मदैवत्यं पूरकं विष्णुदैवतम्॥
कुम्भकं विष्णु (रुद्र) दैवत्यमधिदेवा प्रकीर्तिता। (फ़्।२५अ)
मृत्युञ्जयमवाप्नोति ततो वायुञ्ज…पयेत्॥
प्राणायाममिदं प्रोक्तं ……………॥।
…………। त्वा रुचिरासन संस्थिता॥ (२न्द् ऴिने)
दशदिक्ष्वस्त्र मन्त्रेण दिश्वे रचनमारभेत्।
पृथिव्यप्स्तथा तत्तेजो वायुराकाशमेव च॥
शु………भूतानि शरीरस्थानि षण्मुख। (३र्द् ऴिने)
पञ्चधा शोध्यपादादिमूर्ध्नचान्तं यथा क्रमम्॥
आजानु पृथ्वी न्यस्त्वा नाभिं सलिलन्ं न्यसेत्।
आगलं तेजसं न्यस्य मूर्ध्नि वायुञ्च विन्यसेत्॥ (४थ् ऴिने)
मूर्ध्नान्ते व्योमविन्यस्य पञ्चभूतं क्रमान्यसेत्।
पृथिव्यादिक व्योमान्तं स्थानकं वर्णदैवतम्॥ (५थ् ऴिने)
चतुरश्रं चतुर्वृत्तं पीतवर्णं तथैव च।
आजानु रुद्रवर्णान्तं ब्रह्माणमधिदैवतम्॥
मण्डलं तु ततोवक्ष्ये उपर्युपरि संस्थितम्। (६थ् ऴिने)
अप्सुबीजं तथा वर्णं श्वेतवर्णाथ वर्तुलम्॥
आनाभि विष्णु दैवत्यं ब्रह्मणां परिसंस्थितम्। (७थ् ऴिने)
आपस्तत्त्वोपरिज्वालैः त्रिकोणं रक्तवर्णकम्॥
आकण्ठवर्णयातञ्च रुद्राणामधिदैवतम्।
षट्कोणं धूम्रवर्णञ्च भूतान्तम् ऊर्ध्वदेशके॥ (फ़्।२५ब्)
ईश्वरञ्चाधिदैवत्यं वायुतत्वं प्रकीर्तितम्।
वृत्तमण्डलमित्याहुः मूर्ध्नान्ते स्थटिकाकृति॥ (२न्द् ऴिने)
शान्तं सदाशिवं देवम् आकाशमिति कीर्तितम्।
आकाशादूर्ध्वे तस्यान्ते शक्तिबीजं तु वाक् भवम्॥
तस्यान्ते च शिवज्योतिश्शुद्धस्फटिक सन्निभम्। (३र्द् ऴिने)
शिवतत्वे परे सूक्ष्मे ज्योतिर्मन्त्रं प्रकीर्तितम्॥
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः। (४थ् ऴिने)
शक्तिश्शिवमयञ्चैव सप्तमं परिकीर्तितम्॥
पञ्चधाशोध्यपादादि पृथिवीजानुकान्तकम्।
चतुर्धाचापशुद्धिस्याज्जानुभ्यां नाभिकान्तकम्॥ (५थ् ऴिने)
त्रिधा वै तेजसा शुद्धिः नाभिरूर्ध्वं गलान्तकम्।
द्विधावै वायुशुद्धिस्तु गलाधिकञ्च कारयेत्॥
पाशुपतेन शास्त्रेण पञ्चग्रन्थिञ्च छेदयेत्।
सुषुम्नाग्राशिवास्त्रेण त्वाकाशग्रन्थि……॥
वीणादण्डान्त संयुक्तं शिवस्थानं प्रकीर्तितम्।
तदूर्ध्वे द्वादशाङ्गु…………………।॥
…………………तत्पुरुषेणयोजयेत्। (फ़्।२६अ)
तच्छिवं योजयेत् पश्चात् शिवे परमकारणे॥
……………………………………।।
॥वाग्रेद्वादशाङ्गुल्ये शुद्धस्फटिक निर्मले॥ (२न्द् ऴिने)
शिवतत्वे परे सूक्ष्मे ज्योतिरूपेतु निष्कले।
संहारमुद्रयाचैव अं…न्त्रपूजयेत्॥ (३र्द् ऴिने)
संहारमुद्रयाचैव हंसेनात्मनियोजयेत्।
वायुमण्डलमध्यस्थं वायुबीजमयं भवेत्॥
शुष्ककाष्टमिवात्मानं दह्यमानं विचिन्तयेत्। (४थ् ऴिने)
त्रिकोणेचाग्निभुवने ज्वालामालैर्विभूषितम्॥
यथाद्वितीयाक्षरान्तस्थं प्रणवूर्ध्वं प्रतिष्ठितम्। (५थ् ऴिने)
पादाङ्गुष्ठात् समारभ्य दहेत्यावच्छिरोन्तकम्॥
कलेबरं दहेद्धीमान् भस्मकूटमिवस्थितम्। (६थ् ऴिने)
भस्मकूटमिवध्यात्वा निर्दग्ध्येतु स्वकान्तिकम्॥
तारा मध्यो(ध्ये) स्थितं चन्द्रं वर्गस्य चतुरश्रकम्।
श्वेतपद्मोपरिष्ठातु योगपीठमधोमुखम्॥ (७थ् ऴिने)
शुद्धस्फटिक सङ्काशमकारञ्चात्म सम्भवम्।
विद्यातत्वमकारञ्च शिवतत्वं हकारकम्॥
अमृतं प्लावयित्वातु शरीरोर्वेतु कारणम्। (फ़्।२६ब्)
सदाशिव तनुध्यात्वा आत्मानं व्यानयेत्ततः॥
हंसेनैवति बीजेन आत्मानं व्यानयेत् सुधीः।
अमृतं प्लावयेद्विद्वान् मध्ये देहान्त संस्थितम्॥ (२न्द् ऴिने)
तेनामृतेन सर्वाङ्गं सम्प्लाव्यं तु विचक्षणः।
प्राकृतं भावमुत्सृज्य शिवोहमिति भावयेत्॥ (३र्द् ऴिने)
प्रथमन्तु करन्यासमङ्गन्यासमतः परम्।
शोधयेदस्त्रमन्त्रेण स्थलिकौ हस्तपृष्ठकौ॥
अङ्गुष्ठादि कनिष्ठान्तं सृष्टिन्यासमुदाहृदम्। (४थ् ऴिने)
कनिष्ठाद्यङ्गुष्ठान्तं यत्संहारन्यासमुच्यते॥
ईशानादिस्द्यान्तं सृष्टिन्यासमुदाहृतम्। (५थ् ऴिने)
सद्यादीशान पर्यन्तं संहारन्यासमुच्यते॥
दक्षिणाङ्गुष्टमादिस्यात् कनिष्ठादितरेन तः।
दशबीजन्यसेद्धीमान् स्थितिन्यासमतः परम्॥ (६थ् ऴिने)
तर्जन्यान्तं तु मधयादि क्रमादङ्गानि विन्यसेत्।
शिवाङ्गन्यासमेवं स्यात् शिवं पर्वणि पर्वणि॥
……।मार्गेण करन्यासं तु कारयेत्।
अपत्निको वस्थश्च संहारन्यासमुच्यते॥
………………………………।
मूर्ध्नादि सृष्टिमन्त्रोकतं पादादिस्संहृदिर्भवेत्॥ (फ़्।२७अ)
तन्मूर्ध्नि विन्यसेदीशं …………।
……………………… विन्यसेत्॥ (२न्द् ऴिने)
सद्यमन्त्रौ तु पादौतु ततस्वङ्गानि विन्यसेत्।
शिखायातु शिखान्यस्य कवचस्तनमध्यतः॥
लोचनेतु न्यसेन्नेत्रम् अस्त्रं हस्तप्रदेशता। (३र्द् ऴिने)
अष्टत्रिंशत् कलान्यासं विधिनाकारयेद्बुधः॥
मूर्ध्ने ललाटस्योर्ध्वेतुकण्ठस्यौर्ध्वं यु दक्षिणे।
पीठरोर्ध्वं तु वामकर्णो ईशानस्य कलान्यसेत्॥ (४थ् ऴिने)
ऒम् ईशानस्सर्वविद्यानां शशिन्यै नमः ।
ऒम् ईश्वरस्सर्वभूतानामङ्गदायै नमः। (५थ् ऴिने)
ऒं ब्रह्माधिपतिर्ब्रह्मणोधिपति ब्रह्माधिष्टायै नमः।
ऒं शिवोमे अस्तु मरीच्यै नमः।
ऒं सदाशिव ज्वालिन्यै नमः।
ईशानस्य कलापञ्च मूर्ध्नादि परिकल्पयेत्॥ (६थ् ऴिने)
मुखेषु दक्षिणे कर्णे पीठरे वामकर्णके।
चत्वारिंशत्प्रदेशेषु तत्पुरुषस्य कलान्यसेत्॥ (७थ् ऴिने)
ॐ तत्पुरुषाय विद्महे शान्त्यै नमः।
ॐ महादेवाय धीमहे विद्यायै नमः।
ॐ तन्नो रुद्र प्रतिष्ठायै नमः । (फ़्।२७ब्)
ॐ प्रचोदयाय निवृत्यै नमः।
वक्त्रादि चतुर्दिक्षु तत्पुरुषस्य कलान्यसेत्।
हृदये गल…………॥ नाभिरेव च॥ (२न्द् ऴिने)
पृष्ठे चोरसि वै वत्स अघोरस्य कलान्यसेत्।
ॐ घोरभ्यस्तमायायै नमः।
ॐ अथघोरेभ्यो मोहायै नमः।
ॐ अघोररक्षायै नमः। (३र्द् ऴिने)
ॐ अघोरतरेभ्यश्च निष्ठायै नमः।
ॐ सर्वतस्सर्वमृत्यवे नमः।
ॐ सर्वेभ्योमायायै नमः
ॐ नमस्तेस्तु रुद्रभयायैः नमः। (४थ् ऴिने)
ॐ रूपेभ्योजरायै नमः।
हृदयाद्यष्टकोणेषु अघोरस्य कलान्यसेत्॥
मेढ्रलिङ्गे च ऊरूच जानुनि जङ्घयोरपि। (५थ् ऴिने)
स्फिजौ कटि तथा पार्श्वे वामदेव कलान्यसेत्॥
ॐ वामदेवाय नमो जरायै नमः।
ॐ ज्येष्ठाय नमोरक्षायै नमः। (६थ् ऴिने)
ॐ रुद्राय नमो रत्यै नमः।
ॐ कालाय नमो पाल्यै नमः।
ॐ कल…॥ नमः।
ॐ विकरणाय नमः।
ॐ संयमिन्यै नमः। (७थ् ऴिने)
ॐ बलक्रियाय नमः।
ॐ विकरणाय नमो बुद्धै नमः।
ॐ बलकार्यै नमः।
ॐ प्रमथनाय नमो धात्रै नमः।
ॐ सर्वभूतदमनाय नमो भ्रामिण्यै नमः। (फ़्।२८अ)
ॐ मनोमोहिन्यः नमः।
ॐ उन्मनाय नमो भवायै नमः।
मेढ्रादिषु त्रयोदश्यां वामदेव कलान्यसेत्। (२न्द् ऴिने)
पादयोरुभयोश्चैव हस्तयोरुभयोरपि।
बाह्वोर्णास्यं शिरश्चैव सद्योजातकलान्यसेत्। (३र्द् ऴिने)
ॐ सद्योजातं प्रपद्यामि सिद्ध्यै नमः।
ॐ सद्योजाताय वै नमो ऋद्धै नमः।
ॐ भवेद्युत्यै नमः।
ॐ भवेर्लक्ष्मै नमः। (४थ् ऴिने)
ॐ अनादिभवे मेधायै नमः।
ॐ भजस्वमां कान्त्यै नमः।
ॐ भवस्वधायै नमः।
ॐ उद्भवाय नमो धृत्यै नमः। (५थ् ऴिने)
पादादि चाष्टदेशेषु सद्योजात कलान्यसेत्॥
परार्थे पूजने न्यासम् आत्मार्थे अक्षरान्यसेत्।
शृणु चाक्षरविन्यासं प्रवक्ष्याम्यनु षण्मुखा॥ (६थ् ऴिने)
अकारादि क्षकारान्तं मातृकां विन्यसेत्…।
………नेत्रेषु कर्णयोश्च द्विगण्डयोः॥ (७थ् ऴिने)
नासाविष्टद्वयो चैव दन्तपङ्क्ति… ।
……लु रन्ध्रे तु स्वरैष्षोड(श)कान्यसेत्॥ (फ़्।२८ब्)
कवर्गं सव्यहस्तेतु चवर्गं वाम……।
…॥पादे तवर्गं वामपादके॥ (२न्द् ऴिने)
पफोदक्षिणपार्श्वेतु बभौ वै वाम पार्श्वके।
कण्ठदेशे मकारस्तु …॥तु विन्यसेत्॥ (३र्द् ऴिने)
क्षकारं मेढ्रदेशेतु विन्यसेत्तु विचक्षणः।
उत्सृज्य प्राकृतं भावं शिवोहमिति भावयेत्॥ (४थ् ऴिने)
एवं कृत्वा विशेषेण अन्तर्यागं समाचरेत्।
हृदये च विधानं तु नाभौ होमं प्रकल्पयेत्॥ (५थ् ऴिने)
ललाटे चीश्चरं ध्यात्वा अधूमज्योतिरूपिणम्।
सकलं निष्कलञ्चैव तथा सकलनिष्कलम्॥
सकल महेश्वरं विधि शिवं सकलं निष्कलम्। (६थ् ऴिने)
निष्कलं तु शिवं विधि शिवस्थां चिन्तयेद्बुधः॥
सम्प्रतं कथयिष्यामि सकलं शृणु षण्मुख। (७थ् ऴिने)
शुद्धस्फटिक सङ्काशं गोक्षीरधवलप्रभम्॥
त्र्यक्षं दशभुजं शान्तं जटामकुटमण्डितम्।
त्रिवक्त्रं च त्रिमूर्धानं सर्वाभरणभूषितम्॥ (फ़्।२९अ)
दिव्याम्बरधरं देवं देव्यगन्धानुलेपनम्।
बद्धपद्मासनं देवं श्वेत पङ्कज संस्थितम्॥
वृषभवाहनं देवं त्रिशूलं परशुधारिणम्। (२न्द् ऴिने)
खट्ग घण्टाधरञ्चैव वज्रतोमरधारिणम्॥
अग्नि नागधरं देवं महेशं नगदीश्वरम्। (३र्द् ऴिने)
सहस्रादित्य सङ्काशं शुद्धस्फटिक सन्निभम्॥
भुजैष्षोडशभिर्युक्तं पञ्चवक्त्रं त्रिलोचनम्।
वक्त्रे वक्त्रे त्रिणेत्रं तु पञ्चमूर्ध्नि विभूषितम्॥ (४थ् ऴिने)
यज्ञोपवीत संयुक्तं सर्वाभरण् भूषितम्।
दुकूलं पट्टवस्तैश्च सश्छिन्नं परमेश्वरम्॥
ललाटहेमपट्टैश्च सर्वरत्नैर्विभूषितम्। (५थ् ऴिने)
छिन्नवीरैर्पञ्चशरैर्भूषितं परमेश्वरम्॥
केयूरैपञ्चभुर्युक्तं सर्वरत्नैर्विभूषितम्। (६थ् ऴिने)
श्वेतपङ्कजमारूढं सहस्रदलशोभितम्॥
गङ्गा यमुन गौतमा नर्मदा च सरस्वती।
सरयू गण्डकी चैव चामरैर्मिश्रपाणयः॥ (७थ् ऴिने)
दिव्यगन्धानुलिप्ताङ्गं दिव्यस्रग्दामलम्बितम्।
कल्पकद्रुम……………।चम्पकैः॥
जाती वकुल मन्दारैः पञ्चमूर्धिर्विशेषतः। (फ़्।२९ब्)
नवशक्ति परुताङ्गा देव……॥॥
……………………………।
वामदेवश्चोत्तरतः विपुलश्च शिखैयुतम्॥ (२न्द् ऴिने)
तदूर्ध्वं त्रिशिखैर्युक्तं तदूर्ध्वं त्रिपुरेव च।
पञ्चरत्नैर्विचित्रन्तु पञ्चमूर्ध्नि षडानन॥ (३र्द् ऴिने)
दक्षिणं सुमुखं वक्त्रं पूर्वं चैव परङ्मुखम्।
पश्चिममपरश्चैव उत्तरं तु मुखं भवेत्॥
ऊर्ध्वमुखं परश्चैव ऐशान्यां दिशिमाश्रितम्। (४थ् ऴिने)
पञ्चवक्त्रं प्रकल्प्येत पूर्वादीनि प्रदक्षिणम्॥
ईशानं मूर्ध्नि विन्यस्य पुरुषं पूर्ववक्त्रकम्। (५थ् ऴिने)
अघोरं दक्षिणं वक्त्रं सद्यं पश्चिमतोन्यसेत्॥
वामदेवेन वक्त्रेण उत्तरं तु प्रकल्पयेत्।
स्फटिकं कुङ्कुमं कृष्णं गोक्षीरं जपपुष्पकम्॥ (६थ् ऴिने)
इत्येवं पञ्चवक्त्राणां वर्णमन्त्रा प्रकीर्तिताः।
ब्रह्मा विष्णुश्च देवेशस्सर्वकारणकारणम्॥ (७थ् ऴिने)
हृदयं महेश्वरं स्थानं नाभिदेशे सदाशिवम्।
शिवस्य शाश्वतं स्थाने परब्रह्मसदाशिवम्॥
कन्देहन्तन्तु नालं नवनवकदलं। (फ़्।३०अ)
द्वादशार्धार्धसूक्ष्मं विंशद्देव्यर्धभागकम्॥
विषयविलसितं रूपं रूपवत् सर्वभाव(क)म्।
सप्तविंशत्यावरणे षोडशन्तु विशेषतः॥ (२न्द् ऴिने)
पञ्चावरणं पश्चात् पूजयेद्धृदयाम्बुजे।
गन्धपुष्पादिभिश्चैव धूपदीपार्घ्यमेव च॥
दधिक्षीरघृताद्यैश्च मधुनैवेद्यकैरपि। (३र्द् ऴिने)
मानसे नैव भावेन महेशं चिन्तयेत् बुधः॥
एवं सदाशिवं चैव शक्तिबीजाङ्कुरादिभिः। (४थ् ऴिने)
अन्तः करणमाख्यातं स्थानशुद्धिं ततः शृणु॥
शिवाग्रे मण्डलं कृत्वा हस्तमात्रेण देशिकः। (५थ् ऴिने)
आवाहयेत्ततोभूमिं सर्वाभरणभूषिताम्॥
गन्धादिभिस्समभ्यर्च्य हृदये नैव मन्त्रतः। (६थ् ऴिने)
अस्त्रेणैवतु मन्त्रेण दिग्विरेचनमारभेत्॥
स्थानशुद्धिरितिप्रेक्तं द्रव्यशुद्धिं ततः शृणु।
