पश्चान्मुहूर्तं सन्ध्याया यदा दृश्या त्रयोदशि
तदा शिवस्य विज्ञेयं प्रदोषविधिपूजनम् १
स्तान्मुहूर्तगानो चेत्परतस्तु त्रयोदशी
ग्राह्यास्या द्वादशी मिश्रा प्रदोषविधिपूजने २
द्विमुहूर्तं मुहूर्तं वा यदादृश्या त्रयोदशी
सन्ध्यायां परतस्तत्र प्रदोषविधिपूजनम् ३
अतः परं प्रवक्ष्यामि महोत्सवमनुत्तमः
विश्वसृष्टिस्थितिर्ध्वंसपिधानाय गृहात्मकम् ४
सर्वसंपत्करं पुण्यं सर्वलोकसुखावहम्
आयुरारोग्यजयदं भूपतेरिष्टसिद्धिदम् ५
स च त्रिविध उद्दिष्टो निम्नो नैमित्तिकस्तथा
कामिश्च तत्र नित्याख्य नित्यपूजां समाचरेत् ६
प्रत्यब्दं मानसक्षत्रे तिथिन्वापिषुपायिने
ग्रहणं प्रतिमासं वा नक्षत्रमथवा तिथिम्
निमित्तीकृ त्य यः कार्य स नैमित्तिक उच्यते ७
यथेष्टकाले काम्याख्या स्वानुकू लदिने मतः
नैमित्तिकश्च काम्यश्च नवधा परिकल्पितः ८
एकत्रिपञ्चसप्ताहनवाहैकादशाहकैः
द्वादशाहचतुर्युक्ते दशपञ्च दशाहकैः ९
एकाहश्चैव इत्युक्तस्त्र्याहो गौण उच्यते
पञ्चाहे भौतिको नाम सप्ताहो भौवनस्मृतः १०
नवाहः शात्तानामा स्याद्रौद्र एकादशाहकः
द्वादशाहस्तु सौराख्यो मानस्यात्ततः परम् ११
पत्वापत्वदशाहस्यादेवं नवविधो भवेत्
आदित्रयेर्ध्वजारोह हित्वा भेरी प्रहारतः १२
तीर्थान्तं क्रियते कर्म तदन्त्ये ध्वजसंयुताम्
त्रिविधं चैव कथ्यन्ते क्रमादङ्कुरपूर्वकः १३
निर्दिष्टदिवसात्पूर्वे रात्रे कृ त्वाङ्कुरार्पणम्
भेर्यादि कु र्यान्नवभृतान्तकम् १४
ध्वजारोहणपूर्वस्यादेव त्रिविध निर्णयः
अथ वै तत्र येकःर्योर्ध्वजारोहणपूर्वकः १५
द्विगुणे त्रिगुणे वापि ध्वजारोहो विधीयते
इत्यनेन प्रकारेषु यः पुरा कल्पितो महः १६
स एव पश्चात्कर्तव्यो राजराष्ट्रहितेषिणा
ध्वजाङ्कुरार्पणं पूर्व द्वितीर्ये ध्वजरोहणम् १७
भेरी सन्ताडनं पश्चाल्लोकपामन्त्रणं ततः
उत्सवाङ्कुरकर्माथ दष्टतीर्थाङ्कुरं भरेत् १८
सप्तमं सूत्रबन्धस्योदष्टमं मण्डपाच्चाम्
यागेशाराधनं कु र्यान्नवमं दशमं पुनः १९
उत्सवे चार्चनं होमकार्यमेवं दश उच्यते
द्वादशबलिदानं स्यादैव यानं त्रयोदशम् २०
स्नपनं चोत्सवेशस्य विशेषयानत्ततः
नृत्तादिदशनं पश्चात्तैलाभ्यङ्गसमन्वितम् २१
स मुद्गभिन्नं नैवेद्यं नृत्तमूत्तुत्सवं ततः
मृगायात्रां ततः पश्चात्तीर्थ पूर्वदिने पुनः २२
