४५ वारार्चनम्

अतः परं प्रवक्ष्यामि वारार्चनमभीष्टकम्
नृपतेरायुरारोग्यसुखदं राष्ट्रवृद्धिदम् १
अपमृत्युहरं पुंसामापदुद्धरणं परम्
ग्रहपीडाप्रशमनं ग्रहपीतिविवर्धनम्
रविचारं समारभ्य मन्दवारे समापयेत् २
प्रातः सन्ध्यावसाने तु प्रारभे द्वारपूजनम्
पञ्चगव्येन देवेशं स्नापयित्वाथ पञ्चभिः ३
अमृतैः पञ्चविंशत्या स्नपनेनाप्यनन्तरम्
गन्धोदकैश्च संस्नाप्य खण्डवस्त्रेण मार्जयेत् ४
लोहिताम्बरमाणिक्कपूर्वा शुक्लाब्दचन्दनैः
संपूज्य पायसं दत्वा भानुवारे विरुद्भवेत् ५
विशदापरमुक्तेन बिल्वपुन्नागदायिकैः
सोमवारे समाराध्य दीर्घमायुरवाप्नुयात् ६
प्रवालरक्तवस्त्राब्जधातकी मौक्तकु ङ्कुमैः
भौमवारे जयत्कीर्तिमतुलां लभते नरः ७
श्यामवस्त्राश्मतुलसी हारिद्रागरुपाटलैः
बुधवारे समाराध्य श्रियं प्राप्नोत्य पञ्चालनम् ८
स पीतवस्त्रं सत्पुष्यरागं कृ ष्णागरुज्वलम्
दान्तचम्बकगौलान्नैरिष्ट्वा जीवै जयं भवेत् ९
शुक्ले शुक्लाम्बरं वस्त्रज्ञकस्तुरिजातिडाडिमैः
शुद्धान्नयुक्तं संपूज्य लभते सद्गुणान्सुतान् १०
भिमातीलवस्त्राढ्यं विष्णुक्रान्त्या सुतोत्पलै
स तिलान्नं समभ्यर्च्य मन्दे सौन्दर्यमाप्नुयात् ११
पूजान्ते पूजयेच्चण्डं विशेषात्प्रतिवासरम्
अर्कवारेथवा सप्तवारपूजनमाचरेत् १२
त्यक्त्वादिप्रहरं सप्तप्रहरेषु ++ दान्तकम्
अत्र किञ्चिद्विशेषोस्ति रात्रौ यामे द्वितीयके १३
भोगस्थाने तु भोगाङ्गपूजानन्तरमालयम्
देवं प्रावर्घ्यतातीर्य चतुर्थप्रहराञ्चनम् १४
विधायारुणसन्ध्यार्चां पूर्ववत्परिकल्पयेत्
शिवरात्र्यर्चनेप्येवं विधिरेष विधीयताम् १५
निवेदनीयं यद्रव्यं देवदेवाय तत्र तु
अष्टमांशं प्रदातव्यं गुरवे प्रतिवासरम् १६
निवेदितं समादाय यदि भुञ्जीत देशिकः
तत्कृ तं यजनं होमकर्माद्यमखिलान्ततः १७
राजराष्टाभिचारा +++++++ य
++++++++++++++ भदेवेव न शंसयः १८
इति वेरार्चनविधि पूजाविधि पटलः