अर्घ्यपात्रं शरावञ्च पाद्यमाचनपात्रकम्॥ (७थ् ऴिने)
शङ्खं च जलभाण्डानि अस्त्रमन्त्रेण क्षालयेत्।
पञ्चब्रह्मं………………बीजैर्वापस्तु षण्मुखा॥ (फ़्।३०ब्)
अस्त्रेण शोधयेत्तत्र कवचेनावकुण्ठयेत्।
…………………………………॥॥
………।ब्रह्माणि शिवविद्याङ्ग संयुतम्। (२न्द् ऴिने)
शिवभूतं तु तत्तोयं मन्त्रमन्त्रं तु संस्तुतम्॥
कुशे निप्रोक्षये द्रव्यान् …॥प्रकल्पितान्।
हृदयेनतु मन्त्रेण बिन्दुं बिन्दुं विनिक्षिपेत्॥ (३र्द् ऴिने)
द्रव्यशुद्धिर्भवेदेवं द्वारपूजा विधिं शृणु।
पूर्वद्वारस्य पालौतु नन्दिकालौ प्रतिष्ठितौ॥ (४थ् ऴिने)
दक्षिणद्वारपालौतु डिण्डिमुण्डौ तथैव च।
पश्चैमद्वारपालौतु भृङ्गीशो विजयस्तथा॥
उत्तरद्वारपालौतु अनन्तपशुपतिस्तथा। (५थ् ऴिने)
नन्दिनश्याम वर्णं स्याद्दक्षिणे तु प्रतिष्ठिता॥
महाकालोकुङ्कुमाभं चोत्तरेतु प्रतिष्ठिता।
दण्डीचैन्द्रेकोपाभो दक्षिणे चैव चस्थिति॥ (६थ् ऴिने)
मुण्डीतु श्वेतरूपं स्यात् वामभागेतु विन्यसेत्।
भृङ्गी मयूरग्रीवाहो दक्षिणे स्थापयेत् क्रमात्॥ (७थ् ऴिने)
वामेतु विजयं स्थाप्य विद्रुमाभिश्च संयुतम्।
अनन्तं कनकरूपं स्यात् सव्यभागेतु विन्यसेत्॥
असव्येस्थापयेद्धीमान् पशुपतिं नीलवर्णकम्। (८थ् ऴिने)
नन्दीशो दण्डहस्तं स्यात् कालो परशुधारकः॥
दण्डीशो खट्गहस्तं तु मुण्डीशो पिण्डिपालघृक्। (फ़्।३१अ)
भृङ्गीतु शक्ति हस्तं स्यात् विजयो शूलधारकः॥
अनन्तो वज्रह…………………………।
………।स्सर्वे द्विभुजा वापिकारयेत्॥ (२न्द् ऴिने)
सर्वाभरण् संयुकता मकुटाद्यैर्विभूषिता।
कटिसूत्रन्नूपुरै श्छिन्नबीरैश्च संयुतम्॥
एवं लक्षण संयुक्तौ द्वारे द्वारे प्रतिष्ठितौ। (३र्द् ऴिने)
अन्तत्मण्डलके द्वारे नन्दिकलौ प्रतिष्ठितौ॥
भुवङ्गं च पतङ्गं च उलिकाद्याधि देवताः। (४थ् ऴिने)
विमलञ्च सुबाहुं च पूजयेत्तु कवाटयोः॥
तत्कन्दपट्टिका मध्ये स्कन्ददेवं समर्च्चयेत्।
द्वारोर्ध्वे दक्षिणे भागे गणपतिं सम्प्रपूजयेत्॥ (५थ् ऴिने)
द्वारोर्ध्वे वामपार्श्वेतु सरस्वतीं सम्प्रपूजयेत्।
द्वारोर्ध्वे मध्यमे चैव श्रीदेवीं सम्प्रपूजयेत्॥ (६थ् ऴिने)
द्वारस्य दक्षिणे पार्श्वे नन्दी गङ्गां प्रपूजयेत्।
द्वारस्य वाम पार्श्वेतु महाकालं यमुनां बुधः॥
वृषभं पूजयेदग्रे गन्धपुष्पादिभिः क्रमात्। (७थ् ऴिने)
अन्तर्भागेतु कर्तव्यौ भृङ्गीशो विजयः क्रमात्॥
मर्यादि भित्तिके कुर्यात् अनन्तपशुपतिस्तथा। (८थ् ऴिने)
महागोपुर संयुक्तौ कुम्भोदर महोदरौ॥
भूतावकारयेदन्ते दण्डहस्तौ महाबलौ।
द्वारपूजाविधिह्येवं परिवारार्चनं शृणु॥ (फ़्।३१ब्)
वृषभं श्वेतवर्णं तु कृष्णशृङ्गं महाबलम्।
दिव्यरूपं सुलावण्यं तप्तकाञ्चन वर्णकम्॥
रक्ताम्बरं भीमम् ऊर्ध्वकेशं शिखान्वितम्। (२न्द् ऴिने)
शक्ति तोमरसंयुक्तं बालामाला विभूषितम्॥
अग्निकार्यादजारूढं सप्तजिह्वाभिरावृतम्। (३र्द् ऴिने)
गोक्षीर धवलं प्रख्यं द्विभुजं च द्विनेत्रकम्॥
रश्मिमण्डल संयुक्तं वैडूर्यमकुटान्वितम्।
रोहितं चन्द्रं …… कुर्यात् कुमुदहस्तकम्॥ (४थ् ऴिने)
मातॄणां लक्षणं वक्ष्ये वर्णवाहन चिन्नकैः।
पद्मासनस्थं भद्रेशं कुर्याल्लक्षणमुच्यते॥
शङ्खकुन्देन्दु वर्णाभं कृष्णा परशु संयुतम्। (५थ् ऴिने)
चतुर्भुजाञ्चारुवदनां वटवृक्षसमाशृताम्॥
चतुर्मुखीं विशालाक्षीं तप्तकाञ्चन…॥।
वरदाभयकमण्डल्वक्षमाला चतुर्भुजा॥ (६थ् ऴिने)
हंसध्वजा हंसरूढा जटामकुटधारिणी।
ब्रह्माणीकारयेद्धीमान् पलाशद्रुमसंयुता॥ (७थ् ऴिने)
त्रिणेत्रा शुक्लवर्णाच शूलपाणी वृषध्वजा।
वरदाभयहस्ताच साक्षमाला समन्विता॥
जटामकुटनिशम्भोर्भूषणी समहेश्वरीम्। (८थ् ऴिने)
महेशीं कारयेद्धीमान् चन्दनद्रुम संयुता॥
कुक्कुट ध्वज संयुक्ता ……………।।
……तामरसंयुक्ता वरदाभय हस्तका॥ (फ़्।३२अ)
द्रड्ढमारूढ संयुक्ता औदुम्बरञ्च माशृता।
क्षौमवस्त्रधरादेवी कारयेत्तु ………॥॥
………॥धरादेवी वरदाभयहस्तका। (२न्द् ऴिने)
किरीटमकुटैयुक्ता हारकेयूरभूषिता॥
सुस्तनाञ्चारुवदनां श्यामवर्ण सुलोचना।
राजवृक्षाश्रितां देवी गरुडध्वज संयुता॥ (३र्द् ऴिने)
वैष्णवीं कारयेद्देवी वाराहीञ्च ततशृणु।
नीलवर्णा महारूपा करण्डमकुटोज्वला॥
कृष्णाम्बरधरा दंष्ट्रा वराहसदृशानना। (४थ् ऴिने)
वरदाभयहस्ता च करद्रुमसमायुता॥
सिह्मध्वज समायुक्ता सर्वाभरणभूषिता।
……।समायुक्ता छत्रचामर संयुता॥ (५थ् ऴिने)
रत्नमण्डल वर्णाञ्च किरीटमकुटोज्वला।
वज्रपाश समायुक्ता कल्पकद्रुम संयुता॥
इन्द्राणी कारयेद्देवी दिव्यपुष्पोपशोभिता। (६थ् ऴिने)
चामुण्डीं कारयेद्धीमान् कालमेघ समप्रभा॥
शूलं कपाल संयुक्ता श्यामवर्णा चतुर्भुजा। (७थ् ऴिने)
ऊर्ध्वकेशीं शङ्खभिश्च शोभिता नावकुण्ठिता॥
प्रोक्तध्वज समायुक्ता वटवृक्ष समाशृता।
विघ्नेशं पूजयेत् कुर्यात् सर्वलक्षण संयुताम्॥ (फ़्।३२ब्)
मातॄणां लक्षणं प्रोक्तं विघ्नेशं लक्षणं शृणु।
गजाननं त्रिणेत्रं तु कुङ्कुमाभं चतुर्भुजम्॥
पाशदन्तोतु सव्येतु वामेत्वङ्कुश लड्डुकौ। (२न्द् ऴिने)
नागयज्ञोपवीतं तु लम्बोष्ठं च गणाधिपम्॥
विध्नेश लक्षणं प्रोक्तं कुमारलक्षणं शृणु।
तरुणादित्य सङ्काशं शश्वत् बालस्वरूपकम्॥ (३र्द् ऴिने)
चतुर्भुजं त्रिणेत्रं च सर्वाभरण भूषितम्।
हारकेयूर संयुक्तं मयूरवाहनं तथा॥
विद्रुमनिभं द्विदशहस्त रसवस्त्रं (४थ् ऴिने)
शक्ति शर खट्गमभयध्वज गदा च।
वामकर शाप कुलिचाध कटकं स्यात्
शूलवर पङ्कजसु षण्मुखस्वरूपम् ॥ (५थ् ऴिने)
कुङ्कुमवर्णं चतुर्भुजयुक्तं
शक्तिधरं वरदं कटकं च ।
अक्षपदादिक दक्षिणहस्तं
स्कन्दकुमारमिमं कमलस्थम्॥ (६थ् ऴिने)
कुमारलक्षणं प्रोक्तं ज्येष्ठादेवीं ततशृणु।
कन्या पुत्रसमायुक्तां काकध्वज समायुताम्॥
रक्तवर्णधरां देवीं मुक्ताभरण संयुताम्। (७थ् ऴिने)
सर्वाभरण संयुक्तां कपत्नीं तु कारयेत्॥
ज्येष्ठायाल्लक्षणं प्रोक्तं दुर्गालक्षणमुच्यते। (८थ् ऴिने)
सुवस्त्रां नीलकेशां च नीलोत्पलदलाकृतिम्॥
सुस्तनां च्चरुवदनां सर्वाभरण भूषिताम्।
………॥…हस्तञ्च वरदं च चतुर्भुजाम्॥ (फ़्।३३अ)
कुचबन्धन संयुक्तां महिषस्य शिरस्थिताम्।
दुर्गालक्षणमाख्यातं भास्करस्य ततशृणु॥
दिव्यरूपं जगत्कान्तं पद्मकि॥ल्कसन्निभम्। (२न्द् ऴिने)
प्रभामण्डल संयुक्तं कम्बुग्रीवं सुलोचनम्॥
उषासत्या समायुक्तं करण्डमकुटान्वितम्।
करयोरुभयोः पद्मं धारयन्तं महाप्रभम्॥ (३र्द् ऴिने)
सर्वाभरण संयुक्तं कुर्यादादित्यमूर्तिनम्।
हस्तयुग्म करं रक्तं पङ्कजमुद्रहन्त सुसुन्दरम् (४थ् ऴिने)
सिद्धिविद्रुमहेमकञ्चुकमम्बरञ्च शुभद्युतिम्।
रत्नकुण्डलहारकेयूर कर्णपुष्पकरण्डुधृक्॥
नित्यबोधकरं दिवाकिरविश्वकर्मकरप्रभम्। (५थ् ऴिने)
क्षेत्रस्यैशान्यदिक् भागे पूजनीयसधा(दा)बुधैः॥
त्रिविधं तु समाख्यातं गुणत्रयविभागतः। (६थ् ऴिने)
सात्विकं श्वेतरूपं तु राजसं रक्तवर्णकम्॥
तामसं कृष्णवर्णं तु त्रिविधं समुदाहृदम्।
तामसे षड्भुजप्रोक्तो राजसष्षड्भुजो भवेत्॥ (७थ् ऴिने)
चतुर्भुजे विशेषिण सार्विकं तु यथाविधि।
शूलं कपाल टङ्कं च पाशञ्चैवायुधास्मृताः॥ (फ़्।३३ब्)
ऊर्ध्वकेशं सुवक्त्राक्षं भ्रूसुवीर्यवान्।
सुकुञ्चिताग्र कायस्तु नागाभरणभूषणम्॥
नग्नरूपं त्रिणेत्रं च पादनूपुर संयुतम्। (२न्द् ऴिने)
शुनोपरिस्थित श्रीमान् अष्टाभिर्दोर्भिरन्वितः॥
शूलं पाशं तथा खट्गं खट्वाङ्गं दक्षिणे करे। (३र्द् ऴिने)
कपालं परशुं चैव खेटं घण्टाञ्च वामके॥
वेतालैर्भूतबृन्दैश्च श्वहिः परिवृतो भवेत्।
एभिस्तु लक्षणैर्युक्तं क्षेत्रपाल इति स्मृतः॥ (४थ् ऴिने)
ततः पुरस्थितो पीठे पूजयेत्तु विशेषतः।
पक्ष राक्षस पैशाचा भूता गन्धर्व किन्नराः॥ (५थ् ऴिने)
पितृ दानव नागाश्च ब्रह्मादैशानमन्तकम्।
प्रणवादि चतुर्थ्यन्तं स्वनामपदमध्यमम्॥
स्वाहान्तं बलिनिर्देशं सर्वेभ्यो इति योजयेत्। (६थ् ऴिने)
इष्टिका पीठमृत्पीठं पीठादाभासमुच्यते॥
आभासाक्षित्तचित्तञ्च दारुवत् मृण्मयं भवेत्। (७थ् ऴिने)
दारुजामृण्मयं श्रेष्ठं मृण्मया लोहजं तथा॥
लोहजाश्शैलजं श्रेष्ठं शैलजा रत्नजं तथा।
शैलजा रत्नलोहैश्च मूलबेरं तु कारयेत्॥ (फ़्।३४अ)
द्रव्योत्कृष्टेन कर्तव्यं विपरीतं न कारयेत्।
परिवारार्चनं प्रोक्तं लिङ्गशुद्धिं ततशृणु॥ (२न्द् ऴिने)
गर्भगेहं ततः प्राप्यलिङ्गशुद्धिमथाचरेत्।
पाद्यादिकं ततोदद्यात् गायत्र्या सम्यगर्च्चयेत्॥
पूर्व सन्ध्यार्चितं पुष्पम् ईशानेतु विसर्जयेत्।(३र्द् ऴिने)
कनिष्ठानामिका मध्ये नवपुष्पं विनिर्गतम्॥
अङ्गुष्ठतर्जनीभ्याञ्च पर्यषि तद्विसर्जयेत्। (४थ् ऴिने)
विसर्जनेन तत्काले पुश्प्ं मूर्ध्नि निधापयेत्॥
क्षालयेल्लिङ्गमन्त्रेण दक्षपाणितलेन वै।
पीठं पाशुपतास्त्रेण क्षालयेत्परितः क्रमात्॥ (५थ् ऴिने)
लिङ्गशुद्धिर्भवेदेवं मन्त्रशुद्धिमतः परम्।
ॐ कारादि नमोन्ताश्च मन्त्रास्सर्वे विशेषतः॥ (६थ् ऴिने)
यजनेतु प्रयोक्तव्यं मन्त्रशुद्धिरुदा हृदाः।
योवेत्ति पञ्चशुद्धिं तु सपूजां कर्तुमर्हसि॥
यजनेर्केन्दु सञ्चारे निष्फलं तदवाप्नुयात्। (७थ् ऴिने)
चन्द्रार्कनाशे यजनं सर्वसिद्धिकरं शुभम्॥
क्षुते सङ्क्रान्त इत्याभूर्विसर्गा विषुवान्तकाः। (फ़्।३४ब्)
क्षुते विसर्गकाले तु यजनं निष्फलं भवेत्॥
सङ्क्रान्ते विषुवे पूजा नकर्तव्यं कदाचन।
अग्नौ व निरृतौ वापि स्थित्वा देवं प्रपूजयेत्॥ (२न्द् ऴिने)
आसनं कल्पयेत्तत्र शास्त्रदृष्टो न कर्मणा।
आधारमासनं प्रोक्तम् आधेयपरमश्शिवः॥
नादलिङ्गमिति प्रिक्तं बिन्दु पीठमितिस्मृतम्। (३र्द् ऴिने)
न शिवेन विनाशक्तिर्नशक्तिरहितश्शिवः॥
पुष्पेषु गन्धवज्ञेयं तिलेषु तैलवत्तथा।
वाद्येषु नादवत्सर्वम् उष्णमग्नेस्तथैव च॥ (४थ् ऴिने)
काष्ठेषु वह्निवच्चैव फलेषु रसवत्तथा।
देहेषु प्राणवच्छक्तिस्तस्माल्लिङ्गं प्रपूजयेत्॥
शक्तिरेवासनं प्रोक्तं पञ्चासनमिदं क्रमात्। (५थ् ऴिने)
पार्थिवाण्डमथस्कन्द नालं वह्न्यान्तमेवच॥
ततोनन्द्यासनं प्रोक्तं सिह्मासनन्द्वितीयकम्। (६थ् ऴिने)
योगासनन्तृतीयन्तु पद्मासनं चतुर्थकम्॥
पञ्चमं विमलाख्यन्तु पञ्चभूतात्मकत्विमे।
वृत्ताकारमनन्तञ्च सूर्यकोटिसमप्रभम्॥ (फ़्।३५अ)
अधस्तात् कल्पयेदूर्ध्वं सिह्मासनं प्रकल्पयेत्।
धर्मज्ञानञ्च वैराग्यम् ऐश्वर्यञ्च चतुष्टयम्॥
शुक्लाभं पद्मरागञ्च हैमं मरतकप्रभम्। (२न्द् ऴिने)
धार्मादीनान्तु वर्णं स्यात् आग्नेयादि क्रमेणतु॥
पादाश्चतुष्कोणेषु सिह्मरूपेण कल्पयेत्। (३र्द् ऴिने)
दंष्ट्राकरालवदनां त्रिणेत्रां भूमरूपिणीम्॥
कोटिकोट्यादि सिह्मैश्च प्रत्येकं परिवारितम्।
अधर्ममज्ञानवैराग्यमश्वर्यास्तथैलिका॥ (४थ् ऴिने)
राजावर्तनिभास्सर्वे प्रागादिषु प्रकल्पयेत्।
गुरुत्रयेण सच्चद्य एवं सिह्मासनं भवेत्॥ (५थ् ऴिने)
सिह्मासनमितिख्यातं योगासनमतः परम्।
प्राणोपानसमानश्चेद्दानव्यानौ च वायवः॥