रक्षाबन्धनकर्तव्यं ततः कौतुकतीर्थकम्
चूर्णोत्सवक्रियापश्चान्महातीर्थमनन्तरम् २३
पूर्णाहुतिरथ प्रोक्ता दक्षिणं तदनन्तरम्
मूलदेवस्य यागेशकु म्भस्नानं महार्चनम् २४
ध्वजावरोहणं पश्चाल्लोकपालविसर्जनम्
इत्युत्सवाहाः न्येकोनत्रिंशत्प्रोक्तानि साप्रतम् २५
एतानि क्रमशो वक्ष्ये पधावति धनेश ते
नवाहे वाथ सप्ताहे पञ्चाहे त्रिदिनेऽथवा २६
सद्योङ्कुरं तु वा कार्यध्वजारोहदिनात्पुरा
तदर्धं मूलदेवस्य कृ त्वा वैशेषिकार्चनम् २७
भगवन्देवदेवेश समस्तफलसाधक
महोत्सवं करिष्येह तत्र सन्निहितो भव २८
इति विज्ञाप्य देवेश लब्धानुज्ञस्ततो गुरुः
चण्डनाभमलङ्कृ त्य संपूज्य यथाविधिः २९
अस्त्रेण स्नाप्य कु न्दालीं शूलं चाभ्यर्चतैः सह
आरामादिस्थलं प्र+++ स्य तत्र संस्थाप्य तान्पुनः ३०
पादप्रक्षाल्य वाचम्य कृ त भसूत्रपुत्रकः
सकलीकृ त्य समान्यमर्घ्यं संस्थाप्य देशिकः ३१
तोषयित्वा गणाधीशं नालिके रफलादिभिः
संकल्प्य पुण्याहं तत्र वाचयित्वा तदम्भसा ३२
संप्रोक्ष तत्प्रदेशं तु परिस्तीर्य कु शैः क्रमात्
तन्मध्यमे हृदा भूमिं संपूज्यास्त्रेण तन्मृतम् ३३
कृ न्दाल्या हृत्य हैमादिपात्रे क्षिप्त्वा वटं मुद्रा
आपूर्यपटवस्त्राद्यैः पात्रमाच्छाद्य तत्पुनः ३४
नववस्त्रधरः शुद्धोदमत्कृ म्यारूढकु ञ्जरः
शिवसाधारयन्ग्रामप्रदक्षिणमथाचरेत् ३५
प्रविश्य विनन्तस्थन्यै शान्त्यामुत्तरेऽपि वा
अन्यत्र वा शुभदेशे वितानाद्युपशोभिते ३६
स वारिगोमयालिप्ते स्थण्डिलं परिकल्पयेत्
प्रागुदक्पञ्चसूत्रैस्तु कु र्यात्षोडशकोष्ठकम् ३७
दशसूत्रैस्तथाभूतैरेकाशीतिपदानि च
ईशानादिषु कोणेषु स्थाप्य कोष्ठचतुष्टयम् ३८
दिक्षु द्वे द्वे चतुष्कोष्ठं मध्ये शेषाणि लोपयेत्
तत्र द्वादशपक्षे तु पालिकां घटिकां तथा ३९
शरावं च क्रमच्छम्भुकोणमारभ्य विन्यसेत्
चतुर्विंशति पक्षे ++++ ष्वन्यन्तरेष्टसु ४०
घटिकां पालिकादिक्षु बाह्येन्यत्र शरावकान्
पुण्याहवाचनं कृ त्वा संप्रोक्ष्यास्त्रेण बुद्धिमान् ४१
तन्मध्ये विन्यसेत्कु म्भं ससूत्रं वारिपूरितम्
विधानकू र्चवस्त्राढ्यं हेमखण्डेन्दुसंयुतम् ४२
सासनं च समूर्तिश्च सजीवश्चन्द्रमुच्चरन्
श्वेतपङ्कजमध्यस्थं श्वेतवर्णद्विलोचनम् ४३
श्वेतमाल्याम्बराकल्पं ज्योत्स्नानमलमध्यगम्
एकास्यं माससंसत्तसनालकरकैरवम् ४४
