कौशिकत्रोत्तु बोधायनसूत्रं तु +++
लिपि करकृ तं पराधं क्षन्तुमर्हन्ति सन्तः १
अथातः संप्रवक्ष्यामि वसन्ताख्यं तमुत्सवम्
मधुमाधवमासे तु फाल्गुने तु विचक्षणः २
वसन्तमुत्सवं कार्यं पञ्चसप्तदिनेऽपि च
त्रिदिनं एक कर्तव्यं तत्तन्मासर्क्षकोऽपि वा ३
वसन्तमण्डपं कु र्यादारामो मध्यमे ततः
त्रिसस्तादिसमारभ्य द्विद्विहस्तविवर्धनात् ४
यावद्विंशतिहस्तान्तं यथाभुक्ति यथा रुचिः
आयामं पूर्ववत्कृ त्वा सर्वालङ्कारशोभितम् ५
मण्डपे पश्चिमे भागे वेदीं तत्र प्रकल्पयेत्
पन्तिमानं तु तिस्या तु तदर्धोत्सेधमाचरेत् ६
कु र्यादावृतमेवं स्यात्पूर्वभागे तु वर्जयेत्
दक्षिणे पश्चिमे सौम्ये जालकं विधिना कु रु
नन्दः सप्त च पञ्चैव त्रितयं एकजालकम् ७
तत्तद्दिशासु कर्तव्यं जालकोक्तविधानतः
वितानध्वजैश्च सर्वाङ्गं पताकैश्च तरङ्गकम् ८
मुक्ताः सुददाम संयुक्तदिव्यपुष्पैः सुशोभितम्
नानाविधविचित्राणि नानादिव्यविभूषितम् ९
कदलीपूगस्तम्भैश्च दीपैश्चैव विभूषितम्
एवं मण्डपमाख्यातं इतराण्यपि कल्पयेत् १०
तत्स्थानं शोधयित्वा तु आलेपं च क्रमेण तु
मण्डपाद्बाह्य परितो सुसूक्ष्मसिकतेन च ११
निम्नोन्नतं न कर्तव्यं गन्धतोयेन सेचयेत्
तस्य दक्षिणभागे वा वामे वाथ प्रकल्पयेत् १२
स्नानमण्डपमेवोक्तं नदी मध्ये विशेषतः
प्रपां कृ त्वा विशेषेण सर्वालङ्कारसंयुतम् १३
अग्रे वापि समायुक्तं सर्वपुष्पसमृद्धिदम्
युगद्वारसमायुक्तं वक्षतिरंसमन्वितम् १४
मध्यतीरश्च बाह्ये तु सुगत्र सुनिमेः सह
सुशुध्वसेञ्चित स्तिर्यजि जलेनापूर्य बुद्धिमान् १५
एवं संकल्प्य कर्तव्यं तदोसौ भषिण्डिकं नयेत्
ततो पूजा प्रकर्तव्यं पूजाविधिरिहोच्यते १६
निश्चित्यदिवसात्पूर्वे महेशं पूजयेद्बुधः
पूजावसाने तत्काले पूजां विज्ञाप्य देशिकः १७
सायरक्षावसाने वा स्नाना वा निवेद्यके
कौतुकं बन्धयित्वा तु पाद्यादीनि क्रमेण तु १८
वसन्तयानं विज्ञाप्य महेशस्य तदर्धके
पुष्पाधिवासनं कु र्यात्पूर्वमेव सुभाषितम् १९
रात्रिचूर्णं समानीय मत्पटे च प्रपूजयेत्
शुद्धजालं समानीय घटस्थं चैव बुद्धिमान् २०
कु म्भपार्श्वे तु संस्थाप्य वस्त्रेणाच्छाद्य मन्त्रवित्
इति मन्त्रजपेद्धीमान्रात्रिशेषं व्यपोह्य च २१
प्रातस्नानादिकं कृ त्वा प्रातः सन्ध्यावसानके
सर्वालङ्कारसंयुक्तं महेशं संप्रविश्यति २२
रथे वा शिबिकायां वा समारोप्य महेश्वरम्
नानावाद्यसमायुक्तं नानाभक्तजनैः सह २३
गणिका रुद्रगणिका भूसुराश्च समावृतम्
रजनी राजचूर्णं च बाह्यवीथि प्रदक्षिणम् २४
रात्रिचूर्णं विशेषेण विनोदार्थं विसृज्य च
लाजं संगृह्य कर्तव्यं देवाग्रे तु विकीर्य च २५
रजनी तोयमिश्रं तु कलशेषु घटेषु च
तज्जलैः पूरयित्वा तु पद्मरेखाय पार्श्वतः २६
पुरुषो वा स्त्रियो वापि +++ लनैव सेचयेत्