नागश्च कूर्म कृकरो देवदत्तो धनञ्जयः। (६थ् ऴिने)
योगासनमितिख्यातं पद्मासनमथशृणु॥
पद्मयोनिस्थितं जातं सप्तपादस्तु मध्यमे।
मृत् प्रवेश्यन्तु तत्स्थानं तत्प्रवेश्यन्तु शक्तिकम्॥ (७थ् ऴिने)
मायातत्वं बृहत् गन्धि शुद्धविद्याब्ज शोभितम्। (फ़्।३५ब्)
श्वेतमष्टदलोपेतं शक्तिकेसर संयुतम्॥
विद्यातत्वमयं तत्र कर्णिकां सम्प्रपूजयेत्।
बीजं प्रवालवर्णाभम् अङ्कुरं रजतप्रभम्॥ (२न्द् ऴिने)
तस्यनालं तु वैडूर्यं कर्णिकं रक्तपिङ्गलम्।
शङ्खवर्णदलस्याग्रं रक्ताश्चोपदलास्मृतम्॥
किञ्चिल्लोहित पीतानि मध्येस्युः केसराणितु। (३र्द् ऴिने)
तन्मध्ये कल्पयेद्धीमान् कर्णिकां कनकप्रभाम्॥
सद्येन पद्ममूलन्तु वामदेवसनालकम्। (४थ् ऴिने)
अघोर दलस्ङ्कीर्णं तत्पुरुषं गुह्यकेसरम्॥
ईशानं कर्णिकाश्रान्तं पद्मं यं …… तथा।
शक्तियोनिस्थितं पद्मं मध्येतु चललिङ्गकम्॥ (५थ् ऴिने)
पद्मनालं शिवालिङ्गं सर्वव्यापि महेश्वरम्।
योनिपीठमिदं वक्ष्ये सर्वकामार्थसाधकम्॥ (६थ् ऴिने)
आग्नेय्यां वामशक्तिं च ज्येष्ठाशक्तिं च नैऋते।
रौद्री च वायुदिभागे ऐशान्यामम्बिकां तथा॥
सुखामधीपूर्वदिग्भागे शुभाक्षी दक्षिणे तथा। (७थ् ऴिने)
भागायी दक्षिणे(पश्चिमे)भागे उत्तरे भगदर्पणी॥
भगान्याश्यामवर्णाञ्च स्वनामाद्येन पूजयेत्। (फ़्।३६अ)
दिक् शक्तिस्सितवर्णन्तु विदिक् शक्तिरक्तवर्णकम्॥
त्रिणेत्रं चतुर्भुजं चैव वरदाभयहस्तकम्।
एतद्रूप समायुक्तं प्रधानाभि मुखो भवेत्॥ (२न्द् ऴिने)
चतुरश्रीकृतं पीठं विद्याताकृतिवर्णकम्।
तदूर्ध्वे षोडशदलं विन्यसेत् समवृत्तकम्॥
द्विरष्टासु दलान्यस्य दलमध्येतु पूजयेत्। (३र्द् ऴिने)
क्षीरवर्णनिभं बीजं सिन्दुनाद विभूषितम्॥
पद्मं विद्यात् प्रभं ज्ञेयं तदूर्ध्वे तु त्रिमण्डलम्। (४थ् ऴिने)
अग्निं चैव रविं चैव चन्द्रमण्डलमेव च॥
अग्निमूलं त्रिकोणन्तु शेषं चैव त्रिवृत्तकम्।
यथाक्रमेण कर्तव्यं स्व स्व बीजेन पूजयेत्॥ (५थ् ऴिने)
त्रिकोण मण्डलं मध्ये त्रिलिङ्गं सुरसुस्थितम्।
त्रिलिङ्गस्यतु मध्ये च रक्तं वा पूजयेत्ततः॥ (६थ् ऴिने)
योन्या उअपरि येवन्तु रोमायामसु पूजयेत्।
वाग्भवन्तु तदूर्ध्वे तु तरुणादित्य सम्भवम्॥
बिन्दुनादसमायुक्तं शक्ति सूक्ष्मं परं शिवम्। (७थ् ऴिने)
शिवशक्तिरिदं बीजम् उमारुद्रमयं तथा॥
सृष्टिस्थितिश्च संहारं सर्वभूतं चराचरम्।
त्रिणेत्रं चतुर्भुजं चैव सुखक्रीडाभिषेक(च)कम्॥ (फ़्।३६ब्)
शुद्धस्फटिकसङ्काशा सुस्तना च सुयौवना।
मुक्ताभरण् संयुक्ता सितवस्त्रा सुशोभना॥ (२न्द् ऴिने)
वीरासनेन संयुक्ता मकुटं कुण्डलान्विता।
दक्षिणे योनिमुद्रा…… पमाला तदूर्ध्वत॥
वामेयामृतहस्ता च ग्राहयेत् पुस्तकं विदुः। (३र्द् ऴिने)
सकलरूपमिदं देवीं स्थूलसूक्ष्मपरश्शिवम्॥
पञ्चावरण मार्गेण पूजयेत्कुसुमैर्णवैः। (४थ् ऴिने)
पूर्वाचार्यसु पूज्यन्तु पादुकार्चनमेवच॥
उत्तराभिमुखोभूत्वा सर्वेषां भावयेद्बुधः।
उमालिङ्गस्थिते लिङ्गं मूर्ध्व नाभन्तु जायते॥ (५थ् ऴिने)
सर्वस्यापि महादेवस्सप्ताण्डेठस्याल्लिङ्गे भवेत्।
शिवलिङ्गमितिख्यातम् अनन्तं पूजयेद्बुधः॥ (६थ् ऴिने)
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः।
तत्तद्भागेन पूज्यं यत् तत्तन्मन्त्रेण देशिकः॥
पूजयेल्लिङ्गमध्यस्थम् आवाहनोद्वासनं परम्। (७ह् ऴिने)
कृत्वा हृद्गतमञ्जलिं च कुसुमं प्रासाद मन्त्रं पठन्
शक्त्या निष्कल गोचरं समरसी भावं गतस्साधकः। (फ़्।३७अ)
ध्यायेद्वै क्रमशस्वशक्तिकिरणे नादे तथा बिन्दुके
निष्णान्तं क्रमशस्स्वशक्तिभवने स्याद्देवमावाहनम्॥ (२न्द् ऴिने)
अण्डान्तस्थं यदा गर्भं लिङ्गान्तस्थं शिवन्तथा॥
मातृपक्षाश्रयो जीवं पूर्णमात्मस्वरूपकम्।
भक्तिमन्त्रक्रियायोग्यस्सान्निध्यं निष्कलश्शिवः॥ (३र्द् ऴिने)
बद्धपुष्पाञ्जलिर्भूत्वा शिव सद्भावभाविताः।
त्रिमात्रादि क्रमेणो यावन्नादादिकं व्रजेत्॥ (४थ् ऴिने)
काष्ठे चाग्निरधिष्टोपि मथना ज्वलितोगुहः।
तथा च भक्ति वैराग्यं मन्त्ररज्जु निबन्धनात्॥
आमूलाग्रन्थि तस्याग्नेरभिव्यक्तिर्यथातरौ। (५थ् ऴिने)
तद्वदेकत्रि चिद्व्यक्ति व्यापकस्य न बाध्यते॥
यथा कुण्डगतं चाग्निर्वायुना ज्वलतोभवेत्। (६थ् ऴिने)
तथा च लिङ्गमन्त्रेण जायते भगवान् शिवः॥
लयं गच्छति भूतानां लिङ्गमस्ये(ध्ये) स्थितं भवेत्।
काष्ठव्याप्यस्थता वह्निस्थितो हीनोपि लभ्यते॥ (७थ् ऴिने)
एकदेशे हि काष्ठेस्थे प्रयोगेणानु लिप्यते।
काष्ठवद्व्यापको मन्त्री सार्थलक्षा सवह्नि वत्॥ (फ़्।३७ब्)
ध्यायन्त्यधनवज्ञेयं वह्निवत् विद्यते विभुः।
योसौ परापरं देवं तदावाहनमुच्यते॥
विमुखीकरणं तस्य ततोद्वासनमुच्यते। (२न्द् ऴिने)
आवाहनोद्वासनं नास्ति शिष्टलिङ्गं विशेषतः॥
शिवस्सदाशिवश्चैव महेशोमूर्तयस्त्रिधा। (३र्द् ऴिने)
वाच्य वाच रहितो वाङ्मनातीत गोचरः॥
सर्वज्ञानगुणिपेतः सर्वतत्वालयप्रभुः।
इत्थं भूतश्शिवप्रोक्तो निष्कलस्त्विति कीर्तितः॥ (४थ् ऴिने)
सकलं निष्कलोपेतम् अष्टत्रिंशत् कलात्मकम्।
कलाध्वोङ्ग सम्पूर्णो भुवनाध्वोक्तरोमधृक्॥
वर्णाध्वैवत्वचोपेतं मन्त्राध्वा रुधिरान्वितम्। (५थ् ऴिने)
पदर्ध्वोत्सिरामाम्सं मध्वशुद्धानि तत्वतः॥
सदाशिव षडध्वात्मा तस्यप्राणा शिवस्मृतः। (६थ् ऴिने)
हृदयाद्यङ्ग सम्पूर्णो ध्याने सकलरुपधृक्॥
निष्कलस्तदभावेतु तस्मात्सकल निष्कलम्।
सदाशिवस्वरूपन्तु प्रवक्ष्यामि विशेषतः॥ (७थ् ऴिने)
कुन्देन्दु स्फटिकाभासं जटामकुटमण्डितम्।
पञ्चवक्त्रयुतं तेषु प्रतिवक्त्रं त्रिलोचनम्॥ (फ़्।३८अ)
सर्वाभरण संयुक्तं दशदोर्भुजसमन्वितम्।
शूलं च परशु खट्गं वज्राभयं च दक्षिणे॥
पाशं नागञ्च घण्टाञ्च वह्निं वरद वामके। (२न्द् ऴिने)
दिव्याम्बरधरं देवं दिव्यपुष्पैरलङ्कृतम्॥
दिव्यगन्धानुलिप्ताङ्गं शान्तरूपं स्मिताननम्।
पूजाकाले भवेद्धीमान् भावयेल्लिङ्गमध्यके॥ (३र्द् ऴिने)
पिण्डिकायां भवेद्देवीं दिव्यरूपा मनोन्मनी।
पाशाङ्कुशधरां देवीं मोक्तिकाभां मनोन्मनी॥ (४थ् ऴिने)
सुयौवनां सुवासाञ्च सुस्तनां तनुमध्यमाम्।
कम्बुग्रीवा विभक्ताङ्गां नवशक्त्या वृता…॥॥
वामानीवनिभा देवी शङ्खं चक्रा गदाधरी। (५थ् ऴिने)
पीतवर्णाभवेज्येष्ठा पद्मधृक् पद्मलोचना॥
रौद्री रौद्रनिभा देवी त्रिणेत्रा शूलधारिणी। (६थ् ऴिने)
शातकुम्भ निभा देवी कालीमुद्गर धारिणी॥
कलविकरणी धूम्रवर्णा पाशहस्ता सुयौवना।
श्वेता बलविकरणी खट्गधारी महाबला॥ (७थ् ऴिने)
बलप्रमथनी देवी पलाश दण्डधारिणी।
सर्वभूतदमन्यै च रक्तवर्णा कपालिनी॥
इन्द्राद्यैशान पर्यन्तं पिण्डिका वरणान्यसेत्। (फ़्।३८ब्)
तत्तत्स्वनाममन्त्रेण पूजयेद्गन्धपुष्पकैः॥
आत्मतत्वन्त्यसेत्सर्वे विद्यातत्त्वं तु सौम्यके।
मध्ये तु शिवतत्त्वं तु पूजयेत्तु विशेषतः॥ १६०॥
शिवतत्त्वं रुद्रदैवत्त्यं मध्यमेत्तु न्यसेत् बुधः।
यहतिलिङ्गानां कौतुके वाथ संस्थितः॥
समासीनेऽपि लिङ्गादौ मण्डले स्थण्डिलेऽपि च।
समागश्चतिमन्त्रेण प्रार्थनावाहनं स्मृतम्॥
आसनेऽस्मिन् समास्थाप्यमिति च स्थापनं तथा।
स्वागतं मन्त्रसंयुक्तं समुखिकरणं विदुः॥
एतत्क्रमं क्षमस्वेतित्यवाहनञ्चानुमान्यकम्।
लिङ्गमूले तु तत्वादं सूत्राग्रे मुखमुच्यते॥
सूत्रपार्श्वे बाहुभ्यां सूत्रग्रन्थौ तु पृष्ठकम्।
आवाहायत्ततो देवं सद्योजातेन मन्त्रवित्॥
स्थापयेद्द्वामदेवेन अघोरेण तु सन्निधि।
पुरुषेण न रोगं तु ईशानेन तु जयेत्॥
सद्यपश्चिमतो वक्त्रं वा तथोत्तरे —।
दक्षिणायामघोरेण पूर्वेतत्पुरुषाननम्॥
ईशानमूर्ध्व वक्त्रं तु पञ्चवक्त्रमिति स्मृतम्। (फ़्।३९अ) ०४।०८।२०२३
शङ्खगोक्षीर वत्सद्य वाममुत्पल पङ्कजम्॥
अघोरमञ्जनश्यामं पुरुषं कुङ्कुमप्रभम्।
ईशानस्फटिकाभासं पञ्चवर्णस्य वक्त्रकम्॥
ब्रह्म वै सद्य…।न्तु वामदेवं जनार्दनम्।
मनोन्मनी तु विज्ञेयं सदाशिवात्मिका परम्॥
पाद्यं दक्षिणपादादि प्रिपादं सकृत् सकृत्।
मुखेष्वाचमनं दद्यादविच्छिन्नाम्बु धारया॥
शिरस्यार्ध्यं सकृद्दद्यात् गन्धमङ्गानि लेपनम्।
कारयेदभिषेकन्तु मूर्ध्निश्शुद्धोदकादिभिः॥
अग्नौ वा निरृतौ वापि स्थित्वा देवं प्रपूजयेत्।
अभिषेकं प्रकर्तव्यं दापयेश्छिव मूर्धनि॥
आगतस्य शिवस्यात्र पादौ पाद्यं हृदाददेत्।
मुखेश्वाचमनं दद्यात् शिव(र)स्यार्ध्यं तु दापयेत्॥
अष्टत्रिंशत् कलान्यासं मकुटादि क्रमे न्यसेत्।
पञ्चब्रह्म शिवाङ्गैश्च व्योमव्यापि समुच्चरेत्॥
जलेन स्थापयेत् पञ्चात् दधिक्षीरघृतैस्तथा।
नालिकेरोदकेनैव मधुना ब्रह्मपञ्चकैः॥
पञ्चामृतं पञ्चगव्यं ब्रह्मकूर्चादिषेचनम्। (फ़्।३९ब्)
हृदा वै शालिपिष्टैश्च …॥येल्लिङ्गमुत्तमम्॥
शिवाम्भसा च संस्नाप्यघर्षेदामोदकेन तु।
घर्षयेद्रजनीं पश्चात् स्नापयेत् गन्धवारिणा॥
आचमनन्ददेत् पश्चात् पञ्चवक्त्रेषु बुद्धिमान्।
वस्त्रेणालेपयेत् कृत्वा लिङ्गपीठं विशेषतः॥
हृदयेन तु मन्त्रेण पुष्पं‍ मूर्ध्निं निदापयेत्।
घण्टाञ्च ताडयेत्तत्र क्षिपेद्यवनिकां तथा॥
वस्त्रोपवीतं गन्धञ्च मकुटं कुण्डलं तथा।
हारकेयूर मालाञ्च हृदयेन प्रदापयेत्॥
धूपदीपं हृदादत्वा नीराजनमतः परम्।
लोकस्य नयनोश्छिष्टं निवृत्यर्थं प्रदोषके॥
कर्तव्यं सायरक्षां तु धूपदानं वसानके।
लिङ्गाग्रेवथ बिम्बाग्रे मण्डलं चतुरश्रकम्॥
कृत्वा तु पञ्चवक्त्राणि सङ्ग्राह्याहृ…न्यसेत्।
प्रोक्षयेत् पुरुषेणैव धेनुमुद्रां प्रदर्शयेत्॥
दीपाधारं तु या कुर्यात् शालिपिष्टमये न तु।
चतुरङ्गुल विस्तारम् उत्सेधं द्वयङ्गुलं भवेत्॥
श्रेष्ठमर्धाङ्गुलं प्रोक्तं पूर्णचन्द्रवदाकृतिम्।
तन्मध्ये निक्षिपेद्दिपं चतुर्दिक्षु च मध्यमे॥ (फ़्।४०अ)
गोघृतेन समायुक्तं विन्यसेद्दीपपञ्चकम्।
दीपाधारं तु सम्पूज्य कारयेद्देषिकोत्तमः॥
राजिकालवणश्चैव कार्पासं …।पम्।
पूजयेद्धृदयेनैव गन्धपुष्पञ्च धूपकम्॥
अग्निं सम्पूज्य विधिवत् अग्निबीजेन बुद्धिमान्।
शङ्ख दुन्दुभि निर्घोषैः ततोमङ्गल वाचकैः॥
पाद्यं दद्यात् पुरास्त्रेण नेत्रेणाचमनं ददेत्।
दीपेनैव त्रिधाभ्राम्य शिखामन्त्रेण बुद्धिमान्॥
द्रव्याधक्रमेणैव आवृत्यावृत्य लिङ्गके।
मूर्धिभ्रान्ति त्रिधा कृत्वा पादभ्रान्ति तथैव च॥
आजानु मूर्ध्व पर्यन्तं त्रिधार्तिं भ्रामयेद्बुधः।
भस्मना दापयेत् शम्भोः दिग्बन्धञ्चास्त्र मन्त्रतः॥
अनामिकाङ्गुलाग्रेण रक्षाबन्धं प्रदापयेत्।
रुद्रस्तु गणिकाभिर्वा पात्रा…।सुरैस्तुवा॥
सर्वातोद्य समायुतम् बलिपीठाग्रके ततः।
निक्षेपेदग्नि दीपन्तु कारयेत्तु विशेषतः॥
राजकालव…॥।कार्पासं सित सर्षपम्।
दीपाग्नि नादहेतत्र अग्निबीजेन बुद्धिमान्॥
रजयेद्यमनाद्यैश्च चामारव्यजनं मुखे।
छत्रेणोपरिसञ्चाद्य दर्पणं दर्शयेन्मुखे॥
दशमुद्रा प्रयोक्तव्यं यथोक्त दशपाणिषु।
वज्रादिपद्ममुद्रा च दशमुद्राः प्रकीर्तिताः॥ (फ़्।४०ब्)
निराजनमिति प्रोक्तं पञ्चमावरणं शृणु।
गर्भविद्या गणेशश्च लोकपालास्त्रमेव च॥