तदङ्गानि च विन्यस्य दत्वा पाद्याचमादियुक्
पायसान्नं सपानीयमाचाम्भस्य मन्ततः ४५
पालिकादिष्वधातारः हरिं रुद्रं च पूजयेत्
मुद्गमाषकु लस्थं च माषं सर्षपमाढकम् ४६
सप्त वा पञ्च वा त्रीणि पयसा प्लाविताद्यधः
बीजानिर्बीजसोमबीजेन सप्तकृ वोभिमन्त्रि च ४७
निर्वतप्य हृदयेनेन्दुमाकान्तं प्रदर्शये जयेत्
अङ्कुरार्पणमित्युक्तं ध्वजारोहमुच्यते ४८
तदर्धं ध्वजदण्डस्य प्रमाणं प्रथमं शृणु
क्षुद्रं चेद्धामविस्मारद्विगुणं वा तदन्यते ४९
समाना शिखरान्तं वा गलान्तं दण्डदैर्घ्यकम्
महच्चेत्तारसदृशं एकं द्वि त्रितलान्तकम् ५०
नव हस्तं समारभ्य यावत्सप्तदशावधि
कन्यसादिविभेदेन नवधा दण्डमानकम् ५१
कलाङ्गुलसमारभ्य चतुरङ्गुलवृद्धतः
कला त्रयाङ्गुलं यावत्तावद्दण्डसनाहकम् ५२
तन्नाहमष्टधा कृ त्वा दण्डाग्रं भागहीनकम्
स्वभागनाहसंयुक्तं क्रमुकं च श्वत्रणध्वजः ५३
नालिके रवन्द्रमूर्ध्वे दारु तृणध्वजाः
चम्बकासनमाधूकतालसालपलाशकाः ५४
जम्बुजानि शमीबिल्वखदिराश्वत्थपादपाः
अवत्रा सुषिरा भिन्ना कोटरान्परिग्रहेत् ५५
दण्डलक्षणमित्युक्तं यक्षिलक्षणमुच्यते
दण्डोत्तवृक्षजं वापि वेणुं वा संग्रहेद्बुधः ५६
तद्दण्डपञ्चभागैकभागेनैनोपदण्डकम्
तालमात्रेण तन्नाहं तदग्रं दण्डवद्भवेत् ५७
पञ्चपर्वाभयं लोके षट्पर्वाच्छ्रयावहः
सप्तक्षयं गवां चाष्टपर्वसस्य विवर्धनम् ५८
नव पर्वाकु लं हन्ति दश वै सर्वकामदा
एकाशी पुत्रकदा स्याद्वादशमी पुष्टिकामदा ५९
इत ऊर्ध्वं न कर्तव्यं वेणुदण्डे विशेषतः
षडङ्गुलादधः कु र्यादधः पट्टं तदग्रके ६०
कषिकासमं पट्टे वलयं योजयेद्दृढम्
दण्डोपदण्डयोगाय स्कन्दानां त्रयमाहरेत् ६१
रव्यङ्गुलं समारभ्य विंशत्यङ्गुलकावधि
स्कन्धायामः समुद्दिष्टस्तदर्धं मूलविस्मृतः ६२
पञ्चांशे त्र्यंशविस्तारं त्र्यंशे वा द्व्यंशविस्तरम्
स्कन्धाग्रं कारयेत्तेषां सनविंशङ्गुलं भवेत् ६३
दर्व्याकारं विधातव्यं मूलाग्रं सुषिरान्वितम्
तत्वाङ्गुलं समारभ्य वह्न्यङ्गुलविवृद्धितः ६४
पञ्चादशाङ्गुलं तावद्भूममानमिचीषितम्
त्विगवे सति तद्दण्डं स्वर्णेन रजतेन वा ६५
ताम्रेण वाथ कासेन त्रपुणा गोलका बलिम्
कारयित्वा विशेषेण भूषयेन्मणिभूः सह ६६
तदग्रे वृषभस्थाप्य तद्द्रव्यैस्थ लक्षणैः
कु र्याध्वजपटं पञ्चसप्तानन्दकरेस्ततः ६७
