जीर्णोद्धारविधिं वक्ष्ये शृणुष्वेकमनाधुना
लिङ्गस्य प्रतिमायाश्च पिण्डिकां यस्तथैव च १
समानस्य च जीर्णस्य नवीकरणकर्म च
परिवारालयस्यैवं भक्तानविशेषतः
अन्येपि जीर्णानां बल्यर्चा विष्टरादिषु २
छिन्नेषु चोरेरष्टभिन्न शिते मरुताग्निना
एवमादिविशिर्णे तु देव तन्नवसन्तिभिः ३
जीर्णमुत्सृज्य वियति तिष्ठन्त्यब्द त्रिधा विधिः
गतागतं च कृ त्वा तु स्नानादादित्यमण्डलात् ४
आमिनग्रहणार्थाय चरैस्तैत्तिर्यपक्षिवत्
तग्रत्या यजमानं चेस्थाननेन मन्त्रवित्तमात् ५
मद्भक्तान्पीतरागांश्च सदाकाङ्क्षन्ति देवता
ततो मण्डलं प्राप्य शपत्येताहसंशयम् ६
तस्माच्छीघ्रं प्रकर्तव्यं न विकरणकर्म च
मूलालयप्रमाणेन कर्तव्यं तरुणालयम् ७
अर्धं वाथ त्रिभागं वा तरुणोक्तविधानतः
मूलालये यथा द्वारं प्रतिद्वारं विशेषतः ८
बालालयस्य द्वारं स्यात्पूर्ववत्पूजनं नहि
चतुद्वारार्चने यत्तु तथा द्वारादिपूजनम् ९
प्रतीच्यां च यदा द्वारं तत्रेशं पुरुषं स्मरेत्
तस्मात्सर्वप्रयत्नेन नित्यपूजादिपूजनम् १०
ततो मूलालये प्राप्ते पूर्वमेव क्रमेण तु
एवं बालालयं प्रोक्तं बालालिङ्गस्य कथ्यते ११
यथा शूलोक्तवृक्षेण बाललिङ्गं प्रकल्पयेत्
मूललिङ्गस्य पूजांशे त्रिभागैकांशनिर्मितम् १२
तन्नाहं सममेवं स्यात्सुवृत्तं सूत्रवर्जितम्
तस्मिन्नावाह्य देवेशं दारुलिङ्गैथ लोहजे १३
घटे चिरे घटे वापि दर्पणादौ यथाविधिः
घटे किञ्चिशेषोस्ति सप्ताहमुत्तमं स्मृतम् १४
पञ्चाहं मध्यमं प्रोक्तं मासं कन्यसमुच्यते
नित्यं नवजलं योज्य पूजयेत्तु विचक्षणः १५
सन्निवेश्याथ देवेशं सायसं च सवाहनम्
अप्रतीशां परीवांस्ततथा तत्रैव योजयेत् १६
विमानस्थान्तथादेवान्स्तद्विमाने नियोजयेत्
प्रतिष्ठादीनि सर्वाणि बालस्थानोक्तवन्नयेत् १७
यात्राहोमादिकं सन्तुत्तर्युक्ता निवेशयेत्
तदालये तु कर्तव्या पूजा नित्यं प्रयत्नतः १८
यावन्नवीकृ तं लिङ्गं प्रासादाद्यं यथाविधिः
तावत्पूजादिकं सर्वं कारयेत्तरुणालये १९
क +++ द्याख्यहीनं तु अर्थमाषविहीनकम्
ब्रह्म +++ तं माषं विष्णुभागे त्रिमाषकम् २०
एवं हीनं गृहीत्वा तु तमूर्ध्वं न प्रशस्यते
बाललिङ्गे समायोज्या नवीकरणकर्म च २१
गाणापेतविशेषेण माषादिदशमाषकम्
हीनं चेत्तु गृहीत्वा तु तदूर्ध्वं न विशस्यते २२
आषे तु विशेषेण अङ्गुलादित्रयङ्गुलम्
एवं हीन गृहीत्वा तु तदूर्ध्वं तु विशेषतः २३
गाणवे दैविके चैव आर्षे संप्रकल्पयेत्
पूर्वस्थाने खनित्वा तु तल्लिङ्गं च निधापयेत् २४
अथवाङ्गिहेन्त च स्थोटने चैव चिते चैवाग्निदग्धके
एवं न्यस्त्वा विशेषेण तस्मान्न प्रगृह्यताम् २५
भुक्तिमुक्त्यर्थिभिश्चैव मानं व स्थापनं क्रमात्
मानुषादिषु लिङ्गेषु पीठे पिष्ट्वै समाचरेत् २६
दृष्ट्वा पीठक्षयं लिङ्गं कृ त्वा लिङ्गं पुरोक्तवत्
यथा लिङ्गं तथा पीठे योजयेत्तु विचक्षणः २७
दृष्ट्वा लिङ्गं क्षयं पीठं तत्क्रमेणैव बुद्धिमान्