पञ्चावरणमाख्यातं सर्वसम्पत्करायच।
गर्भावरणके विद्वान् पद्ममूले विशेषतः॥
पद्ममध्ये च विद्येशो गणेशाश्च तदर्धता।
लोकपालाश्च पद्माग्रे चास्त्रयस्तु () प्रपूजयेत्॥
पूर्वे तत्पुरुषं चैव अघोरं दक्षिणे यजेत्।
पश्चिमेतु यजेत् सद्यं वामदेवं तु सौम्यकम्॥
लिङ्गस्योर्ध्वेतु ईशानं पूजयेत् गन्धपुष्पकैः।
हृदयं पावके पूज्य निरृतौ तु शिखां यजेत्॥
कवचं वायुदेशेतु शिरसित्वीशगोचरे।
अस्त्रं तु दक्षिणे पूज्यम् ईशान्ये नयनं यजेत्॥
गर्भावरण पूजं तु दलमूलेतु पूजयेत्।
शु…रत्नं तथा कृष्णं पीताभं क्षीर सन्निभम्॥
ब्रह्मपञ्चक वर्णास्युः त्रिणेत्राश्च चतुर्भुजाः।
टङ्कशूल समायुक्ता अभयं वरदान्विताः॥
शान्तमीशानमित्युक्तम् अन्येरौद्रमितिस्मृतम्।
शुक्लं पीतारुणं कृष्णं रक्तश्यामञ्च वर्णकम्॥
वर्णानिच षडङ्गानि त्रिनेत्राश्च चतुर्भुजाः।
() प्रथमावरणं ह्येवं द्वितीयावरणं शृणु॥ (फ़्।४१अ)
अनन्तेशस्तथा सूक्ष्मे शिवोक्तश्चैनेत्रकः।
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च () शिखण्डिनः॥
अष्टविद्येश्वाराह्येते त्रिणेत्राश्च चतुर्भुजाः।
अभयं वरदोपेता टङ्कशूलसमन्विताः॥
रक्तं श्वेतं तथा नीलं पीतं कृष्णं तु कुङ्कुमम्।
अरुणञ्चाञ्जनप्रख्यं क्रमाद्विद्येशवर्णकम्॥
इन्द्रादीशानपर्यन्तं पूजयेत्तु विशेषतः।()
विद्येशावरणं ह्येवं गणेशावरणं शृणु॥
उत्तरेतु यजेत् गौरीं पूवेतु वृषभं यजेत्।
गणेशं यमदेशेतु () गुहं वै वारुणं यजेत्॥
नन्दिनञ्च महाकालं भृङ्गीशञ्चण्डमुत्तमम्।
आग्नेयादिषु कोणेषु पूजयित्वा () यथा विधिः॥
द्विनेत्रा द्विभुजा श्यामा गौरी दक्षकरोत्पला।
द्विनेत्र द्विभुजश्चण्डो श्यामो वै टङ्कहस्तकम्। ()
वृषभं श्वेत वर्णं तु तीक्ष्णशृङ्ग महाबलम्॥
चतुर्भुजं त्रिणेत्रं च नन्दीशं श्यामवर्णकम्।
अभयं वरदोपेतो टङ्कशूलोधरोधृता।
गजाननं त्रिणेत्रं तु कुङ्कुमाभं चतुर्भुजम्॥
पाशदन्तौतु सव्येतु वामेत्वङ्कुश लड्डुकौ।
नागयज्ञोपवीतं तु लम्बोष्ठं तु () गणाधिपम्॥ (फ़्।४१ब्)
महाकालं त्रिणेत्रं तु कृष्णवर्णं चतुर्भुजम्।
अभयं वरदोपेतो उग्रसक्तेज शूलधृक्॥
रक्तवर्णे महासेन () द्विनेत्रं च चतुर्भुजः।
सव्ये त्वभयवज्रौ तु वरदाङ्कुशवामके॥
चतुर्भुजं त्रुणेत्रं तु भृङ्गीशो पिङ्गलप्रभः।
दक्षिणेभ्यट्ङ्कौ तु () वामे वरदशूलधृक्॥
गणेशावरणह्येतत् लोकेशावरणं शृणु।
दिव्यरूपं बृहत्बाहुं द्विनेत्रसहिताननम्॥
श्यामवर्णं () गजारूढम् आवृतञ्चाप्सरोगणैः।
दिव्याभरण संयुक्तं दिव्यमाल्यविभूषितम्॥
वज्रपाणिं रथारूढं कुर्यादिन्द्रं सुराधिपम्। ()
दियरूपं सुलावण्यं तप्तकाञ्चन सन्निभम्॥
रक्ताम्बरधरं देवमूर्ध्वकेशं शिखान्वितम्।
शक्ति…संयुक्तं ज्वालामालाविभूषितम्॥
अग्निं कुर्यादजारूढं सप्तजिह्वाभिरावृतम्।
महामहिषमारूढं नीलाञ्जन समप्रभम्॥
दण्डपाशधरं देवं () दीप्ताग्नि समलोचनम्।
कुर्याद्वैवसव्तं रूपं कृद्धं लोकभयङ्करम्॥
रक्षासेशं विशालाक्षं खट्गं…॥।सखेटकम्। ()
प्रेतारूढं करालास्यं रक्तकेशं सुयौवनम्॥
सुदंष्ट्रं नीलवर्णं तु कुर्यान्निरृति रूपकम्।
शङ्खकुन्देन्दुधवलं () पाशहस्तं महाबलम्॥ (फ़्।४२अ)
हारकेयूर रचितं कुण्डलाभ्यामलङ्कृतम्।
मकरस्थं महारूपं कुर्याद्वरुणरूपकम्॥
वायुं () सदागतिं धूम्रं पिङ्गलाक्षं चलाबरम्।
कुटिलभूलतं वीर्यं मृगारूढं महाबलम्॥
सर्वाभरण संयुक्तं वायुं कुर्यात् विशेषतः। ()
कुबेरं यक्षराजानं सर्वावयवसुन्दरम्॥
मकुटेन विचित्रेण कुण्डलाभ्यामलङ्कृतम्।
हारकेयूर रचितं हयारूढं गदाधरम्॥ ()
रक्ताम्बरधरं देवं कुर्याद्यक्षेश्वर प्रभुम्।
ईशानं वृषभारूढं जटामकुटमण्डितम्॥
त्रिशूलपाणिनं देवं त्र्यक्षं () लोकेश्वरं हरम्।
त्रिदशेशं श्वेतवर्णं कुर्यादीशानमूर्तिनम्॥
चतुर्वक्त्रं चतुर्बाहुं कमण्डल्वक्षधारिणम्।
रुक्मवर्णं () जटामौलिं यज्ञसूत्रोत्तरीयकम्॥
रक्तं क्षौमधरं देवं वरदाभयहस्तकम्।
अक्षमालाधरं देवं सव्यहस्ते कमण्डलुम्॥
आसीनं वा स्थितं वापि कुर्यात्पद्मासनस्थितम्।
गायत्र्या च सरस्वत्या उभयोः पार्श्वयोस्थितम्॥
विष्णुं किरीट केयूरं यज्ञसूत्रोपशोभितम्। ()
तुलसी पुष्पसङ्काशं तुङ्गनासं शुभेक्षणम्॥
शङ्खचक्रगदाहस्तम् अभयञ्च द्विलोचनम्।
पीताम्बरधरं देवं () श्रीभूमिश्च तथैवच॥ (फ़्।४२ब्)
श्यामाभाञ्चोपवीताङ्गं कुर्याद्विष्णुं विशेषतः।
गणेशश्च तयोर्मध्ये सप्तमात्रंश्च () पूजयेत्॥
वज्रादि पद्म पर्यन्तं लोकपालायुधास्मृताः।
वज्रं शक्तिं च दण्डं च खट्गं पाशं तथाङ्कुशम्॥
गदात्रिशूलं चक्रं च पद्मं चेति () दशायुधम्।
पीतं विद्युत्पलं नीलं नीलजीमूतवत् सितम्॥
पद्मरागन्तुषारञ्च शबलं श्वेतरक्तकम्।
शक्तिर्गदास्त्रयोर्यत्र पाशं …।नपुंसकम्॥
शेषं च पुरुषाकारम् एकवक्त्रा द्विहस्तकाः।
अस्त्रावरणमेवोक्तं दलाग्राधः प्रपूजयेत्॥
तत्तत्स्वनाम मन्त्रेण () पूजयित्वा विशेषतः।
पञ्चावरणमेवोक्तम् उपचारानथशृणु॥
दशोपचारं दीपान्ते हविष्यन्तेतु () षोडशा।
बल्यन्ते पञ्चविंशच्च षट्त्रिंशत्ताण्डवान्तकम्॥
आवाहनार्ध्य पाद्यं च तथैवाचमनीयकम्।
स्नानं वस्त्रोपवीतं च धूपं दीपं विसर्जनम्॥
दशोपचारं तु विज्ञेयं दीपान्तेतु शिवार्च्चनम्।
आवाहनं स्थापनं च पाद्यमाचमनार्ध्यकम्॥
स्नानं वस्त्रोपवीतं च भूषणं गन्धपुष्पकम्। (फ़्।४३अ)
धूपदीपनिवेद्यादि नमस्कार विसर्जनम्॥
षोडशोपचारैश्च हविष्यन्ते प्रपूजयेत्। ()
आवाहनन्तु संस्ताप्य स्वागतं चानुमोदकम्॥
आचमनार्ध्य संस्नानं वस्त्रोपवीतोत्तरीयकम्।
भूषणं गन्धपुष्पञ्च () धूपदीपौ तथैव च॥
नीराजनं ततोमुद्रा दर्शनावरणार्चने।
नैवेद्यं होमकर्मञ्च बलिदानं तथैव च॥
स्तोत्रं जपनमस्कारम् () उत्सवान्ते विसर्जनम्।
बल्यन्ते शान्तिकं पञ्च विंशद्देवोपचारकाः॥
आसनावाहनार्घ्याणि स्वागतञ्चानु…न्यकम्। ()
पाद्यमाचमनं स्नानं वस्त्रश्चैवोपवीतकम्॥
भूषणं गन्धपुष्पैश्च धूपदीपौ तथार्घ्यकम्।
निराजनमञ्जनञ्चैव चामरछत्रदर्पणम्॥
दर्शणं दशमुद्राणां पञ्चावरणपूजनम्।
नैवेद्यं होमकर्मञ्च बलिदानं जपं तथा॥
समाधिस्तोत्रजपध्यानं सङ्गीतं वाद्यकं तथा।
नृत्तमर्ध्यं विसर्जञ्च षट्त्रिंशदुपचारकाः॥
नृत्तान्ते पौषिके ह्येवं पारार्थे दैवपूजनम्। (फ़्।४३ब्)
त्रिसन्ध्यञ्चोत्सवस्यन्ते पञ्चविंशोपचारकम्॥
अर्धयामे जपेद्धीमान् अष्टाङ्गेनैव पूजयेत्। ()
पूजयेत्तु विशेषेण होम बल्युत्सवं विना॥
पाद्यमाचमनञ्चार्ध्यं गन्धपुष्पञ्च धूपकम्।
दीपञ्चैव निवेद्यञ्च अष्टाङ्गं द्वारार्धयामके॥ ()
प्राकारन्तं विमानस्थं देवानां नित्य पूजनम्।
तन्मूलस्थानदेवेन सार्धं नित्योत्सवं वृजेत्॥
प्रातः काले शिवार्च्चनं () द्विजहितं ब्रह्मप्रियं पौष्टिकम्
मध्याह्ने शिवपूजनं नृपहितं विष्णोः प्रियं शान्तिकम् ।
सायं वैश्यहितं शिवस्ययजनं शम्भोः प्रियं सौख्यदं
शूद्राणां हितमर्धरात्रिकमुमाप्रित्यो भवेत्काम्यकम्॥
सप्तवारित्रिगन्धार्ध्यं धूपदीपाष्ट पुष्पिकाम्।
तु प्रच्छादनं पश्चात् घण्टासन्ताटनानि च॥
आवाहनार्ध्य पादेषु स्नानेनाचमने तथा।
निवेद्यविसर्जने चैव वारि सप्त सुयोजयेत्॥
अर्घ्ये विलेपने स्नाने त्रिषु गन्धं सुयोजयेत्।
आवाहने च पूजान्ते विसर्जनेपि अर्घ्यकम्॥ (फ़्।४४अ)
आसनार्चनकालेषु पूजान्ते च विसर्जने।
प्रच्छन्नपट सच्छिन्नं चतुष्कालेतु योजयेत्॥()
पापरोगी परिभ्रष्टो नास्तिकशृतिनिन्दकः।
अङ्गहीनो दुराचारो दीक्षाहीनोपि…तथा॥
नित्यकर्म विहीने च मार्जारदृष्टिहीनके।
कुण्डश्च कोलकश्चैव पाषण्डी शिपिविष्टकः॥
वेदविक्रयकैश्चापि ग्रन्थविक्रयकैरपि।
दुश्चर्मकुष्टसंयुक्तः शिवद्रव्यापहारिभिः॥
गुरुद्रव्यापहारी च गुरुद्रोहीच पातकी।
दुर्मुखञ्च दुराचारी मूर्खश्च गुरुनिन्दकः॥ ()
प्रमादाद्दर्शनं कृत्वा पूजायां निष्फलं भवेत्।
त्रिकालेतु पटं नीत्वा स्नाने धूपे वे…॥
शेषकालेषु सर्वेषु पटेन परिवेष्टयेत्।
अथवान्य प्रकारेण पटकालं विशेषतः॥
पूजाकालेतु नैवेद्यं पुष्पालङ्कारयेत्ततः।
मुद्रादर्शनकालेतु हेमरत्नादि योजयेत्॥ ()
एवमादीनि कालेतु प्रच्छन्नपटमारभेत्।
पूजारम्भणकालेतु पूजान्ते च निवेद्यके॥
नित्योत्सवादिमन्तेच महा घण्टां प्रताडयेत्।
राक्षसाश्चसुराश्चापि पिशाचाब्रह्मराक्षसाः॥ (फ़्।४४ब्)
गच्छन्ति घण्टघोषेण देवं सान्निध्यमेव च।
पाद्यमादौ तदन्ते तु एवं वस्त्रोपवीतके॥
निवेद्यादौ च पानीयं प्रदानान्ते विसर्जयेत्।
पञ्चास्याचमनं दद्यात् विधानेन यथोचितम्॥
वारुणं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः।
वानस्पत्यं पुनष्षष्टं प्राजापत्यं तु षष्टकम्॥
अष्टमं शिवपुष्पं तु संयोज्यं तु शिवार्चने।
वारुणं वारिजं ज्ञेयं सौम्यं मधुघृतम्पयः॥
आग्नेयं धूपदीपं तु वायव्यं व्यजनादिकम्।
पार्थिवं कन्दमूलाद्यं वानस्पत्यं फलादिकम्॥
प्राजापत्यं तदन्ताद्यं प्रियापुष्पं तु भावनम्।
द्रव्यं प्रति विशेषेण घण्टां सन्ताड्यचार्चयेत्॥
आचार्योगेन ………।क्रियायोगे नसन्नधि।
क्रिया वसात्तु तते स्यात् विमुक्तोद्वासनं कुरु॥
धूपदीपे न नैवेद्यं बलि लिङ्गार्चनक्रियाम्।
कदाचित् कुरुते मोहात् घातन्ति ब्रह्मराक्षसाः॥
यत्तन्त्रेणतु यत्स्थाप्य तत्तन्त्रेणतु पूजयेत्।
पूजयेदन्य तन्त्रेण तद्ग्रामं नाशयेल्लघु॥
जगत्फलकरञ्चैव विनश्यन्ति न संशयः। (फ़्।४५अ)
तस्मात्सव प्रयत्नेन पूजा…न कारयेत्॥
अमन्त्रेण सदापूजा पैशाच……॥।
व्याधि तस्कर चोराद्यैः वर्धनन्तु सदाभयम्॥
राज्ञायुद्धं भवेद्घोरं मनस्थापं सदाभवेत्।
तस्मात्सर्व प्रयत्नेन समन्त्रेणैव पूजयेत्॥
मन्त्रं च त्रिविधं ज्ञेयं वैदिकं तान्त्रिकं तथा।
त्रिविधं दक्षिणं तन्त्रं मन्त्रामन्त्र विधानकम्॥
वैदिकं तान्त्रिकं चैव तथा वैदिकतान्त्रिकम्।
वैदिकैर्वैदिकैर्मन्त्रै सतान्त्रिकै सतान्त्रिकैस्तथा॥
वैदिकैस्तान्त्रिकैश्चैव मन्त्रैर्वैदिकतान्त्रिकम्।
केवलं तान्त्रिकं वामं यामलं च त्रिधाभवेत्॥
वैदिकं चापि सम्मिश्रं दक्षिणे यामले पि च।
द्रव्यमन्त्रैः क्रियाभेदैः वामयामलतान्त्रिकम्॥
दक्षिणागम कर्माणि कुर्याद्दक्षिण पाणिना।
वामतन्त्रोक्तकर्माणि वामहस्तेनचचरे॥
पूजाभेदमितिख्यातं नैवेद्यानां विधिं शृणु।
आत्मनोहितमन्विश्छैत् यद्रव्यं प्राक् सुपक्वकम्॥
दापयेत् परमेशाय तद्द्रव्यं सर्व सिद्धिदम्।
यद्भुक्तं चोददाने तु तद्रव्यं क्षीयते धनम्॥
नित्यनैमित्तिकं काम्यं नैवेद्यं त्रिविधं स्मृतम्। (फ़्।४५ब्)
नित्यम् ॥विधं प्रोक्तं तथा नैमित्तिकं नव॥
यथेष्टं कर्ममित्युक्तं तेषां भेदमिहोच्यते।
आढके नैव नैवेद्यम् अधमाधममुच्यते॥
कनिष्ठमध्यमं चैव द्रोणं स्यादधमोत्तमम्।
मध्यमं खारिभारार्धं तदर्धं मध्यं स्मृतम्॥
मध्यमोत्तममित्युक्तं चतुर्द्रोणैश्च तण्डुलैः।
उत्तमाधममित्युक्तं पञ्चद्रोणैश्च कृतं हविः॥