पञ्च षट्सप्त भागैकविस्तारं नूपुरस्थितम्
कार्पासतन्तुजं तस्य ताराद्धं शिखरं भवेत् ६८
शिखरद्विगुणं पुच्छयुगलं ब्राह्मणादितः
श्वेतं रक्तं तथा पीतं श्यामं सर्वत्र वासितम् ६९
पट पञ्चमभागेन मध्ये वृषभमालिखेत्
अधोभागप्रधो पद्मपीठं पूर्णघटद्वयम् ७०
दीपाधारद्वयं कु र्यात्तदूर्ध्वे छत्रचामरे
कार्पासतन्तुसंसिद्धं सुखारोहणयोग्यकम् ७१
अङ्गुष्ठानाहं रकं चक्षुट्टघण्टासमन्वितम्
एवं समस्तं संपाद्य कु र्याद्द्रेषाधिवासनम् ७२
ततो गुरुकृ तः स्नानः सकलीकृ तविग्रहः
सामान्यार्घ्यकरो भूत्वा मण्डपे कलशावृते ७३
सौरकु म्भं समभ्यर्च्य द्वाराणि द्वारपानपि
पश्चिमे द्वारपानिष्ट्वा विघ्नानुच्चाट्य सर्वशः ७४
अन्तः प्रविश्यं देहल्यां अस्त्रं संपूज्य नैरृते
वास्तुब्रह्माणमिष्ट्वाथ वेदी दक्षिणसंस्थितः ७५
वृषस्य ब्रह्ममूलाङ्गैर्भूतशुध्यादिकं क्रमात्
कर्मकृ त्वानुशुध्यन्ते वृषभस्मं च कल्पयेत् ७६
पञ्चगव्यं च संस्थाप्य कृ त्वा पाण्डच्पसंकृ तिम्
पञ्चगव्येन संप्रोक्ष्य विकीर्य विकिरानथ ७७
स्माहृत्यादसने कु म्भवर्धन्यो ईशदिक्स्थयोः
चलासनं ततो कृ त्वा मूर्तिमूलान्तसंयुतम् ७८
पाद्यादिगन्धपुष्पान्तमष्टदिक्पालकानपि
शिवाज्ञां श्रावयित्वैषां वर्धनी पाकायायः सह ७९
भ्रामयित्वा पुनः कु म्भं स्वस्थाने स्थाप्य पूर्ववत्
स्थिरासनं च संपूज्य ज्ञानखड्गं समर्पयेत् ८०
मण्डपे प्राचिवेदी स्यामैशान्यामपरत्र वा
स्थण्डिलोपरि विन्यस्य विद्धमभ्युक्षये तु ना ८१
संपूज्य पञ्चगव्येन प्रोक्ष्य मृत्युञ्जयेन तु
हेमतूलिकया कु र्युन्नयनोन्मीलनं कु रु ८२
गव्येनास्त्रेण संप्रोक्ष्य शाययेद्वेदिकोपरि
आधारशक्तिं चानन्तधर्मादीनां चतुष्टयम् ८३
तीष्णशृङ्गाय विद्महे वेदापादाय धीमहि
तन्नोः वृषः प्रचोदयादिति गन्धादिभिर्यजेत् ८४
त्रिखण्डकल्पनां कृ त्वा जानुकण्ठशिरोन्तकम्
वृषात्मविद्यातत्वाख्यशिवतत्वत्रयं क्रमात् ८५
वां वीं वूं बीजसंयुक्तमेकाराद्यं नमोन्तकम्
चतुर्थ्यन्तं तथा ब्रह्मविष्णु रुद्राधिपानपि ८६
जान्वन्ते च गलान्ते च शिरोन्ते च निवेशयेत्
तदग्रे स्थण्डिलं कृ त्वा साष्टपत्रं सकर्णिकम् ८७
तन्मध्ये स्थापयेन्निद्राकु म्भं वृषभदैवतम्
हेमाब्जकू र्चवस्त्राढ्यं तथा संपूज तद्बहिः ८८
वृषदिक्पालकु म्भानामष्टकं स्थाप्य पूजयेत्