स्वायम्भुवे विशेषेण जीर्णं छिन्नं च संग्रहम् २८
भिन्नां चेत्पट्टबन्धं च संप्रोक्षणमथाचरेत्
शिवसादाख्यकर्तव्यं मूलसङ्कोचमेव च २९
अन्यशादाख्यकर्तव्यं बालसंकोचमाचरेत्
स्थूप्याद्यवयवछेदे एकाङ्गुलं च संग्रहेत् ३०
तदूर्ध्वं न प्रशस्तं स्याद्व्यङ्गुलं पद्महीनकम्
तदूर्ध्वं नेष्टवेवं स्यान्महानासित्रियङ्गुलम् ३१
इत ऊर्ध्वं न कर्तव्यं शिखरे दशाङ्गुले भवेत्
पश्चान्नेष्टं प्रकर्तव्यं कण्ठे त्र्यङ्गुलं मतम् ३२
लाजनादीनि कर्तव्य द्वङ्गुलं सम्मतं भवेत्
शक्तिध्वजमिति प्रोक्तमेमे पञ्च संग्रहेत् ३३
होमादिप्रस्तरान्तं च सप्ताङ्गुलसमावधिः
एवं गृहीत्वा कर्तव्यमूर्ध्वं न्यस्त्वा प्रयत्नतः ३४
प्रकारं परिवारं च यथा योग्यं प्रयत्नतः
बालहर्म्यादिहर्म्याणां बिम्बानां बाललिङ्गकम् ३५
अल्पनासी च शाला च कपोतं कू टपञ्चमम्
विष्टरं बलिपीठं च यद्द्रव्येण कृ तं तथा ३६
देवाश्च तद्विमानस्थात्पीठाग्रे वा नियोजयेत्
देविके मानुषे वापि पदे संयोजयेत्सुधीः ३७
पैशाचेनपि कर्तव्यं मण्डपस्यान्तरालके
अष्टदिक्षु च कर्तव्यं भद्रपीठेथवा पुनः ३८
धिष्ण्यं विमानं संकल्प्यं तस्मिन्नावाह्य रक्षयेत्
यात्राहोमादिकं सर्वं गुरुणोक्तविधानतः ३९
कु म्भादिके समादाय तस्मिन्धिष्ण्ये नियोजयेत्
पीठाग्रे वाथ लिङ्गे वा यथागुप्त यथा रुचि ४०
विमानस्थापनाकाले यथा पूर्वनियोजयेत्
मानुषादिषु लिङ्गेषु विमानेल्वेपनाचरेत् ४१
सकलादिषु जीर्णेषु कु म्भे वा मण्डलादिके
षोडशप्रतिमादीनि दारुलिङ्गेषु योजयेत् ४२
मानुषादिगाणवञ्चादि बिम्बे वा स्थूप्यं द्वा वा सुयोजयेत्
एवमुद्धारणं प्रोक्तं शेषं पूर्ववदाचरेत् ४३
मूलालयप्रवेशान्तै दारुलिङ्गं च दाहयेत्
अथवा सद्य एवं तु जले वापि स्थलेऽपि वा ४४
विज्ञाप्य विधिवद्देवं प्रभूतहविषं वदेत्
व्योमव्यापिविधानेन पञ्चब्रह्म षडङ्गकैः ४५
पूजयित्वाथ देवेशं षडध्वन्यासमार्गतः
तत्संहृतिं तथा कु र्याद्रक्षाबलिमथाचरेत् ४६
प्रवेशबलिमार्गेण बलिं सम्यक्समाचरेत्
एवमादीनि कार्याणि तत्तत्काले समापयेत् ४७
अकृ तत्वेन्निगत्याशु तत्र स्थात्मानुषा धृवम्
शान्तिहोमं तथा होमं राक्षोघ्नं च तथैव च ४८
कृ त्वा भोजयेद्विप्रान्मद्भक्तांश्च प्रपूजयेत्
वेदाध्ययसंयुक्तं विशेषात्पञ्चशान्तिकम् ४९
दक्षिणां तु गुरोर्दत्वा यथ शक्ति विशेषतः
अष्टबन्धानि कर्मे तु तुलास्थल नवीकृ तौ ५०
पञ्चाहं सप्तहा दर्वामासं कु म्भे तु पूजयेत्
तदूर्ध्वं नेष्टमित्युक्तत्रिदिनैकदिनेऽपि वा ५१
सप्तानाध्यवसाने वा पुनरोजनमाचरेत्
स्नपनं शान्तिहोमं च प्रोक्षणं च यथाविधिः ५२
अथवान्यप्रकारेण गृहार्चनादिषु कथ्यते
बाणलिङ्गादिलिङ्गेषु पीठे च्छिन्ने तथैव च ५३
आत्मन्युद्यास्य विधिवत्कु म्भदौ वा यथाविधिः
शकलानिपरित्यज्य यथा स्वर्णेन कारयेत् ५४
रजतेनाथ ताम्रेण शिलायां दारुणाथवा ५५