षट्द्रोणैस्तण्डुलैस्सिद्धं भवेदुत्तममध्यमम्।
उत्तमोत्तममित्युक्तम् अष्टद्रोणैश्च तण्डुलैः॥
एवं नवविधं प्रोक्तं नित्यनैमित्तिकं तथा।
अष्टद्रोणं तथारभ्य तेन वृध्यानपपोदितम्॥
एवं द्वादशभारन्तु अधमादि त्रयं त्रयम्।
नैमित्तिकेतु नैवेद्यं नवधा समुदाहृदम्॥
पार्थिवं यस्तु सङ्ख्याभिः तैस्सङ्ख्यास्तु काम्यकम्।
ततः कुडुपयुक् प्रस्थं पैशाचनमुच्यते॥
द्विप्रस्थं तु चरु प्रोक्तम् आढकं हविरुच्यते।
नकल्पयेत्तु नैवेद्यम् आढकार्धेन तण्डुलैः॥
न कुञ्जं माषकं विद्यात् धारणं माषविंशति। (फ़्।४६अ)
धरणाष्टौ पलं चैव फलञ्चैव तिवोच्यते॥
चतुर्हस्तं तथा पादं (चतुः) पादं तु प्रस्तकम्।
आढकं …॥स्यात् द्रोणं तस्य चतुष्ककम्॥
नवधा मार्गमुद्दिष्टं नैवेद्यन्तं प्रकल्पयेत्।
तलप्रकुञ्च प्रसृति कुडुपञ्च तथाञ्जलि॥()
प्रस्तं पात्राढकञ्चैव द्रोणं खारि क्रमेणतु।
शुक्तेस्तु गणयेन्मन्त्रं द्विगुणं तु पृथक् पृथक्॥
खारित्रयं तु भारं स्यात् तथैव परिमाणकम्।
हेमशालि महाशालि रक्तशालि तथैव च॥
सितशालिं कृष्णशालिं स॥गन्थिकमधोत्तमम्।
वैणवञ्च यवञ्चैव ईषट् शालिचमाधूरि॥
कुस्तुम्बरी च नीवारं मध्यमावेति कीर्तिता।
बिलालं साधारं व्रीहि ईषट् कृष्णं च षाष्टमम्॥
तथावै सूरव्रीही च ह्रस्व वर्ति च कन्यसा।
एषां हि तण्डुलं श्रेष्ठं नैदेद्याय प्रभोस्तदा॥
चातुर्वर्णोद्भवैस्त्रीभिः समवद्भ्युक्ष्य लूखलैः।
चातुर्वर्णोद्भवानारी पतिपुत्रवती मता॥
तेषामेकतमे जाता कन्ययामङ्गला…। (फ़्।४६ब्)
तण्डुलक्रियायातु युक्तोभक्ति समन्विता॥
आदित्यरष्मि सन्तप्तं धान्यं प्रक्षिप्यलूखले।
प्राङ्मुखोदङ्मुखोवापि … येन्मुसलेन तु॥ (२न्द् ऴिने)
तुषान्यपोह्य शूर्पेण कणकम्ब्रश्च वर्जयेत्।
द्विशतं पञ्चविंशत्या सव्रीहिश्शुद्धिरिच्यते॥
प्रागुक्तविधिवत् पूर्वं स्नात्वा सुपरिचारकैः। (३र्द् ऴिने)
शुक्लवस्त्रधराश्चैव शुक्ल यज्ञोपवीतकाः॥
पवित्रपाणिनस्सर्वे पचैर्नैवेद्यकानि च।
वस्त्रपूतेन तोयेन जलद्रोणं प्रपूरयेत्॥
पात्रशुद्धिं ततः कृत्वा क्षालयेत्तण्डुलं हृदा। (४थ् ऴिने)
जलेनैवतु षट् कृत्वा क्षालयेत्तु पुनः पुनः॥
तण्डुलस्य प्रमाणं तु अर्धादिकसमं जलम्।
शोधयेद्बीजमुखैश्च पात्रेण जलतण्डुलान्॥ (५थ् ऴिने)
तण्डुलैरर्चयेच्छूलीं सद्येनौवतु देशिकः।
पात्रानारोप्य शिरसा वह्निमस्त्रेण निक्षिपेत्॥
विस्फुं लिङ्गयुतैश्चैव विपीलिकायुतैस्तथा। (६थ् ऴिने)
कृमिजिष्टैश्च काष्टैश्च पावकञ्च नदीपयेत्॥
केशकीटोपविद्धञ्च शर्करा तुष संयुतम्। (७थ् ऴिने)
अतिपक्वमपक्वं च नैवेद्यं परिकल्पयेत्॥
तेभ्यस्तु वर्णगन्धेभ्यः ॥तेलान्त निवेदयेत्।
शुद्धोदन क्रमं ह्येवं पायसान्नमथशृणु॥ (८थ् ऴिने)
तण्डुलाद्विगुणं क्षीरं तदर्धं तोयमाहरेत्।
तोयार्धं मुद्गं तिन्नंहि पायसान्नं प्रकीर्तितम्॥
तण्डुलार्धं समाख्यातं मुद्गंसारन्तु निर्मलम्। (फ़्।४७अ)
पक्वान्ते लवणोपेतं मरीचिं जीरकस्यतु॥
तिलचूर्णं तु मिश्रं तत्कृसरान्नमिति स्मृतम्।
तण्डुलस्य त्रिभागेन मुद्गसारन्तु निर्मितम्॥ (२न्द् ऴिने)
पक्वमुद्गान्नमित्युक्तं प्रागुक्ते पायसे पुनः।
क्षीरार्धं गुलखण्डं च गुलार्धं घृतमिश्रकम्॥
कदलीफलमत्रैव समिश्रं तद्गुले(लो)दनम्। (३र्द् ऴिने)
एवं पञ्चविधं प्रोक्तं नैवेद्यं चैव षण्मुखा॥
मुद्ग माष कुलार्धं च निष्पावं छिम्बमाढकम्। (४थ् ऴिने)
तथावै राजमाषं तु तेषां हिन्तं समस्तकम्॥
कूष्माण्ड पनसं लाबुकालिङ्गं बृहतीद्वयम्।
त्रिपुसं कर्खरीचैव सतुलंवी तुषं तथा॥ (५थ् ऴिने)
कदली कारव्याघ्री क्त्रिमृमुकं तथा।
वल्लिमूलं तथा कन्दं मूलमन्यद्रढौ(व्यै)र्युतम्॥
प्रस्थस्यैक फलं प्रोक्तं साद्रंवपक्वमेवव। (६थ् ऴिने)
यथालाभोवदंशैश्च पाचयेत्तु विशेषतः॥
सर्वोपदं कानुक्तान् मरीचिं लवणाज्यकान्। (७थ् ऴिने)
जीरकाब्लरसोपेतान् योगं पचेत् पृथक् पृथक्॥
कुलस्थचूर्णं सिद्धर्थं मरीचं जीरकैयुतम्। (फ़्। ४७ब्)
सितन्तु लवणञ्चैव आब्लं तक्रं सुयोजयेत्॥
एवं पक्वं तु सूपं तु कदली पनसं क्षिपेत्।
गवां घृतं निवेद्यानां चतुष्षष्ट्यन्तमुच्यते॥ (२न्द् ऴिने)
कुलमाषं कलांशं स्यात् अष्टांशं दधिरुच्यते।
वस्वंशं सूपमित्युक्तम् इत्येवं परिकल्पयेत्॥
पक्वान्तेतु बहिर्दा॥ मार्जन्याशोध्यभूतले। (३र्द् ऴिने)
सम्प्रोक्ष्य शुद्धतोयेन छत्र शङ्खादि नादयुक्॥
हुङ्कारेणतु मन्त्रेण सर्वमुत्थापयेत्तदा। (४थ् ऴिने)
नैवेद्योत्थापने काले लम्बनेतु नरैस्तथा॥
सस्यानां नाशनं प्रोक्तं निर्माल्यं तदुदाहृतम्।
तद्द्रव्यं वर्जयित्वातु मूलमन्त्र शतं जयेत्॥ (५थ् ऴिने)
पुनः पक्वं निवेद्याथ अघोरस्त्रशताहुतिः।
मण्डपे दक्षिणे भागे मण्डले विन्यसेत् क्रमात्॥
लक्षणेनैवमैर्व्याव पात्रमन्नेन पूरयेत्। (६थ् ऴिने)
ओदनं सोपदं शैश्च घृतेनैवाभिघारयेत्॥
सौवर्णं रजतं ताम्रम् अथवा कदलीदलम्।
शुद्धकाम्स्येन वा कुर्यात् पात्र…बुद्धिमान्॥ (७थ् ऴिने)
त्रिपादूर्ध्वेतु कर्तव्यं स्थालिकां स्थापयेत् क्रमात्।
तस्यलक्षणयुक्तेन पात्रमन्नेन पूरयेत्॥ (फ़्।४८अ)
हविष्येतु चतुर्भागं कृत्वैकाशं निवेदयेत्।
उपदं शैस्थ संयुक्तम् आज्येनैव समायुतम्॥
कदलीपनसाम्रैश्च संयं पकवफलैयुतम्। (२न्द् ऴिने)
सीपो दधिसमायुक्तं पक्व पायस संयुतम्॥
आद्रकेण समायुक्तं हृदयेन निवेदयेत्।
एकेनैवतु भागेन परिवारबलिर्भवेत्॥ (३र्द् ऴिने)
एकं तु चाग्निकार्यार्थं पात्रशेषं तु शेषकम्।
तच्छेषं परिवाराणां भोजनायेति कीर्तितम्॥ (४थ् ऴिने)
अग्न्याकारं विशेषेण स्त्रीणाञ्चैव निवेदयेत्।
यदि मोहात् प्रविषातु तत् ग्रामं नाशयेत् ध्रुवम्॥
नित्यमेव समाख्यातं काम्ये नैमित्तिकं शृणु। (५थ् ऴिने)
भूमिशुद्धिं ततः कृत्वा प्रोक्षयेद्धृदयेन तु॥
महीं सम्यक् परिस्तीर्य वस्त्रेणोपरिछादयेत्।
तस्योर्ध्वे कदलीपत्रं पूर्वाग्रश्चोत्तराग्रकम्॥ (६थ् ऴिने)
परिस्तरेद्विशेषेण घृतेनैवाभिघारयेत्।
हविष्यान्नां त्रिधा कृत्वा द्विभागं तु निवेदयेत्॥ (७थ् ऴिने)
एकं तु पात्रशेषं स्यात् उपदं शाज्यसूत्रकान्।
दधिताम्बूलकाश्चैव प्रभूतं च परिगृहेत्॥
अस्त्रं दिशा सुवुन्नस्य अस्त्रमुद्रासमन्वितम्। (८थ् ऴिने)
दापयेद्देवदेवाय हृदयेनतु देशिकः॥
भक्त्या भोज्यान्नपानञ्च शोष्यं लेह्यं तथैव च। (फ़्।४८ब्)
हस्तेद्वर्तनञ्चैव कृत्वाचाचमनं ददेत्॥
नैवेद्यानां विधिं चैव पानीयानां विधिं शृणु।
नवे ताम्रनिभे शुद्धे मृत् भाण्डेपूरयेज्जलम्॥ (२न्द् ऴिने)
नद्यां सरसि कूपे च पानीयं चोत्तमामयः।
वस्त्रपूतं सुशीतं स्यात् एलादिपरिसेवितम्॥
अनेन विधिनायुक्तं पानीयं दापयेधृदा। (३र्द् ऴिने)
आचमनं ततः कृत्वा चण्डेशाय निवेदयेत्॥
अक्षद्वथ प्रमाणं तु बलिदानं प्रकीर्तितम्।
द्वारस्य दक्षिणेपार्श्वे नन्दीशाय प्रदापयेत्॥ (४थ् ऴिने)
द्वारस्य वामपार्श्वेतु महाकालायदापयेत्।
वृषभाय ततो दद्यात् पुरतोग्नौतु पावके॥ (५थ् ऴिने)
याम्ये मातृगणानाञ्च निरृतो च तथा पुनः।
स्कन्दाय वारुणे भागे ज्येष्ठायै वायुगोचरे॥
दुर्गायै सोमदिग्भागे ऐशान्यां भास्कराय च। (६थ् ऴिने)
ततः पुरस्थितो पीठे बलिं दद्यात् विशेषतः॥
यक्षराक्षसपैशाच भूतगन्धर्वकिन्नराः।
पितृदानवनागाश्च ब्रह्माद्यैशानमोन्तकम्॥ (७थ् ऴिने)
प्रणवादि चतुर्थ्यन्तं स्वनामपदमध्यमम्।
स्वाहाय बलि निर्देशं सर्वेभ्यः इति योजयेत्॥
पुनराचमनं दत्वा मुखवास समन्वितम्। (८थ् ऴिने)
……॥कर्पूरं लघुखण्डस्य चूर्णकम्॥
फलत्रयाणां चूर्णं हि समं ग्राह्यं समाचरेत्।
भोजनान्ते ददेद्धीमान् मुखवासं शिवप्रियम्॥ (फ़्।४९अ)
ताम्बूलं दापयेच्छम्भोः प्रस्थं प्रत्येकशः फलम्।
फलाश्चतुर्गुणं पत्रं सजिह्वा घ्राणवर्जितम्॥ (२न्द् ऴिने)
ब्रह्मचूर्णसमायुक्तं क्रमुकस्यफलान्वितम्।
तद्भिन्नं तैल सम्मिश्रं दापयेत्तु शिवाय च॥
नित्यमेव समाख्यातं कारयेत्तु विचक्षणः। (३र्द् ऴिने)
ददेच्चलस्य चण्डस्य सकलानां निवेद्यकम्॥
लिङ्गे निवेदितं तत्तत् निर्माल्यमिति कीर्तितम्।
भूमौच वह्नौ जलेवापि गोकुलानां विसर्जयेत्॥ (४थ् ऴिने)
कायस्य मलबन्धत्वात् निर्माल्यं तु न भोजयेत्।
भुक्तं चत्त्तत् प्रमादात्तु चतिकृच्छ्र समाचरेत्॥
प्रमादाल्लङ्घनं तत्र प्राजापत्यं चरेत् सुधीः। (५थ् ऴिने)
स्पर्शने पाणिपादौ च प्रक्षाल्याचमनं कुरु॥
आपोहिष्टेऽति मन्त्रेण प्रोक्षयेच्छुद्धवारिणा। (६थ् ऴिने)
प्रतिमाणाञ्च सर्वेषां निर्माल्यञ्च निवेदकम्॥
भोज्यं तु परिचाराणाम् अन्येषां च नभोजनम्।
गणेशस्यतु भोज्यतु सर्वेषां भोज्यमुच्यते॥ (७थ् ऴिने)
सेनापति निवेद्यं तत् भोज्यं तज्जिवि वर्धनम्।
अभोज्यं भानु भक्तानां निवेद्यं भास्करस्यतु॥
अन्येषामपि सर्वेषां भोज्यं नैवेद्यकं रवे। (८थ् ऴिने)
नैवेद्यं तु महा मौट्यं भोजं पुत्रविवर्धनम्॥
ब्राह्मणानामभोज्यं तु नैवेद्यं मदनस्यतु। (फ़्।४९ब्)
सर्वेषामपि भोज्यं हि उमादेवी निवेदितम्॥
हरेनिवेदितं यत्तु सर्वेषामपि …॥ज्येकम्।
ब्रह्मणानाञ्च भोज्यं हि ब्रह्मणस्य निवेदकम्॥ (२न्द् ऴिने)
निवेद्यं लोकपालानाम् ॥मारोग्यकुते सदा।
मन्मथस्य निवेद्यं तत्सर्वेषां भोज्यमुच्यते॥
प्रायश्चित्त निमित्तं तु प्राजापत्यादिकं शृणु। (३र्द् ऴिने)
अनश्नीयात्रहं प्रातसद्यमन्त्रं ततो जयेत्॥
अनश्नीयत्यहं साये वाममन्त्रं जपेत्ततः।
पञ्चमन्तु जपेत्रैहं नवमाद्यादयाचितम्॥ (४थ् ऴिने)
त्रियहं चैव नाश्नीयादतः परं विशेषतः।
सदाशिवं ततोध्यात्वा वक्त्रमन्त्रं जयेत्ततः॥
जपेत्सहस्रसङ्ख्यातं दिनं प्रति दिनं प्रति। (५थ् ऴिने)
प्राजापत्यमिदं ज्ञेयं सर्वपापनिकृन्तनम्॥
नवाहमश्निमात्रन्तु भुञ्जितद्गुह्यकं जयेत्।
पञ्चत्याहं तु नाश्नीयात् सहस्रं हृदयं जपेत्॥ (६थ् ऴिने)
अतिकृछ्रमिदं प्रोक्तं दिनं प्रति जपेत्ततः।
सप्तजन्मकृतं पापम् अनेनैव विनश्यति॥ (७थ् ऴिने)
प्राजापत्यादिकं प्रोक्तं नित्याग्निना विधिं शृणु।
आग्नेयां स्थापयेदग्निं विधिना देशिकोत्तमः॥
चतुरश्रं वाथ वृत्तं वा मेखलात्रय संयुतम्। (फ़्।५०अ)
रत्निमात्रं तु विस्तारं तन्मानं बिलमुच्यते॥
पश्चिमे दक्षिणे वापि योनिमश्वत्थपत्रवत्।
कुण्डेवा स्थापयेदग्निं विच्छिन्नं तु रक्षयेत्॥ (२न्द् ऴिने)
यावन्मूलोपचारैस्तु तावदग्निं सुपूजयेत्।
लिङ्गस्थं पूजयेत्तत्र वह्निस्थं हविषाहुतिः॥
त्रिकालं चैककालं वा अग्निं सम्पूजयेद्गुरुः। (३र्द् ऴिने)
शोधनं मार्जनं तत्र गोमयालेपनं क्रमम्॥
अघोरास्त्रेण मन्त्रेण शोधयेत्तु विशेषतः। (४थ् ऴिने)
गन्धैः पुष्पैस्तथा धूपैर्दीपैरग्निं तु पूजयेत्॥
दर्भैर्परिस्तरेदभिः परिषेचमथाचरेत्।
आजं हुत्वा हृदामन्त्री व्याहृति जुहुयात् क्रमात्॥ (५थ् ऴिने)
प्रणवेनैव मन्त्रेण हुत्वातु षोडशं भवेत्।
चरुं हुत्व्वा तदन्तेतु व्याहृतीञ्चैव हूयते॥ (६थ् ऴिने)
ब्रह्माङ्गानि ततोहुत्वा स्विष्टां हि न कारयेत्।