इक्षुश्च गोपादि शृङ्गि नन्दीति वृषपदिंस्तथा ८९
विषाणी शकु कर्णश्च महोदस् इति क्रमात्
वृषदिक्पालकां पूज्यास्ततो होमसमारभेत् ९०
तत्पूर्वकल्पिते कु ण्डे स्थण्डिले वा तदिन्दितः
कु ण्डानि सृक्स्रवाज्यानाम कृ त्वा संस्कारमुक्तवत् ९१
शिवाग्नि हृदये ध्यात्वा वृषमावाह्य पूजयेत्
वृषेणाष्टोत्तरशतं हुत्वाङ्गैश्च दशांशतः ९२
पूर्णां दत्वा वृषास्त्राभितं त्रिशतान्त्रिकु म्भके
संपात होमकृ त्वाथ वह्नावाधारशक्तिकाम् ९३
न्यस्त्वात्मतत्व सेशं च हुनेद्दशशताहुतिः
तच्छुध्यर्थं तु मूलेन पञ्चविंशाहुतिर्यथा ९४
दत्वा वृषान्तिकं गत्वा होमसङ्ख्या जपं नयेत्
कु शमूलेन मूलेन स्पृष्ट्वा जानुप्रदेशकम् ९५
शान्तिकु म्भाम्भसा प्रोक्ष्य पुनः संप्राप्य पावकम्
वृषात्मविद्यातत्वाभ्यां नन्त्यन्तं हृच्छिरोच्छितम् ९६
उच्चार्य विद्यातत्वेरस्त्रत्वेत्यन्तदनन्तरम्
विद्यातत्वं सहायीशमुपस्थाप्य वनोत्तरः ९७
दत्वाहुतिर्दशदशच्चुत्यै पञ्चविंशतिः
मूलेन होमं कृ त्वाथ वृषमूलजपं तथा ९८
विधाय कु शमध्येन स्पृष्ट्वा मूलेन कन्धरम्
संप्रोक्ष्य शान्तितोयेन यायात्कु ण्डान्तिकं पुनः ९९
विद्याशिवाख्यतत्वाभ्यां शिरोबीजं शिखान्वितम्
मन्त्रमुच्चार्यात्यन्तमेकीभूतं शिवे स्मरेत् १००
सेश्वरम् शिवतत्वं तदुपस्थाप्य पृथक्पृथक्
दिशदशाडुतिस्तस्य ऋद्धये मूलमन्त्रतः १०१
पञ्चविंशाहुतिः कृ त्वा कु शाग्रैर्वृषमूलतः
शिरः प्रदेशं संस्पृश्य शान्त्यम्भः प्रोक्षणं नयेत् १०२
वृषमूलजपं कु र्यात्पूर्ववध्योदसङ्ख्यया
पूर्णां दत्वाथ शास्त्रेण रक्षां कु शतिलादिभिः १०३
कृ त्वा निष्कृति होमं च निवृत्याग्नि स्थितं वृषम्
सन्निरुद्ध्य बलिं दद्याद्रात्रिशेषं व्यपोहयेत् १०४
ततो नित्यकृ तस्नानसन्ध्योपासनतर्पणः
द्वारपूजादिकं कर्ममत्रत्रप्यावसानकम् १०५
कृ त्वा बलिं च निक्षिप्य बलिभिर्गत्य देशिकः
दण्डोपदण्डस्कन्धानां योगं कृ त्वास्त्राणुना १०६
प्रक्षाल्यां भ्युक्ष्य तद्दर्भमायया ज्येष्ट्य मर्मणा
अस्त्रमन्त्रेण संपूज्य त्रिधा दण्डं विसृज्य च १०७
शिवतत्वादितत्वं च त्रयं साधिपति न्यसेत्
उपदण्डे तथा स्कन्धत्रयोप्युग्रात्क्रमेण तु १०८
वलयेर्यमणे रेजौ शक्तिदण्डे सदाशिवम्
प्रत्येकमाहुतिस्तिस्र सन्निधानाय तर्पयेत् १०९
