४६ अन्नाभिषेकविधिः

अभिषेकं प्रवक्ष्यामि कर्तुरायुष्कराय च
महेशप्रतिमै चैव राजाभिषेकमुत्तमम् १
यशाभिषेकं कर्तव्यमत देवजयमादिशेत्
तदेव कर्तुः कर्तव्यं परसंहारकारणम्
तस्मात्सर्वप्रयत्नेन राजाभिषेकमाचरेत् २
स्वर्णसङ्ख्याकृ तं पूर्वं संस्कारं पूर्ववद्भवेत्
तद्रूपं पूर्ववत्प्रोक्तमयिमयि देवाश्च पूर्ववत् ३
प्रथमं द्रव्यसंपात द्वितीयं स्वर्णसंग्रहः
त्रितीयं कालनिर्देशं चतुर्थं कर्तृनिर्णयम् ४
पञ्चमं मण्डपं प्रोक्तं सिंहासनं तु षष्ठमम्
सप्तमं चायुधं प्रोक्तं अष्टमं वाहनं भवेत् ५
राज्ञानं व्रतं प्रोक्तं वृध्यादीनि ततः परम्
सङ्गीतादि ततः प्रोक्तं पौराणिकमतः परम् ६
शुद्धनृत्तादिनीलान्तं राजरक्षामतः परम्
आमाय चित्तमास्यं चेदाश्री ब्रह्मादिदानकम् ७
एवं षोडशभेदेन तत्तद्भेदनिवेच्यते
शालितण्डूलरक्तं च वस्त्रमाभरणानि च ८
नालिके रफलं चैव तिललाजादिसंग्रहम्
गुलं च पल्लवं चैव खण्डवस्त्रं च संग्रहेत् ९
कौपीनं शुद्धतैलादिं स्नानद्रव्याणि संग्रहेत्
पूजोपकरणद्रव्यं होमद्रव्यं च संग्रहेत् १०
तन्तुदर्भसमित्प्रोक्तं रसवस्तूनि संग्रहेत्
इतराण्यपि सर्वाणि संग्रहेत्तु विचक्षणः ११
द्रव्यसम्पतमेवोक्तं द्रव्यग्रहणपूर्वकम्
मेषादिमीनपर्यन्तं संग्रहेत्तु विशेषतः १२
धनुर्क टकश्चैवापि कन्निकु म्भविवर्जयेत्
कर्ता शुभानुकू लं च दिनवारादिसंयुतम् १३
त्रिपञ्चसप्तादिहे वापि कारयेन्निधनेश्वरम्
ब्राह्मणक्षत्रिया वापि वैश्यो वा शूद्र एव च १४
अन्यजातिं न कर्तव्यं चातुर्वणे न योग्यकम्
मण्डपानि ततो वक्ष्ये मानं पूर्ववदेव हि १५
यागाधिवासनं पूर्वं मण्डपं चतुरश्रकम्
कू टं वापि प्रपां वापि कु ण्डवेदिसमन्वितम् १६
सर्वाङ्गानि समायुक्तं यागमण्डपमुच्यते
अभिषेकमण्डपं कृ त्वा चतुर्दिग्भद्रसंयुतम् १७
चतुर्द्वारसमायुक्तं सोपानेन समन्वितम्
तदूर्ध्वे कू टशालादीन्शिखरं पूर्ववद्भवेत् १८
इष्टिका दारुजं वापि मण्डपं शोभयेत्ततः
दुकू लपट्टदेवाङ्गैरस्ताभान्वां वेष्टयेत्सुधीः १९
कदलीपूगस्तम्भाद्यैस्तोरणं द्वौरपार्श्वयोः
मण्डपाभ्यन्तरे चैव सर्वालङ्कारशोभितम् २०
दर्भमालासमायुक्तं मुक्तादामावलम्बना
नालिके रफलोपेता सर्वाङ्गं भूषयेत्क्रमात् २१
तन्मध्ये वेदिकोपेतं तदूर्ध्वे सिंहासनं भवेत्
दिव्यकम्बलमाच्छाद्य पार्श्वयोज्वलदीपकैः २२
आस्थानमण्डपे सौम्ये आयामा चतुरश्रकम्
सभद्रं वापि भद्रं वा मुखभद्रसमन्वितम् २३
नानालङ्कारसंयुक्तं सर्वलक्षणसंयुतम्