प्रणिताकार समिधा ब्रह्मकूर्चं विनाचरेत्॥
नित्याग्निना विधिश्चैव मुद्राणां लक्षणं शृणु। (७थ् ऴिने)
मुदं करोति देवानां द्रावयत्यसुरां स्तथा॥
मोदनाद्द्रावणाच्चैषां मुद्रेयं परि……।
लिङ्ग॥नमस्कारा तालाख्या शङ्खमुद्रिका॥ (फ़्।५०ब्)
सुरभिमुकुली चैव आवाहीनिष्ठुरं तथा।
बीजाख्या पञ्चमुद्री च दिव्य…॥त्मकम्॥ (२न्द् ऴिने)
संहारमुद्रया चैव सदाशिवाख्यकं तथा।
आसनीया महेशाख्या वज्रादि दशमुद्रिका॥
टङमुद्रा महामुद्रा घण्ठाख्या चास्त्रमुद्रिका। (३र्द् ऴिने)
॥रमुद्रा चापमुद्रा द्वात्रिंशत् परिकीर्तिता॥
लिङ्गमुद्रेति विख्याता प्रच्छिन्नेतु प्रदर्शयेत्।
सन्निवेश्य हृदिस्थाने नमस्कारेण चोच्यते॥
हस्ताभ्य…डयेत्तत्र मुद्रां कुर्यात्तु खराधना। (४थ् ऴिने)
एषां हि शङ्खमुद्राख्या स्नानकाले प्रदापयेत्॥
कृत्वात्वावाहनीख्या(मु)द्रा(ता) कुर्यदावाहने तथा। (५थ् ऴिने)
सन्निधाख्यां विशेषेण सन्निरोधन कालके॥
बीजमुख्या तथा मुख्या दर्शयेच्छक्ति कल्पने।
मुद्रापञ्चमुखी चैव दर्शयेद्वक्त्रकर्मणी॥ (६थ् ऴिने)
॥व्यभवेत्तेषां द्रव्याभावे प्रदर्शयेत्।
शिवाख्य स्थापने काले दर्शयेद्देव सन्निधौ॥
मुष्टिमूर्ध्व गतां बध्वा संहृदास्सहृदौ परौ। (७थ् ऴिने)
आसनाख्या तथात् आसनेतु प्रदर्शयेत्॥
महेशाख्या तालमुद्रा प्रतिमान्तेतु प्रदर्शयेत्।
वज्रादि दशमुद्रान्तां भावयेद्दश हस्तके॥ (८थ् ऴिने)
टङ्कमुद्रा महा मुद्रा भवेत्तेषां सकुञ्चितम्।
धनुर्मुद्रा भवेत्तेषां सर्वशतृ विनाशनम्॥
मुद्राक्रमं समाख्यातं युग्म युग्म विभागशः। (फ़्।५१अ)
तर्पणाञ्जलि मुद्राणां करन्यासावकुण्ठनम्॥
पाद्याचमन नैवेद्यं प्रधानञ्चाभिषेचनम्।
वस्त्राभरणमाल्यादि भूषणं हस्तयुग्मतः॥ (२न्द् ऴिने)
दानानि दर्शनादीनि प्रोक्षणञ्चोन्मुखेन तु।
अर्ध्योदकाञ्जलीदानं तर्पणावाहनादिकम्॥
हस्ताभ्यां सम्मुखाभ्याञ्च विधिना कारयेद्बुधः। (३र्द् ऴिने)
द्रव्यदेवतमन्त्राणाम् ॥द्यामपि प्रोक्षणम्॥
अधोमुखेन हस्तेन तथा गात्रावकुण्ठनम्।
शयनासन सङ्कल्पमत्याधानञ्च कल्पयेत्॥ (४थ् ऴिने)
हुतमभ्युक्षणञ्चापि गन्धपुष्पार्घ्यदानकम्।
प्रतिष्ठाजप सङ्ख्यानं बलिदानाधिकं तथा॥
त्रयम्बकेन भस्मेन ता॥भ्यामभिषेचनम्। (५थ् ऴिने)
मध्यमानामिकाङ्गुष्ठैः स्त्रिभिरेव समायुतम्॥
द्रव्यदेवतमन्त्राणि न्यसेत् गन्धादि दापयेत्।
…………।ज्याभ्यां प्रोक्षयेत्तु यथाविधिः॥ (६थ् ऴिने)
ऊर्ध्वेभ्युक्षणमादाय अधोभ्युक्षणमुक्षणम्।
त्रि पञ्चगव्य तोयेन नाममन्त्रयुतैः कुशैः॥ (७थ् ऴिने)
अनुक्तमत्र देवेस्मिन् शिवशास्त्रेषु भाषितम्।
हस्तप्रयोगमन्वीक्ष्य कर्तव्यं देशिकोत्तमैः॥
सकलाराधनं वक्ष्ये सङ्क्षेपाश्शृणु षण्मुखा। (८थ् ऴिने)
चलञ्चलाचलञ्चैव अचलश्च त्रिधाभवेत्॥
चलं धातुमयं ज्ञेयं शैलञ्चलाचलं स्मृतम्।
अचलं मृण्मयं ज्ञेयं भित्तिचित्रपटं तथा॥ (फ़्।५१ब्)
मृण्मये चित्रयुक्तेन पटेवा भित्ति चित्रके।
तेषु देवा यजेस्तानं वस्त्रमाभरण…॥॥
……………।…………।र्वोपचारकैः। (२न्द् ऴिने)
पटस्थ भित्ति चित्रस्य चित्रयुक्तोपलस्यतु॥
मृण्मयस्य विशेषेण कर्मार्चाय सहार्चयेत्।
कर्माद्वाबाहु पीठेव कुर्यान्मणिमयार्चनम्॥
जान्वन्तं वापि नाभ्यन्तं कर्माद्वाप्रतिमोदयम्। (३र्द् ऴिने)
चित्रहीने शिलायातु लोहस्वार्च्चं विसर्जयेत्॥
प्रोक्तकर्मार्चना यस्य प्रोक्तमन्त्रा कृतार्चनम्।
आदी कृतार्चनं तत्र कर्मार्चाया च कारयेत्॥ (४थ् ऴिने)
आद्रया प्रोक्षणं वाथ अव्यक्तो लोहकर्मणी।
स्थापितं केवलं यत्र परिवारादिभिर्युतम्॥
तत्र सर्वोपचारैस्तु कर्तव्यं यजनक्रमम्। (५थ् ऴिने)
केवलादनु बिम्बाश्च स्थापिताश्च विशेषतः॥
हविष्यन्ते यजेद्धीमान् परिवारादिकं विना। (६थ् ऴिने)
बिम्बशुद्धिं ततः कृत्वा यथा बिम्बानुसारतः॥
पूर्वसन्ध्यार्चिता माल्यामपनीह्य हृदा ततः।
संशोध्य मृण्मयं बिम्बं वक्त्रपिण्डेन वायुना॥ (७थ् ऴिने)
कुशैर्वाशोधयेद्धीमान् (वि)चित्रासं तथैवच।
तथावर्णित शैलं तु केवलं चेज्जलेनतु॥
रात्रिवर्णन्तु सौवर्णं राजतं लवणेन तु। (८थ् ऴिने)
ताम्रमाम्लेन शुद्धिस्यात् काम्सं भस्मेन शुध्यति॥
ततो लोहज बिम्बानि स्नाप्यं पर्वणि पर्वणि।
पुष्पं शिरसि निक्षिप्य कल्पयेदाननद्वयम्॥ (फ़्।५२अ)
धर्मादीनिच कोणेषु पाद्यास्सङ्कल्प्य देशिकः।
अधर्मादीनि च वक्त्रादिष्वलीकां विन्यसेत् क्रमात्॥
गुणत्रयेण सश्चाद्य मध्यमेतु हरिं यजेत्। (२न्द् ऴिने)
तन्मध्ये कर्मन्यस्त्वा साष्टपत्रं सकर्णिकम्॥
तन्मध्ये विन्यसेद्देवम् अष्टत्रिंशत्कलामयम्।
यद्यत् कर्मयतं तस्मात् कर्मार्चा वा समारभेत्॥ (३र्द् ऴिने)
सद्येन वाहयेद्देवं विन्यसेद्गुह्यकेन तु।
सन्निरोधं त्वघोरेण तत्पुरुषेणतु सन्निधि॥
हृदयेनतु मन्त्रेण शिरस्यर्घ्यं विनिक्षिपेत्। (४थ् ऴिने)
पाद्यमाचमनञ्चार्घ्यं दापयेद्धृदयेन तु॥
पञ्चब्रह्म षडङ्गैश्च सकुर्यादभिषेचनम्। (५थ् ऴिने)
अनाद्रयात्वघोरेण कुशयात् प्रोक्षयेद्बुधः॥
अम्बरं भूषणं चैव उपवीतञ्च दर्पणम्।
ईशानेन प्रदातव्यं पाद्यं सद्येन दापयेत्॥ (६थ् ऴिने)
माल्यातु शिरसा दद्यात् धूपं तत्पुरुषेण तु।
दीपं वै नेत्रमन्त्रेण गौरीं वामेन संयजेत्॥ (७थ् ऴिने)
गङ्गाञ्च पूर्वदिग्भागे दक्षिणेतु विनायकम्।
सेनापतिं तु पार्श्वेतु कोणे…न्यसेत् क्रमात्॥
देवस्यत्वेति मन्त्रेण नैवेद्यं तु निवेदयेत्। (८थ् ऴिने)
हृदाचाचमनं दत्वा निर्माल्यं तु विसर्जयेत्॥
ताम्बूलं दापयेद्धीमान् मुखवास……।।
सकलाराधनं प्रोक्तं प्रणवादि ऋषिं शृणु॥ (फ़्।५२ब्)
ॐ कारस्य स॥दाक्त ऋषि ब्रह्मादि…।।
छन्दोदेवी च गायत्री परमात्मा च देवता॥ (२न्द् ऴिने)
सद्योजातस्य मन्त्रस्य ब्रह्मभक्ताधिदैवता।
गायत्री छन्दमित्युक्तम् ऋषिर्गौतम एव च॥
वामदेवस्य मन्त्रस्य विष्णुस्तस्याधिदैवतम्। (३र्द् ऴिने)
अनुष्टुप् छन्दकल्पञ्च आत्रेयृषिभिस्तथा॥
अघोरमस्त्ररूपेण रुद्रस्तस्याधिदैवतम्।
त्रिष्टुप् छन्दसंयुक्तो विश्वामित्रो ऋषिस्तथा॥ (४थ् ऴिने)
तत्पुरुषस्य मन्त्रस्य महेशस्ताधि दैवतम्।
बृहती छन्द इत्युक्तम् ऋषि…॥चल संयुतम्॥
ईशानमन्त्ररूपन्तु शिवस्तत्राधि दैवतम्। (५थ् ऴिने)
जगती छन्दसंयुक्तं भारद्वाजो ऋषिस्तथा॥
सादाख्यरूपमेवं तु पञ्चब्रह्ममयं तथा। (६थ् ऴिने)
अ॥वत्सविशेषेण नित्योत्सव विधिं शृणु॥
हाटकेन रजितेन वाकुतं ताम्रकेन कररत्नि विस्मृतम्।
तालमात्रविधृतं सकर्णिकं साङ्गुलोश्चृधमथाष्टकर्णिकम्॥ (७थ् ऴिने)
एवं पात्रं तु सं…न्तु विन्यसेत् मण्टपोत्तरे।
प्रातर्मध्याह्नसायाह्ने पुष्पान्नर्ध्यं समायुतम्॥ (८थ् ऴिने)
कन्यसं त्विति विस्तारं द्विकालञ्चाग्निलिङ्गकम्।
सापेचैवार्घ्यलिङ्गं तु मध्यमञ्चेति कीर्तितम्॥
त्रिकालञ्चन्न लिङ्गं तु उत्तमञ्चेति कीर्तितम्। (फ़्।५३अ)
आदित्याङ्गुलमुत्सेधं द्विगुणञ्चा॥मुच्यते॥
अग्रं पक्षाङ्गुलं तारं गन्धमाल्यं तु सर्वतः। (२न्द् ऴिने)
तल्लिङ्गस्तु तथा पूज्य रौद्रं पाशुपतं तथा॥
चतुर्भुजं त्रिणेत्रं च शिखाकोटि समुज्वलम्।
सर्वलक्षण संयुक्तं रौद्र द्रष्ट समायुतम्॥ (३र्द् ऴिने)
गृहीत्वा शूलदण्डाग्रं वामेन कटकेन तु।
त्रिशूलं दण्डमूलं तु सव्यहस्तेन मुष्टिना॥
अधोमुखं तु मुष्टिस्यात् कटकञ्चोर्ध्व वक्त्रकम्। (४थ् ऴिने)
दक्षिणे चाक्षमालाञ्च वामहस्तेन पाशधृक्॥
समभङ्गस्थानकं कृत्वा पूर्वोक्तेन प्रमाणतः। (५थ् ऴिने)
अस्त्रराज नमेवत्तु कारयेत्तु विचक्षणः॥
सद्येनावाहयेद्देवं वामेन स्थापनं भवेत्।
अघोरेणतु सान्निध्यं पुरुषेणतु पूजयेत्॥ (६थ् ऴिने)
दर्शयेदस्त्रमुद्राञ्च नमस्काराख्यकं तथा।
तद्रौद्रं द्रष्टिनाथाय पूजयेदिन्दुशेखरम्॥ (७थ् ऴिने)
ऋज्वागतं स्तितं देवं कृष्णापरशु संयुतम्।
वरदाभयहस्तं च जटामकुटमण्डितम्॥
द्वीपचर्माम्ब्रधरं सौम्यदृष्टिस्मिताननम्। (फ़्।५३ब्)
इन्दुशेखरमूर्तं वा अस्त्रमूर्तिं तथैव च॥
प्रतिमाकारमूर्तिं वा यजेल्लिङ्गे तदन्यकम्।
…………………लहे चण्डमारुते॥ (२न्द् ऴिने)
केवलं चास्त्रराजानं लिङ्गस्थावृत पूजनम्।
पाशुपतेन चास्त्रेण हृदेनाष्टशतं हुनेत्॥
परिचारकौ समाहूय सोष्णीषं चोत्तरीयकौ। (३र्द् ऴिने)
सर्वलक्षणसम्पन्नौ सर्वाभरणभूषितौ॥
पवित्रपाणिनस्सर्वे गन्धमाल्यैरलङ्कृता।
तयोर्मूर्ध्नि न्यसेल्लिङ्गं प्रतिमां च विशेषतः॥ (४थ् ऴिने)
वितानश्छत्र संयुक्तं पिञ्छ चामर संयुतम्।
सर्वातोद्य समायुक्तं नानाभक्तजनैर्युतम्॥ (५थ् ऴिने)
पूर्वाह्ने ब्रह्मणप्रीतिर्मध्याह्ने शिवमूर्तिना।
विष्णो प्रीतिकरं रात्रौ त्रिः कृत्वातु प्रदक्षिणम्॥
नयेच्चमूर्ध्नि पुरतः तदन्तेव तथैव च। (६थ् ऴिने)
प्रथमं प्रदक्षिणं कृत्वा भृङ्गिणी तालसंयुतम्॥
परिवाराणां द्वितीयं तु प्रदक्षिणमथाचरेत्। (७थ् ऴिने)
वृषस्य वृषतालं तु आग्नेय्यं भृङ्गिणी तथा॥
मातृणां झल्लरी वाद्यं विघ्नेशस्यतु टङ्किरि।
षण्मुखस्यात् घटं चैव ज्येष्ठायां कुञ्चितालकम्॥ (फ़्।५४अ)
तटप्रकारदुर्गायां विषमञ्चन्न चण्डिके।
गान्धारम सम्पूर्वकोल्यस्ततामन्धावणञ्च कौशिकम्॥
भृङ्गीपञ्चममल्लताल सहितं श्रीकामरं सौमरम्। (२न्द् ऴिने)
तक्केशीबलितालयुक्तसहितं क्रमेण यस्तकरागोमहान्॥
गोपुरे वाद्यनिश्शब्दं शङ्खघोष समन्वितम्। (३र्द् ऴिने)
ततः पुरस्थिते पीठे त्रिः कृत्वातु प्रदक्षिणम्॥
सर्वदेवाश्रितं धामं बलिपीठं विशेषतः।
भूर्भुवस्त्रिलोकानां बलार्थं बलिडम्बरम्॥ (४थ् ऴिने)
सुरृषिर्मनुष्याणां चराचराणां विशेषतः।
उत्पन्नस्सर्वभूतानां बलदं बलिरुच्यते॥
त्रिलोकप्रदक्षिणार्थाय शिवधामप्रदक्षिणम्। (५थ् ऴिने)
भूः प्रदक्षिणं पूर्वं द्वितीयं भुवः प्रदक्षिणम्॥
स्वः प्रदक्षिणं त्रितीयं तु प्रदक्षिणमहाबलम्।
भूम्यन्तरिक्षस्स्वर्गाणां रक्षार्थं भुवनश्शिवः॥ (६थ् ऴिने)
आलयस्सर्वदेवानां मूलाधारमितिस्मृतम्।
कुर्वन् प्रदक्षिणश्शम्भुं जगद्रक्षार्थकारणम्॥
देवैश्च दानवैर्यक्षराक्षसैश्च मुनीन्द्रकैः। (७थ् ऴिने)
सिद्धैश्च चारणैश्चैव सर्वदासेव्यं शिवायवै॥
महानां बलिपीठं तु देवान्यामाश्रियं ततः। (८थ् ऴिने)
बलिभ्रमणकालेषु परिवारार्चनेषु च॥
प्रदक्षणं कृतायात्र छायालङ्घनमिष्यते।
शबरी बलिपीठं तु प्रविश्याभ्यन्तरे ततः॥ (फ़्।५४ब्)
इन्द्रस्य समतालं तु आग्नेबद्धावरणं भवेत्।
यमस्य भृङ्गिणीतालं नैऋत्यां मर्मतालकम्॥
वारुण्यां नवतालं तु वायव्यां बलितालकम्। (२न्द् ऴिने)
सौम्येतु कौशिकीप्रोक्ता ऐशान्यां टङ्किरी तथा॥
बलिलिङ्गं प्रकर्तव्यं पूर्वोक्त विधिना सह।
प्रदक्षिणं ततः कृत्वा प्रविशेदालयं प्रति॥
द्वारदेशं समाश्रित्य पादप्रक्षालणं कुरु। (३र्द् ऴिने)
पादुका वृषदैवत्यम् उपचाराणि सर्वतः॥
पाद्यादीनि समभ्यर्च्य वृषं गायतिमन्त्रतः।
प्रविशेदालयं पश्चात् विन्यसेत् पूर्व देशिकः॥ (४थ् ऴिने)
लिङ्गाद्देवं समादाय …बिम्बेतु विन्यसेत्।