प्रायश्चित्ताहुतिं हुत्वा वह्निस्थं वृषभं पुनः
वृषकु म्भे समायोज्य विसृके च्छिवपावकम् ११०
प्रासादपुरतो भूतपीठाग्रे वा वृषाग्रके
पीठगोपुरमध्ये वा गत्तं कृ त्वा यथोचितम् १११
अस्त्रेणाभ्युक्ष्य कु ञ्जादिनिष्कान्तं हेमकच्छपम्
वृषवाभिमुखं न्यस्त्वा तत्र सुस्थकमासनम् ११२
कृ त्वोर्ध्वे मूर्तिभूतं तदण्डसंस्थाप्ययेत्स्थितम्
रसबाणचतुस्तालैस्तन्मूले वेदिका मता ११३
विस्तारस्य त्रिभागेन तदुत्सेध उदाहृतः
चतुरङ्गुलमानं तु व्योममात्रविवृद्धितः ११४
स्त्यत्र्यङ्गुलावधिः कु र्यात्पद्मोत्सेधं तदग्रके
पद्मविस्तारमानं तु वेदिकासदृशं भवेत् ११५
पादपादप्रवृध्येकमात्रदग्न्यंङ्गुलावधिः
कर्णिकोत्सेधमस्तारौ दण्डाद्बाह्ये तु कीर्तितौ ११६
चतुर्भिरष्टभिर्वाथ दलैर्युक्तं तु वृत्तकम्
पुण्याहवारिणा प्रोक्ष्य दण्डे घोरास्त्रमूर्तिके ११७
अघोरास्त्रमथावाह्य डीगं विन्यस्य पूजयेत्
देवेन सहिता वाथ के वलं वा वृषध्वजम् ११८
ग्रामप्रदक्षिणं नीत्वा दण्डाग्रे स्थापयेत्पुनः
कु म्भाद्बीजं समुद्धृत्य वृषे भू हृदये न्यसेत् ११९
रज्जुयन्त्रेण संयोज्य वृषास्त्रेणाधिरोपयेत्
प्रदक्षिणक्रमेणैव रज्जुं मूले तु बन्धयेत् १२०
वृषकु म्भस्थतोयेन दण्डमूलेऽभिषेचयेत्
अष्टकु म्भजलैस्तत्र दलाग्रेष्वभिषेचनम् १२१
कृ त्वा वृषेन्द्रं संपूज्य गन्धाद्यैरुपचारकैः
मुद्गान्नं विनिवेद्यास्मै लोकपालबलिं ततः १२२
दलाग्रेष्वनिक्षिप्य धूपदीपादिकं ददेत्
देवस्य स्नपनं कृ त्वा संपूज्य वा विशेषतः १२३
सन्तोष्य नृत्तगीताद्यैः प्रासादं च प्रवेशयेत्
ध्वजारोहणमाख्यातं भेरीताडनमुच्यते १२४
ततो रजन्या देवाग्रे गोमयालिप्तभूतले
स्थण्डिलद्वितयं कृ त्वा शूलमेकत्र विन्यसेत् १२५
अन्यत्र भेरीं विन्यस्य पुण्याहं वाचयेत्ततः
त्रिशूलायासनं दत्वा मूर्तिं तदुपरिन्यसेत् १२६
तत्पत्रमध्यमे रुद्रं दक्षे वामे विधिं हरिः
पालिकायारमां दक्षपत्रमूले सरस्वतीम् १२७
वामपत्रस्य मूले तु श्रियं कु म्भे विनायकम्
दण्डाग्रमध्यमूलेषु स्कन्दसूर्यं च चण्डकम् १२८
लक्ष्मीमातृगणज्येष्ठा दुर्गाः पूर्वादिपत्रगाः
दलान्तरे रुद्रार्कवसुदसृगणानपि १२९
विन्यस्याभ्यर्च्य शूलास्त्रमावाह्याखिलदैवतम्
निवेद्य नैवेद्यादीनि भेरी संप्रोक्ष्य शस्त्रतः १३०
प्रणवेनासनं दत्वा स्मृत्वा मूर्तिं च तन्नधीम्