सर्पान्विनोदशित्वा तु शनैः शनैः प्रदक्षिणम् २७
स्नानमण्डपमावेश्य स्नानवेद्युपरि न्यसेत्
राजोपचारवत्स्नाप्य निवेद्यादि ददेत्क्रमात् २८
वसन्तमण्डपमावेश्य चन्दहैमतोयकैः
वेदिकायां समालिप्य संहासनं तदूर्ध्वतः २९
तस्य मध्ये तु संस्थाप्य नर्तनं सम्यगाचरेत्
वसन्त दक्षिणे पूज्य मन्मथं चोत्तरे यजेत् ३०
स्वस्वमन्त्रैः समभ्यर्च्य पश्चिमे मन्दमारितम्
तस्याग्रे स्थापयेत्कु म्भं शुद्धतोयेन पूरयेत् ३१
चन्द्रचन्दनकाश्मीर रात्रिचूर्णं हिमाम्भसा
सौगन्धिकसुपुष्पं च पूरयेत्तज्जलेन च ३२
वंशषट्कं तु सुस्थाप्य भूतिषट्कं तु विन्यसेत्
गङ्गाकु म्भे समभ्यर्च्य पतिमन्त्रं समुच्चरन् ३३
तज्जलै बृतिपूर्वं च देवदेवं विशेषतः
देवी देवमुखाम्भोजे तज्जलेन च सेचयेत् ३४
तद्वंशं संगृहीत्वा तु शक्तिबीजेन पूरयेत्
महेशलीलां कु र्वीत गौरीशमुखमण्डले ३५
नारीणां दूतिसंग्राह्य पुरुषाणांशहस्तयोः
वसन्तलास्य तद्गानं सन्तोष्य परमेश्वरम् ३६
सुगन्धरजनीमाद्रां विनोदार्थं प्रकल्पयेत्
नानाभक्तजनैः सर्वैति +++ लांसमाचरेत् ३७
शिबिकोर्ध्वे तु संस्थाप्य प्रपामपसमाविशेत्
पुष्पवाटिकयामध्ये तीर्थतोयेन सेचयेत् ३८
विकिरं रजनीचूर्णं विसृजेत्तज्जलेन तु
गन्धनीं च रजनै दैवदेवीं च दापयेत् ३९
तैलं रजनीमाद्रां सर्वभक्ताश्च दापयेत्
नाकोनस्थापयेच्छम्भुं जलक्रीडां समाचरेत् ४०
स्नपनं कारयित्वा तु विभवान्यनुकारयेत्
ददामं च गृहीत्वा तु पतिमन्त्रेण योजयेत् ४१
नैवेद्यं च यथा कु र्याद्धूपदीपादिकं ददेत्
शनैः प्रदक्षिणं कृ त्वा पूर्वस्थाने निवेशयेत् ४२
मूललिङ्गे विशेषेण निस्सन्धावसानके
वसन्तं कल्प्य मतिमान्विघ्नेशं पूजयेत्ततः ४३
पुण्याहं वाचयित्वा तु पञ्चगव्यं च साधयेत्
पञ्चामृतं च संस्थाप्य स्नपनं कारयेद्बुधः ४४
द्वारपूजां ततः कृ त्वा लिङ्गशुद्धिं समाचरेत्
गन्धतैलाभिषेकं च रजनी पिष्टचूर्णकम् ४५
पुरो वाच्यजलैस्नाप्य पञ्चगव्याभिषेचयेत्
पञ्चामृतेन संस्नाप्य शुद्धतोयाभिषेचयेत् ४६
लिङ्गस्योद्वर्तनं कु र्याच्छुद्धवस्त्रेण वेष्टयेत्
सुगन्धकु सुमं चैव गन्धमालेपयेत्क्रमात् ४७
पायसान्नं निवेद्याथ ताम्बूलं च निवेदयेत्
हिमतोयाभिषेकान्ते स्नपनं सेचयेत्क्रमात् ४८
मन्त्रपुष्पं तदन्ते तु मन्त्रान्नं च निवेदयेत्
गर्भावरणमभ्यर्च्य अलङ्कृ त्य विचक्षणः ४९
ऋगाध्ययनं कु र्याद्भूसुरान्युग्मसङ्ख्यया
परिवाराणि सर्वाणि पूर्ववत्स्नानमाचरेत् ५०
महाहविं निवेद्याथ तत्क्रमेणैव बुद्धिमान्
परिवाराणि सर्वाणि पूर्ववत्स्नानमाचरेत्
नित्यहोमसमायुक्तं शान्तिहोमं प्रकल्पयेत् ५१
अन्तर्बलिसमारभ्य चण्डपूजावसानकम्
यथापूर्वं प्रकर्तव्यं कारयेत्तु विचक्षणः ५२
वसन्तोत्सवमेवोक्तं सर्वसम्पत्सुखावहम् ५३
इत्युत्तरस्वायम्भुवसूत्रे वसन्तोत्सवविधिपटलः