ततो प्रहारञ्चण्डाय चण्डमन्त्रेण दापयेत्॥ (५थ् ऴिने)
बलिवाद्यं ततशृत्वा पिशाचा ब्रह्मराक्षसाः।
ग्राम बाह्यं ततो गत्वा धनधान्य समृद्धिदम्॥
एवं नित्योत्सवं कृत्वा जपलक्षणमुच्यते। (६थ् ऴिने)
अङ्गुल्याज्जप सङ्ख्यानामेकमेकं वरानने॥
रेखादष्टगुणं विद्यात् पुत्रदीप फलैर्दश।
शतं वै शङ्खमुणिभिः प्रवालस्तु सहस्रकम्॥ (७थ् ऴिने)
स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमीरितम्।
पद्माक्षैर्दशलक्षं तु स्वर्णैः कोट्येकमुच्यते॥ (फ़्।५५अ)
दशकोटिकुशाग्रन्थि जपेन सततं नरैः।
श्रीरुद्राक्षजपेनैव अनन्तं गुणितं फलम्॥
रुद्राक्षं तु जपं विद्यात् जपसङ्खा न विद्यते। (२न्द् ऴिने)
समाधिर्जप संयुक्तं स्तोत्रमन्त्रमनन्तरम्॥
पञ्चब्रह्म शिवाङ्गैश्च व्योमव्यापि त्रयम्बकम्।
यथाशक्ति जपं कुर्यात् त्रिः कृत्वातु प्रदक्षिणम्॥ (३र्द् ऴिने)
भरतोक्त प्रमाणेन ताण्डवं चैव गेयकम्।
अञ्जलिं दक्षिणं हस्तं कुञ्चितं चतुरङ्गुलम्॥
पुष्पवारि गृहीत्वातु अनिष्ठां स्थापयेद्बुधः। (४थ् ऴिने)
चुलुकोदकं समाख्यातं स्वात्मानं पादमूलतः॥
घटिकाद्वौ भवेत् स्नानं घटिकैकातिनं भवेत्।
घटिकार्धं निवेद्यार्थं बलिदानं तु तत्समम्॥ (५थ् ऴिने)
नित्याग्निकार्यमर्धं च नित्योत्सवं द्विनाडिका।
ताण्डवत्वेकनाडीस्यात् सन्ध्यां प्रति सुकारयेत्॥
भास्करोदयमारभ्य यावत्तु दशनाडिका। (६थ् ऴिने)
प्रातः कालमिति प्रोक्तं पूर्वाह्नमितिचोच्यते॥
पूर्वाह्नान्तं समारभ्य यावत्तु दशनाडिका।
मध्याह्नमिति विज्ञेयमपराह्नमथोच्यते॥ (७थ् ऴिने)
मध्याह्नान्तं समारभ्य यावत्तु दशनाडिका।
अपराह्नमितिज्ञेयं सायं कालमथोच्यते॥
अस्तमयं(नं) समारभ्य सार्धसप्त च नाडिका। (८थ् ऴिने)
प्रदोषमितिविख्याता अर्धयामं ततः शृणु।
प्रदोषान्तं समारभ्य त्रिपादेन त्रिनाडिका॥
अर्धयाममिति प्रोक्तं मध्यरात्रमथोच्यते। (फ़्।५५ब्)
अर्धयामं तदारभ्य यावत्तु दशनाडिका॥
मध्यरात्रमितिख्यातं रात्रान्तिकमथोच्यते।
भास्करस्योदयात् पूर्वे त्रिपादेन त्रिनाडिका॥ (२न्द् ऴिने)
रात्रान्तिकमिति प्रोक्तं ज्ञात्वैवं सर्वमाचरेत्।
जलसङ्ग्रहणं पुष्पं सङ्ग्रह यजनं तथा।
उदयादेव कर्तव्यं रात्र्यन्ते वा जलं गृहेत्॥ (३र्द् ऴिने)
देवता स्थापनं तीर्थं प्रातः काले समाचरेत्।
प्रातः कालन्तमारभ्य यावत् काशिकनाडिका॥
तावद्वापि प्रकर्तव्यं तीर्थकार्यं प्रजापते। (४थ् ऴिने)
अङ्कुरार्पण पूर्वं तु उत्सवस्याधिवासनम्॥
साये च प्रारभेद्धीमान् रक्षासूत्रप्रबन्धनम्। (५थ् ऴिने)
स्थापने प्रोक्षणेचैव गर्भन्यासे तथैव च॥
अधिवासानि सर्वाणि मध्यरात्रौ तु कारयेत्।
रात्रान्तिक विशेषेण सर्वदेवप्रियार्थकम्॥ (६थ् ऴिने)
कुर्यात् पञ्चमहाशब्दं तदाऽशुभ निवर्तये।
पश्चिमद्वारहर्मे तु किञ्चित् भेदं शिवार्चने॥ (७थ् ऴिने)
द्वारस्य दक्षिणे पार्श्वे नन्दीशं नर्मदा ॥जेत्।
द्वारस्य वाम पार्श्वेतु विजया सिन्धुमर्चयेत्॥
नन्द्यादि द्वारपालानां पूर्ववत् परिकल्पयेत्। (फ़्।५६अ)
पश्चिमे वृषभं पूज्य स्कन्दं पूर्वेतु पूजयेत्॥
परिवारं यजेत्तत्र वृषादि विघ्नेश्वरान्तकम्।
उपचाराणि सर्वाणि सद्यमन्त्रे प्रदापयेत्॥ (२न्द् ऴिने)
आसनावरणादीनि पूर्ववत् परिकल्पयेत्।
आत्मार्थञ्च परार्थञ्च एवं सन्ध्यार्चितं शिवम्॥ (३र्द् ऴिने)
अशक्तः क्रियते पूजां तस्य पुण्यफलं शृणु।
धन्यं यशस्कराञ्चायुर्वर्धनं पुष्टि वर्धनम्॥
अदृष्टं मुक्तिदं सर्वं दानयज्ञफलप्रदम्। (४थ् ऴिने)
कुलैः कविं समुद्धृत्य शिवलोके महीयते॥
शिवस्य परिपूर्णस्य कीन्नामं क्रियते जनैः।
यत्कृतं शिव भक्तानां तच्छिवस्य कृतं भवेत्॥ (५थ् ऴिने)
इति वातुल तन्त्रे सहस्त्र ग्रन्थ संहितायां
नित्यार्चन पटलः समाप्तः॥
श्रीमीनाक्षि सुन्दरेशाय नमः। ॐ श्रीगुरवे नमः। (६थ् ऴिने)
गुहाय नमः। श्री सरस्वती देव्यै नमः।
प्लव वरुष मासि……………।
……॥इत्नापतिनत्तिल् वातुलागमं कानावूर् (७थ् ऴिने)
अय्यासामि गुरुक्कल् पौत्रनुं चिदम्बर गुरुक्कल् पुत्रनुं
षण्मुख गुरुक्कल् स्वहस्तलिखितम् ।
शुभमस्तु।

हिमञ्चलञ्च कर्पूरं बिल्व चन्दन संयुतम्। (फ़्।५६ब्)
मयूरगजमश्वञ्च रोपयेच्चपबाणधृक्॥
ग्रामबाह्ये वनं गत्वा शीघ्रतोपित गच्छतु।
वनान्तरे प्रभामध्ये विनोदाय न्यसेत् क्रमात्॥ (२न्द् ऴिने)
नालिकेर जलं चैव दुग्धसार समन्वितम्।
निवेदत विशेषेण ताम्बूलं तु निवेदयेत्॥ (३र्द् ऴिने)
किरातं यस्तु समादाय मृगक्रिडा विलोकयन्।
केचिद्युद्धक्रमं कुर्यात् केचिद्युद्धोमुखोभवेत्॥
आयनु प्रविश्याथ सर्ववाद्यसमन्वितम्। (४थ् ऴिने)
तद्रात्रौतु विशेषेण कौतुकं तु षडानना॥
देवदेवं विशेषेण भूषणादीनि भूषयेत्।
स्नाप्यपूर्वोक्त विधिना पूजयेत्तु विशेषतः॥ (५थ् ऴिने)
सभामण्टप मध्येतु कौतुकं बन्धयेत् क्रमात्।
ग्रामप्रदक्षिणं कुर्यात् सर्ववाद्यानु संयुतम्॥ (६थ् ऴिने)
आस्थानमण्टपं प्राप्य स्नपनं पूर्ववद्भवेत्।
नवमे दिवसे चैव गन्धोत्सव विधिक्रमम्॥
सभागे भूतले शुद्धे स्थालिकां स्थण्डिलोपरि। (७थ् ऴिने)
कृष्णगन्धन्तु विन्यस्य अधिवासं च पूर्ववत्॥
हर्म्य प्रदक्षिणं कृत्वा प्रविश्यास्थान मण्टपे।
पुण्याहं वाचयित्वातु प्रोक्षयेच्छुद्धवारिणा॥ (८थ् ऴिने)
अङ्गन्यास करन्यासमन्तर्यागमथाचरेत्।
शक्त्यादि शक्ति पर्यन्तं कुमारं पूजयेत्तदा॥ (फ़्।५७अ)
अष्टत्रिंशत्कलान्यासं मकुटादि क्रमान्यसेत्।
धूपदीपं हृदा दत्वा पाद्यमाचमनं बुधाः॥
मुहूर्तं निरीक्ष्य देवज्ञो कुमारं संयजेत् कुरु। (२न्द् ऴिने)
उद्धेत् गन्धतैलं तु यक्षकद्दमलेपयेत्॥
स्कन्ददेवं समालिप्य जम्बूफलस्य वर्णकम्।
अर्चयित्वातु पूर्वोक्तं शक्तिद्वय समायुतम्॥ (३र्द् ऴिने)
देव्यास्तु कण्ठदेशेतु स्तनमध्येतु लेपयेत्।
मूलबेरं ददेद्गन्धं यगेश्वरमतः परम्॥
ततः परं तुमाचार्यं तस्यान्ते भक्तदापयेत्। (४थ् ऴिने)
तस्यान्ते दापयेद्द्राज्ञा सर्ववर्णं तु दापयेत्॥
सर्वालङ्कार संयुक्तो रत्नमाल्यादि भूषितः। (५थ् ऴिने)
गौर्या सहितं देवम् अलङ्कृत्य विशेषतः॥
पुष्पप्रभा समयुक्तं यजेद्दापयेत्पटम्।
धूपदीपादि दत्वातु नैवेद्यं तु प्रदापयेत्॥ (६थ् ऴिने)
ताम्बूलं दापयेत् पश्चात् मुखवास समन्वितम्।
पटं विसृज्य देवेशं धूपदीपादि दापयेत्। (७थ् ऴिने)
दूर्वाक्षत समायुक्तं पवित्रं विन्यसेत् क्रमात्॥
नमस्कृत्वातु देवेशम् उत्सवं ज्ञापयेद्गुम्।
उष्णीषमुत्तरीयञ्च सर्वाभरणभूषितम्॥ (८थ् ऴिने)
अर्घ्यपात्रकरो भूत्वा तत्पीठे स्थितास्तथा।
सव्यभागेसमायुक्तं स्कन्दमन्त्रं समुच्चरन्॥
सव्यहस्ते द्विहस्ता च सङ्गृह्य सव्य पादुकम्। (फ़्।५७ब्)
शिबिकास्थित देवेशं सर्वदेवस्य सेवितम्॥
भेरिश्च मद्दलीचैव वेणुं वीणां तथैव च।
नाना वद्य समायुक्तं नानाध्वजसमायुतम्॥ (२न्द् ऴिने)
घटवाद्य समायुक्तं वाद्यको देव मृतङ्गतः।
उर(गेय) नृत्त समायुक्तं देवदेवस्य सन्निधौ॥
पुनः पुनरिशबञ्च वदेत् काहल शब्दकम्। (३र्द् ऴिने)
हर्म्यप्रदक्षिणं कृत्वा बाह्ये सप्तगृहं तथा॥
जनानां दर्शयित्वा तु प्रविशेऽस्थानमण्टपे।
नृत्तगीत समायुक्तं विनोदं कारयेत्तदा॥ (४थ् ऴिने)
स्थापयित्वा कुमारं च कर्पूराद्यैर्विशेषयेत्।
जातिपुष्पञ्च मालाद्यैरर्चयेत्सर्व गन्धकम्॥ (५थ् ऴिने)
मुक्तामाल्यादिभिः पूज्यं संयजेद्देशिकोत्तमः।
नैवेद्यं दापयेत् पश्चात् धूपदीपादि दापयेत्॥
रङ्गेवा शिबिकायां वा रोपयेत्सिद्धि वेलया। (६थ् ऴिने)
पङ्तियानं प्रकर्तव्यं प्रतिपङ्ति शनैश्शनैः॥
वेदध्वनि समायुक्तं स्तोत्रध्वनि समायुतम्। (७थ् ऴिने)
वाद्यशब्द समायुक्तं गीतनृत्तसमायुतम्॥
आरोपयेत् कुमारं च सभामण्टपके ततः।
नृत्तवाद्यादिना पश्चात् रात्रिशिष्य॥पोह्यच॥ (८थ् ऴिने)
अरुणोदयपूर्वेतु कौतुकस्नानमाचरेत्।
नदीतीरे तटाकेवा समलङ्कृत्यमेव च॥
पुण्याहं वाचयित्वातु नवकुभानि कल्पयेत्। (फ़्।५८अ)
गङ्गादि नवतीर्थानि पूजयेत् स्व्स्वमन्त्रकैः॥
महाशक्तिं च सम्पूज्य सहस्नानं च देशिकः।
आलयं तु प्रविश्याथ समलङ्कृत्य देशिकः॥ (२न्द् ऴिने)
अरुणोदयवेलायां षडानन विशेषतः।
रथे वा शिबिकायां वा कुमारं रोपयेत् गुरुः॥
ग्रामप्रदक्षिणं सर्वं प्रविश्यास्थान मण्टपम्। (३र्द् ऴिने)
देवस्य पुरभागेतु सर्व वाद्यानि घोषयेत्॥
देवस्याग्रे विशेषेण स्थलशिद्धिं च कारयेत्।
पाद्यमाचमनञ्चार्ध्यं धूपदीपसमायुतम्॥ (४थ् ऴिने)
उपचाराणि सर्वाणि दापयेद्देशिकोत्तमाः।
अपूपं विष्टकाञ्ञञ्च उपदंश समन्वितम्॥ (५थ् ऴिने)
सर्वं निवेद्य देवाय पानीयं तु विशेषतः।
आचमनं ददेत् पश्चात् ताम्बूलं मुखवाससम्॥
धीप दीप समायुक्तं कुमारं पूजयेत्तदा। (६थ् ऴिने)
देवस्य पुरतो मध्ये गोमयालेपनं क्रमः॥
स्थण्डिलद्वितयं कृत्वा दर्भैः पुष्पैः परिस्तरेत्।
हृदयेनार्च्य मन्त्रेण मङ्गलाङ्कुर शोभितम्॥ (७थ् ऴिने)
मुसले लूखलं प्राप्य स्थण्डिलञ्च निवेदयेत्।
शक्तिच्च पश्चिमे स्थाप्य गन्धपुष्पादिनार्च्येत्॥
घृतशिरोर्पणं तैलं होमदूर्वां कुशाक्षताः। (फ़्।५८ब्)
द्रोणं वा तदर्धं वा शुष्कञ्च रजनीं तथा॥
निक्षिप्य लूखले तत्र चूर्णीकृत्य क्रमेनतु। (२न्द् ऴिने)
महाशक्तिं च विन्यस्य स्थण्डिलोपरि बुद्धिमान्॥
गन्धाद्यैरर्चयित्वातु शक्तिमन्त्रेण देशिकाः।
पू॥भेरीञ्च सन्ताड्य चूर्णोत्सवं समाचरेत्॥ (३र्द् ऴिने)
व्योमव्यापिश्च मन्त्रेण पदं कुट्टन देशिकाः।
शङ्खभेर्यादि घोषैश्च गीतवाद्य समाकुलम्॥
ततोभक्त जनैश्चैव चूर्णोत्सवमथाचरेत्। (४थ् ऴिने)
तच्चूर्णं सङ्गृहीत्वातु अर्चयेत् षण्मुखं हृदा॥
अयं कुमारमन्त्रेन ताम्बूलं दापयेत्तदा। (५थ् ऴिने)
दूर्वाक्षतानि चाभ्यङ्गं कृत्वा चूर्णं तु दापयेत्॥
ततो देवास्ततो शक्त्या म॥के विन्यसेत् क्रमात्। (६थ् ऴिने)
आचार्यो तैलचूर्णैश्च राज्ञोभक्तान् प्रदापयेत्॥
चूर्णात् ग्रामजनानाञ्च दत्वा शीघ्रं प्रदक्षिणम्।
प्रविश्य भवनं पश्चात् तीर्थस्नानं समाचरेत्॥ (७थ् ऴिने)
तीर्थ सङ्ग्रहणं चैव कर्तव्यं विधिपूर्वकम्।
स्थापयेन्नव कुम्भं तु मध्येचैव मनोन्मनी॥ (फ़्।५९अ)
गङ्गा च यमुना चैव नर्मदाच सरस्वती।
सिन्धू गोदावरी चैव कावेरी क्रमं तथा॥
पूर्वादीशान पर्यन्तं स्वस्वमन्त्रेषु पूजयेत्। (२न्द् ऴिने)
अम्भौतौघातटाचैव नद्यां वा वापिके तथा॥
तीरेच समलङ्ङ्र्त्वा प्रपां कृत्वा तु सुन्दरम्।
स्थण्डिलद्वितयं चैव पूजयेत् प्रणवेन तु॥ (३र्द् ऴिने)
शक्ति पश्चिमतोन्यस्य तत्पूर्वे कलशान्यसेत्।
सङ्ग्राह्य रन्ध्रकलशान् सूत्रेनैवतु वेष्टयेत्॥ (४थ् ऴिने)
तीर्थोदकैश्च सम्पूर्य स्थापयेत् स्थण्डिलोपरि।
कूर्चानि विन्यसेत् पश्चात् विधानैश्च विधायकः॥ (५थ् ऴिने)
मङ्गलाङ्कुर संयुक्तं न्यसेद्द्रव्यं विशेषतः।
पञ्चगव्यविधि प्रोक्तं पञ्चमृतविधिक्रमम्॥
सर्वं तु गन्धतोयं वा दिग्देवानार्चयेत् क्रमात्। (६थ् ऴिने)
आहूय सर्वतीर्थानि त्रियस्त्रिंशश्च देवतान्॥
