सन्धिं प्रति समभ्यर्च्य स्नानं नैवेद्यकान्तकम्
ततः सन्ध्यावसाने तु महेशस्याग्रदेशके १
संशोध्य बहुरूपेण प्रोक्षयेत्पुरुषेण तु
शङ्खं च जलभाण्डं च पात्राधारां च पादुके २
गन्धं पुष्पं च धूपं च दीपछत्रं च दर्पणम्
खण्डवस्त्रं च खड्गं च खेटकं चाञ्चथां तता ३
कौपीनं चित्रवस्त्रं च भूषणं चोपवीतकम्
अन्यद्राजोपचारस्य चिह्नानि विविधानि च ४
बिम्बाग्रे विन्यसेद्धीमान्प्रोक्षयेदस्त्रवारिणा
पाद्यमाचमनं चार्घ्यं कल्पयेद्विधिपूर्णकम् ५
स्नानार्थमुदकस्याभ्यशुचिं कृ त्वा तु देशिकम्
प्रोक्षयेद्बीजमुख्येन शुद्धतोयेन देशिकाः ६
आवाहयेत्ततो देवं हृन्मन्त्रेण समर्पयेत्
पाद्यमाचमनं चार्घ्यं दापयेत्तु महेश्वरे ७
पूर्वसन्धार्चितं पुष्पमीशानेन विसर्जयेत्
दर्पणं दर्शयेद्धीमान्स्नानवेद्युपरि न्यसेत् ८
रुद्रसूक्तमनुज्ञप्ता दर्पणे स्नानमाचरेत्
गौरीमिमाय मन्त्रेण देव्या स्नानं च पूर्ववत् ९
प्रोक्षयेद्बीजमुख्येन शुद्धतोयेन देशिकः
खण्डवस्त्रेण संमृज्य वस्त्रपुष्पसृगादिभिः १०
भूषणाद्यैरलङ्कृ त्य कलामन्त्रैः समर्चयेत्
अङ्गमन्त्रेणाभ्यर्च्य नैवेद्यं दापयेन्मूलमन्त्रतः ११
सर्वोपचारसंयुक्तं पूजयेत्तु महेश्वरम्
एककालं द्विकालं वा चार्चयेत्सन्धिपूर्वके १२
इति सकलपूजाविधिपटलः