पञ्चप्राकारबाह्ये तु नरं युद्धस्य मण्डपम् २४
एवं मण्डपमाख्यातं वेदिं सिंहासनं भवेत्
सिंहासनं पुरा प्रोक्तं कल्पयेत्कल्पवित्तमः २५
होमे च जगती चैव कण्ठे चैव कपोतकम्
विस्तारे च तथोत्सेध आयादिशुभसंयुतम् २६
राजाभायुधसर्वाणि मानं पूर्ववदेव हि
चतुरागं च रथं चैव गजं च नरवाहनम् २७
मण्डपामृतसिंकल्प्य यथा मुक्तिवशान्तयेत्
समत्कर्मभिलकर्तव्यं समुद्दिश्य नियोगतः २८
कर्तारं सम्यगानीय यथाशक्ति नियोगतः
करणकारणकर्तुश्च तत्तद्योग्या क्रमेण तु २९
एवमन्त्रक्रमेणैव ज्ञतकादिसमाचरेत्
जूतकं प्रथमं युद्धं द्वितीयं चतुरङ्गकम् ३०
मेषयुद्धं तदन्ते तु रेयुत्यन्तं ततो भवेत्
वीणावेणुमृदङ्गादिझल्लिकादिक्रमेण तु ३१
तदन्ते पौराणिकाख्यातं रुर्यबृन्दे सहैव तु
शुद्धनृत्तादिलीलान्तं नानाजातिसमाकु लम् ३२
राजरक्षाविधानेन राजरक्षां समाचरेत्
देशिकादिसमरभ्य काष्ठभारान्तमेव च ३३
गोभूमिस्वर्णवस्त्रादि शिवाज्ञा चैव दापयेत्
एवमेव क्रमेणैव कल्पयेत्कल्पवित्तमः ३४
निश्चित्यदिवसात्पूर्वे रभूसुरभोजनम्
तैलाभ्यङ्गसमायुक्तमादराद्भोजनं नयेत् ३५
तद्दिने चैव कर्तव्यं मङ्गलाङ्कुरमेव च
भद्रं क्षुद्रं च कर्तव्यं क्षुद्रं चेत्तु विशेषतः ३६
वासूपालिसमायुक्तं वामादिदेवतां न्यसेत्
पूर्वोक्तद्रव्यमेवं तु शरावघटिकाञ्चिता ३७
पूर्वोक्तेन विधानेन नयेदङ्कुरमुत्तमम्
राक्षोघ्नं होमकर्तव्यं वास्तुपूजां पुरोक्तवत् ३८
पर्यग्निकरणं कृ त्वा गोमयालेपनं कु रु
कृ शामण्डपमावेश्य पुनः पुण्याहमाचरेत् ३९
आचार्यमूर्तिपैः सार्धन्नित्यकर्माणिकं नयेत्
उत्तराभिमुखस्थित्वा सकलीकृ तविग्रहः ४०
संकल्पं च यथापूर्वं सर्वद्रव्यं च संग्रहेत्
पाद्यमाचमनं चार्घ्यं पञ्चगव्याधि साधयेत् ४१
वेद्यूर्ध्वे स्थण्डिलं कल्प्य अष्टद्रोणैश्च शालिभिः
तत्तदद्यसमायुक्तदर्भाणां च विधानकम् ४२
तन्तुना वेष्टयेत्कु म्भान्वस्त्रादिभिरलङ्कृ तान्
विभद्रव्यादिदशकं पाद्यं तथा भवेत् ४३
लोहदृश्यं तु दशकं अम्बुदं वा रसान्तकम्
षट्त्रिंशद्द्रव्यमेवोक्तं तत्तत्कु म्भे सयोजयेत् ४४
तत्तन्मन्त्रसमायुक्तं गुरुणोक्तविधानतः
तत्वतत्वाधिदेवांश्च तत्तत्कु म्भे सुपूजयेत् ४५
वारेरङ्गारकाद्यैश्च न्याससाधारणं बुधः
वीरं रसावेदिकं च धनु त्रिगौलमेव च ४६
शुष्कं त्रीणि पगोधर्म रससालापि मेव च
ऋषि धारं च नक्षत्रं के सरी गोपुरीं तथा ४७
भूमि भूमिपतिं चैव सावित्रिं च सरस्वतीम्
ज्येष्ठा दुर्गा च कौबेरी पञ्चवक्त्रीमुखोद्भवी ४८