आहूयाष्टादशगणान् स्नाप्य तीर्थवृजेत्तदा।
मूलब्रह्म षडङ्गैश्च मालामन्त्रं तथैव च॥ (७थ् ऴिने)
अयं कुमार मन्त्रं च तीर्थ मध्ये न्यसेद्बुधाः।
गन्धपुश्पादिभिः पूज्य शक्तिं तीर्थावगाहयेत्॥ (फ़्।५९ब्)
सहस्नानं तु यत्कुर्यात् सर्वपापविनाशनम्।
तत्तीर्थञ्च समक्तीर्य गन्धपुष्पादिनार्चयेत्॥
कौतुकं तु तत्स्नाप्य गन्धादिभिरथार्चयेत्। (२न्द् ऴिने)
प्रविश्य भवनं पश्चात् सर्वतोद्य समायुतम्॥
यागपूज विधिं कुर्यात् होमान्ते यागमूर्तिनाम्। (३र्द् ऴिने)
मूलबेरं विशेषेण स्नापयेत्तु यथाक्रमम्॥
यगवेदिस्थितान् कुम्भान् स्नापयेन्मूलबेरकम्।
गन्धादिभिस्समभ्यर्च्य निवेद्या च महाहविः॥ (४थ् ऴिने)
बलिं दत्वा क्रमेणैव बलिपीठे समापयेत्।
बल्यन्ते घोषयेद्वाद्यान् त्रन्दीपहीनकम्॥ (५थ् ऴिने)
मौनवृत धरास्सर्वे …।देवान् विसर्जयेत्।
ग्राम प्रदक्षिणं कृत्वा ध्वजं पीठाग्रके …॥
प्रविश्ययं यथा स्थित्वा शङ्खभेर्यादिभिस्वरैः। (६थ् ऴिने)
ध्वाजावरोहणं कुर्यात् पुण्याहं वाचयेत् क्रमात्॥
दण्डमूलं च पद्मं च पिण्डचैवतु निक्षिपेत्। (७थ् ऴिने)
गर्भगेहं प्रविश्याथ पाद्यमाचनमार्ध्यकम्॥
धूपदीपं हृदा दत्वा अष्टपुष्पं सुपूजयेत्।
सुमित्रार्चनविधिं वक्ष्ये शृणु कौशिक सुवृता। (८थ् ऴिने)
सुमित्रेशस्नान संयुक्तं वस्त्रैराभरणैर्युतम्॥
सुमित्राग्रे होमसंयुक्तम् अग्निकर्योक्तमाचरेत्। (फ़्।६०अ)
होमान्तेतु निवेद्यं स्यात् ताम्बूलं तु निवेदयेत्॥
धूपदीप समायुक्तम् अर्चयित्वा विशेषतः। (२न्द् ऴिने)
अन्नलिङ्ग समायुक्तं बलिपात्रे समन्वितम्॥
शक्ति देवान् समादाय उद्वासन बलिक्रमात्।
मौनं पराशिवस्तं च बलिदेवान् विसर्जयेत्॥ (३र्द् ऴिने)
दीपहीनं तथा कुर्यात् प्राहारायञ्च घोषयेत्।
ग्राम प्रदक्षिणं कृत्वा महापीठे बलिं क्षिपेत्॥
पादप्रक्षालनं कृत्वा प्रविशेदालयं तथा। (४थ् ऴिने)
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः॥
दक्षिणां दापयेत् पश्चात् गो भू काञ्चनकैस्सह। (५थ् ऴिने)
सनिष्कमधमं प्रोक्तं मध्यमं दशनिष्ककम्॥
निष्काणां विंशति श्रेष्ठम् आचार्यस्यतु दक्षिणाम्।
दशभागैकभागं तु मूर्तिपानां सदक्षिणाम्॥ (६थ् ऴिने)
यागोपकरणं सर्वं देशिकाय प्रदापयेत्।
भक्तानां परिचाराणां यथाशक्त्यातु दक्षिणाम्॥ (७थ् ऴिने)
दीनानन्धा…भक्तांश्च ब्राह्मणाश्चैव भोजयेत्।
अपरे दिवसे चैव गौर्युत्सवमेवच॥
गौर्यायामहं वक्ष्ये शृणु कौशिक सुवृता। (फ़्।६०ब्)
पूर्वरात्राधिवासं च शक्तियागं यथाक्रमम्॥
सायेचोत्सवमारभ्य कुमारं शक्तिका॥यौ।
………।गतश्चैव कुमारं तदनन्तरम्॥ (२न्द् ऴिने)
ग्रामप्रदक्षिणं कुर्यात् प्रविश्यास्थानमण्टपम्।
धूपदीप समायुक्तं नीराजनमतः परम्॥ (३र्द् ऴिने)
महाहविर्णिवेद्यं तु ताम्बूलं तु निवेदयेत्।
राजोपचारमेवं तु गीतनृत्त समायुतम्॥
महोत्सवमिदं चैव सर्वलोकसुखावहम्। (४थ् ऴिने)
सर्वलोकहितं पुण्यं सर्वराष्ट्रविवर्धनम्॥
सर्वदारिद्र्यनाशं स्यात् राजाविजय वर्धनम्।
भोगमोक्षफलं चैव उत्सवं कथ्यते क्रमात्॥ (५थ् ऴिने)
इति कुमारतन्त्रे कौशिकप्रश्ने महासंहितायां
महोत्सवविधिपटलः त्रियोदशः॥ (६थ् ऴिने)

अतः परं प्रवक्ष्यामि प्रायश्चित्त विधिक्रमम्।
प्रासादे पतिते भिन्ने स्फषते जीर्णां तथैवच॥
द्वारस्तम्भविहीने च परिवारां त हीनके। (७थ् ऴिने)
प्रतिमाणां कलाहीने जीर्णे च चलिते तथा॥
ग्राम प्रदक्षिणे काले प्रतिमा भिन्न…दिने। (फ़्। ६१अ)
अस्त्राणां बलिकालेषु पतते भिन्नमेवच॥
बकं कलुकज………विद्रव्यञ्च भजने।
नित्यार्चनविहीने तु नित्योत्सव विहीनके॥ (२न्द् ऴिने)
हुतभिन्ने अग्निजीर्णे बलिद्रव्यष्टहीनके।
चण्डाल स्पर्शने चैव भतृणहा स्पर्शनेपिवा।
वृतहीने स्पर्शबिम्बम् अन्यदीक्षामपिस्पृशेत्॥ (३र्द् ऴिने)
गन्धहीने तथा चैव वस्त्रहीने तथा भवेत्।
धूपहीने च नैवेद्यं दीपेनैव विहीनके॥
पाद्यार्घ्यद्रव्यहीनेच उपदंशविहीनके। (४थ् ऴिने)
ताम्बूलेन विहीने च मुखवास विहीनके॥
बलिभ्रमण कालेतु दीपहीने तथाभवेत्। (५थ् ऴिने)
वल्मीकादि समुत्पन्ने अग्निना दह्यते(दे)हके॥
कलशोद्धारणे काले पतितो भिन्नथा भवेत्।
व्यजनादि चरान्तं च ॥था मण्टप कीटकम्॥ (६थ् ऴिने)
प्रमादादग्निना दह्यं पतिते ॥चेरके।
संवत्सरोत्सवे हीने उत्सवार्थाय हीनके॥
प्रायञ्चिता॥(नि) कार्यं तु शृणु कौशिक सुव्रत। (७थ् ऴिने)
एतेरेवं समुत्पन्नं प्रायश्चित्तं विधीयते॥
प्रासादे पतिते भिन्ने पुनस्वस्को …॥कर्मणि। (फ़्। ६१ब्)
प्रधानहोमं तु कर्तव्यम् अयं कुमारमन्त्रतः॥
पुण्याहं वाचयित्वा तु अयं कुमार मन्त्रतः।
ब्राह्मणात् भोजयेत्तत्र तदन्तेतु विशेषतः॥ (२न्द् ऴिने)
प्रतिमा पतिते चैव पनस्सन्धानमारभेत्।
जीर्णेवा खण्डिभिन्ने वा प्रतिमापरिकल्पयेत्॥
पूर्वेक्त लक्षणैर्युक्तं पुनस्संस्कार कर्मणि। (३र्द् ऴिने)
अन्यानि कलशं वापि स्थापयेत्पूर्ववत् क्रमात्॥
पञ्चब्रह्म शतं जप्त्वा स्थापयेत्तु विशेषतः।
पीठकाभिन्न जीर्णेव अन्यपीठं प्रकल्पयेत्॥ (४थ् ऴिने)
पञ्चब्रह्म षडङ्गैश्च कुमारमन्त्र सहस्रकम्।
स्थापयित्वा तथैवा च पद्मपीठं विशेषतः॥ (५थ् ऴिने)
हस्तं जीर्णेतु वक्त्रेवा पुनस्संस्कारक …॥(माचरेत्)।
बिम्बं च शिल्पिनं स्पर्शं पुनस्संस्कारमेव च॥
स्थापनं तु ततो कृत्वा एकाशीति घटेषु च। (६थ् ऴिने)
तद्बेरं चोद्धरेद्विद्वान् कुमारमन्त्र शतं जपेत्॥
पुनस्थापनं कर्तव्यं यथा शस्त्रोक्तमार्गतः। (७थ् ऴिने)
लोकपाल कलाहीने लोहजं कल्पयेत्तदा॥
उत्तमाङ्गानि खण्डेतु पूर्ववत् परिकल्पयेत्।
तद्रव्यं ततलोहेन तन्मानेन प्रकल्पयेत्॥ (फ़्। ६२अ)
अन्यरूपञ्च यत्कृत्वा कर्ता भर्ता विनश्यति।
तस्मात्सर्व प्रयत्नेन तद्द्रूपं च प्रकल्पयेत्॥ (२न्द् ऴिने)
मृण्मयञ्च त्रनाशं स्यात् पुनश्शूलं प्रतिष्ठितम्।
मालामूल षडङ्गैश्च कुमारं ब्रह्ममेव च॥
प्रत्येकं तु शतं जप्त्वा पुनस्थापनमारभेत्। (३र्द् ऴिने)
चित्राहसं पुनः कल्प्य पूर्ववत् प्रोक्षयेत् क्रमात्॥
तद्दिने वाधिवासं च स्नपनं च विशेषतः। (४थ् ऴिने)
प॥वादिषु विच्छिन्ने पूर्ववत् कल्पयेत्तदा॥
यावद्ये प्रतिमा स……।वन्तिके।
मूलब्रह्म षडङ्गैश्च अष्टोत्तर सहस्रहम्॥ (५थ् ऴिने)
स्थापयित्वा विशेषेण मन्त्रशुद्धिं तथैव च।
नवकं शत कर्तव्यं प्रतिष्ठायां ततः कुरु॥ (६थ् ऴिने)
उत्सवभ्रमणेकाले प्रतिमां पतितेपिवा।
ब्रह्मचाष्ट शतं जप्त्वा प्रोक्षयेत्तु विशेषतः॥
शान्ति होमं ततः कृत्वा सर्वदोषनिकृन्तनम्। (७थ् ऴिने)
एकसन्ध्यार्चने हीने सद्यमन्त्र शतं जपेत्॥
द्विगुणं पूजयेत्तत्र पुण्याहं तु सदाजपेत्। (फ़्। ६२ब्)
मध्याह्ने अर्चनाहीने वाममन्त्र शतं जपेत्॥
पञ्चगव्यादिभिः कुम्भे स्नपनं कारयेत्तदा।
सायाह्ने अर्चनाहीने अघोरमन्त्र शतं जपेत्॥ (२न्द् ऴिने)
द्विगुणं पूजयेद्विप्रा पूर्ववत् पूजयेत् क्रमात्।
अर्धरात्रं तथा शून्यं पञ्चगव्याभिषेचनम्॥ (३र्द् ऴिने)
दशधा व्योमतं जप्त्वा ततोपास्य विशेषतः।
दिनमेकं तु शून्येन स्थापयेदसुरान्तकम्॥
मूलब्रह्मषडङ्गैश्च अष्टोत्तर शतं जपम्। (४थ् ऴिने)
त्रयाहमुद्वास्य शून्यं च कलशेरभिषेचयेत्॥
अलाप्रोक्तम् अर्चनेन उपास्यके……।
एकमासं तथा शून्यं तत्पुरुषस्य करोत्क्रमात्॥ (५थ् ऴिने)
पञ्चाशत् स्नपनं कृत्वा विशेषेण तथा भवेत्।
द्विमासमर्चना शून्यम् ईशमन्त्र शतं जपेत्॥ (६थ् ऴिने)
स्नपनं पञ्चविंशत्या पूजयेदसुरान्तकम्।
त्रिमासमर्चना शून्यं नवकुम्भाभिषेचयेत्॥
स्तथाष्टक स्नपनं कृत्वा सर्वशान्तिकरं भवेत्। (७थ् ऴिने)
दशमासादि शून्यश्चेत् पञ्चब्रह्मशतं जपेत्॥
जलसम्प्रोक्षणं कुर्यात् विशेषं ब्राह्नण भोजनम्। (८थ् ऴिने)
संवत्सरादिकं शून्यम् अष्टमष्टविधार्चनम्॥
जलसम्प्रोक्षणं कुर्यात् महाहविर्णिवेदयेत्।
द्विवत्सरार्चना हीनम् अष्टोत्तर शतार्चनम्॥ (फ़्। ६२ब्)
जलसम्प्रोक्षणं चैव मूलमन्त्र सहस्रकम्।
त्रिवर्षाभ्यर्चनं शून्यं जलसम्प्रोक्षणं भवेत्॥ (२न्द् ऴिने)
पुण्याहं वाचयित्वातु ब्राह्मणान् भोजयेत्ततः।
चतुर्वर्षादिकं शून्यं सम्प्रोक्षणमथाचरेत्॥
अयं कुमार मालाञ्च सहस्राष्टशतं जपेत्। (३र्द् ऴिने)
तदन्ते स्नपनं तत्र दिशाहोममन्त्रकारयेत्॥
दशवर्षार्चना शून्यं प्रतिष्ठां तत्रशुद्ध्यति। (४थ् ऴिने)
सहस्रस्नपनं कृत्वा विशेषादर्चनं भवेत्॥
नित्योत्सव विहीनेतु स्थापयेदसुरान्तकम्।
नित्यस्नपनहीने तु सङ्क्रान्ति विषुवेषु च॥ (५थ् ऴिने)
मूलमन्त्र शतं जप्त्वा अयं कुमारमेवच।
द्विगुणं स्नपनं कुर्यात् अपरे च दिनेषु च॥
स्नेहद्रव्यादिकैश्चैव फलपुष्पादि गन्धकैः। (६थ् ऴिने)
न्यूने चैव …चैव मूलमालाशतं जयेत्॥
हविद्रव्य विहीनेतु द्विगुणञ्चान्य सन्धिके। (७थ् ऴिने)
अग्निदाह्य विहीने तु क्षुधार्था ग्रामवासिनाम्॥
मूलमन्त्रशताष्टका ……………।।
जीर्णोद्धारे शतं जप्त्वा पूजयेत्तु विशेषतः॥ (फ़्। ६३अ)
पुनस्सन्धानकं कृत्वा पूजां कृत्वा विशेषतः।
दिनं प्रति विशेषेण होमं कुर्यात् विचक्षणः॥
बलिकर्मविहीनेतु मूलमन्त्र शतं जपेत्। (२न्द् ऴिने)
पुण्याहं तत्र कुर्वीत प्रोक्षयेत् पञ्चगव्यकैः॥
चण्डालस्पर्शने चैव सर्वभाण्डार्नवरित्यजेत्। (३र्द् ऴिने)
शुद्धिं कॆत्वातु भवनं प्रोक्षयेत् पवमानकैः॥
पुण्याहं वाचयित्वातु पवमानेन प्रोक्षयेत्।
शुद्धैरुद्धैरितिब्रूयात् अयं कुमार शतं जपेत्॥ (४थ् ऴिने)
स्नपनं …।ततः पश्चात् दयित्वेकोक्तरं तथा।
अन्यजातिस्तु संस्पृष्ठे मालामन्त्र शतं जपेत्॥
पुण्याहं वाचयित्वातु मूलमन्त्र शतं हुनेत्। (५थ् ऴिने)
दिशाहोमन्ततः कॆत्वा सर्वद्रव्य समायुतम्॥
स्नपनं तु ततः कृत्वा यथाशास्त्रोक्तमार्गतः। (६थ् ऴिने)
ब्राह्मणस्पृष्ति बिम्बश्चेत् राजराष्ट्रभ्यङ्करम्॥
पूजयेद्यदि मोहेन राजाराष्ट्रमवाप्नुयात्।
पूर्ववद्विधिमारभ्य पुण्याहं वाचयेत्तदा॥ (७थ् ऴिने)
वल्मीकादि समुत्पन्ने कारयित्वा विशेषतः।
पञ्चगव्येन सम्प्रोक्ष्य वालिकेनतु पूरयेत्॥ (८थ् ऴिने)
शान्तिहोमं ततः कृत्वा स्नपनं चैव कारयेत्।
बिम्बेनाच्छाद्यवस्त्रेण अग्निना …॥ते तथा॥ (फ़्।६३ब्)
प्रासादं प्रतिमाञ्चैव प्राकाराणां तथैव च।
प्रमादादग्निनादग्धैर्दिशाहोमं तु कारयेत्॥
स्नपनं तु ततः पश्चात् यथाविधिपुरस्सरम्। (२न्द् ऴिने)
प्रतिमाञ्चाग्निना दग्धे तद्द्रूपं पूर्ववत् कुरु॥
पुनः प्रतिष्ठां कुर्वीत यथाशास्त्रोक्तमार्गतः।
उक्तानुक्तं च यत्किञ्चित् दिशाहोमानु कारयेत्॥ (३र्द् ऴिने)
हविर्निवेदितं कृत्वा ताम्बूलं दापयेत् क्रमात्।

गुहाय नमः। श्रीमीनाक्षी सुन्दरेशाभ्यां नमः। (४थ् ऴिने)
प्लव वर्षं मार्गलि मादम् अन्त्यमं तै मकर सङ्क्रान्ति काले
वातुलागमं कायवूर् चिदम्बर गुरुक्कं कुमारन् (५थ् ऴिने)
षण्मुख गुरुक्कल् एलुदिनिरैवेत्रिनान्।
शुभमस्तु । अविघ्नमस्तु। मङ्गलम् मङ्गलम् मङ्गलम्