परे परा च वर्णी च मेरुपातालवर्णिनी
नागदुन्दुभिरेवत्या पशु सारङ्गमेव च ४९
एवं मन्त्रक्रमेणैव जयमन्त्रसमन्वितम्
मण्डपं पूजयेत्पूर्वप्रागुक्तविधिना सह ५०
आत्वाहार्षमित्यादि पश्चिमे तु जपेत्सह
कन्दं पुरुषसूक्तं च उत्तरे तु जपेत्क्रमात् ५१
श्रीसूक्तं पञ्चशान्तिं च पूर्वभागे जपेत्सह
शुचिवाहादिस्युक्तं च दक्षिणे तु विशेषतः ५२
बीजमुख्यन्तिं च जयवीरं च कौणके
नवाग्निं वाथ पञ्चाग्निं एकाग्निमथवा चरेत् ५३
अग्निधानादिकं सर्वमग्निकार्योक्तमाचरेत्
तत्वमङ्गादिहोमं च क्षणहोममथाचरेत् ५४
सर्वमन्त्रेण हुत्वा तु रक्षोघ्नविधिना चरेत्
वस्त्रमाभरणं चैव मकु टं सूत्रमेव च ५५
मूलबेरे तु कर्तव्यं मकु टारोपणं कु रु
मकु टारोपणं कर्तव्यं महेशं तु प्रयत्नतः ५६
शिवमेवक्रमेणैव नाममित्यभिधीयते
सर्वकर्माणि कर्तव्यं महेशं राजवद्गुरुः ५७
यथाकालक्रमेणैव सकलार्चनवन्नयेत्
सायाह्नसमये काले यानं पूर्ववदुच्यते ५८
निश्चित्य काले कर्तव्यं गणेशं पूजयेत्पुरा
शुक्रं बृहस्पतिं पूज्य गरिं संपूजयेत्ततः ५९
वीरशक्तिं समभ्यर्च्य दीपदुर्गां प्रपूजयेत्
तत्वकु म्भानि तत्वेशमुपदेशक्रमं नयेत् ६०
तत्तत्स्थाने न्यसेद्धीमानभिषेकं क्रमान्यसेत्
पूर्वस्थाने तु तद्देवान्तत्तन्मन्त्रक्रमान्यसेत् ६१
सर्वदिन्मत्रजालैश्च हुतबीजं तु संग्रहेत्
नाराचमुद्रया दापन्यसेन्मध्यादयः क्रमात् ६२
एवं संपाद्य मन्त्रां तत्काले वाद्यघोषयेत्
वेदध्वनिसमायुक्तं मयशब्दसमाकु लम् ६३
देवाग्रे जयमारनं च देशिकं वाचयेत्ततः
धृत चा +++++ रुद्रकन्याद्ययोरपि ६४
आस्थानमण्डपे मध्ये सिंहासनं प्रकल्पयेत्
महेशं मध्यमे स्थाप्य सर्वालङ्कारशोभितम् ६५
परिवेषक्रमेणैव सर्वान्संस्थाप्य यत्नतः
जयमन्त्रं समुच्चार्य मकु टारोपणं कु रु ६६
तदन्ते वत्सरं लेख्यं च कारयेन्निधनेश्वरम्
मकु टारोपणान्ते तु आशीर्वादं च कल्पयेत् ६७
तत्काले शुद्धनृत्तं च वादित्रिलयसंयुतम्
सङ्गीतदर्शनं पश्चाद्राजोपचारपूर्ववत् ६८
विशेषपूजाकर्ताख्यदिनं प्रति विशेषतः
नित्यपूजावसानान्ते जूतकादिनं प्रति ६९
राजाङ्गसमये काले तत्तदङ्गानि पूर्ववत्
पञ्च सप्त दिनादेव निरयुद्धं तु दर्शयेत् ७०
स्नपनं शान्तिहोमं च दिनं प्रति समाचरेत्
दीर्घायुरे च कर्ता च सर्वत्र विजयी भवेत् ७१
तद्देवमधिराजं च तद्राजा सार्वमौमकम्
यथादेशे प्रकु र्वीत निर्दोषसहिता भवेत् ७२
अभिषेकफलं प्रोक्तं चक्रप्रस्तारमुच्यते
इति पूर्वस्वायम्भुवे अभिषेकविधिपटलः