ह्रींकारं प्रथमं शब्दतत्वायाममधिक्यतः १३१
शब्दग+ समावाह्य तद्भेर्या दक्षिणानने
ब्रह्मणाधिष्ठितं सूर्यमण्डलं वामपत्रके १३२
विष्णुनाधिष्ठितं सोममण्डलं वह्निमण्डलम्
रुद्रेणाधिष्ठितं मध्ये संपूज्य च हविर्ददेत् १३३
शूलाङ्गस्थितरुद्रादीन्शूर्पयित्वा पदानतः
आविष्कुर्याद्विशेषेण शिवास्त्रं सर्वशासकम् १३४
कोणमन्त्रेण संप्रोक्ष्य शिवं शक्तिं च भावयेत्
तत्संपर्के ण तच्छब्दं जयमानं तदा स्मरन् १३५
एकद्वित्रिक्रमाद्भेरीं प्रणवेनैव ताडयेत्
आहूय वादकं पश्चात्संप्रोक्ष्यास्त्रं +++ १३६
पुष्पाञ्जलिं च तेनैव कारयित्वा गुरूत्तमः
अने भेदनपाद्यं च वादयेत्तेन तत्र तु १३७
भेरीताडनमित्युक्तदिक्पाला मन्त्रितं शृणु
पूर्ववद्बलिपात्रे तु कृ त्वा लिङ्गं हविर्मयम् १३८
तत्र पाशुपतं यष्ट्वा ग्रामाद्यं संप्रविश्यति
चचोत्सवस्य तत्काले परिपालनहेतवे १३९
ब्रह्मादीशानवालोकपालानामन्त्रयेत्सुधीः
लोकपान्मन्त्रिणं प्रोक्तमुत्सवाङ्कुरमुच्यते १४०
पूर्ववत्तन्नकर्तव्यं तीर्थाङ्कुरमथोच्यते
दशमे तीर्थनक्षत्रादष्टमे दिवसेधवा १४१
सायाह्नसमये प्राग्वन्मृदं संगृह्य वापयेत्
तीर्थाङ्कुरमिति प्रोक्तं शृणु कौतुकबन्धनम् १४२
विघ्नराजं समभ्यर्च्य तस्मै दत्वोपहारकम्
अविघ्नमस्त्विति प्रार्थ्य कौतुकं परिकल्पयेत् १४३
सोमास्कन्देश्वरं तत्र के वलं सोममेव वा
उमार्धविग्रहं वापि चन्द्रशेखरमेव वा १४४
पञ्चविंशतिबेरेषु यानि बेष्टानि तानि च
अभावे सर्वबेराणामेकमेवोत्सवेश्वरम् १४५
संस्नाप्य देवदेवेशमलङ्कृ त्याथ पूजयेत्
तदग्रे स्थण्डिलं कृ त्वा यन्त्रिकां तन्त्रविन्यसेत् १४६
तदूर्ध्वे शुद्धपात्रे तु सिततण्डुलपूरिते
अखण्डायुग्मसङ्ख्याक पूगीफलसमन्वितम् १४७
अच्छिन्नमूलाग्रैर्नाग वल्लीपात्रः समन्विते
भस्माधारयुते न्यस्त्वा रक्षसूत्रं हिरण्मयम् १४८
पुण्याहं वाचयित्वाथ संप्रोक्ष्य तदम्भसा
आधारशक्तिं संपूज्य स्थण्डिले यान्त्रिकोपरि १४९
तत्वत्रयं ततः पात्रैः प्रकृ तितण्डुलेष्वणून्
भस्माधारान्यसोत्राया लकु लीशं तु भस्मनि १५०
सूत्रेऽनन्तश्च गन्धाद्यैरर्चयित्वास्त्रमन्त्रतः
पट्टाद्यैः पात्रमाच्छाद्य मालां तदुपरि न्यसेत् १५१
सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम्
ग्रामप्रदक्षिणं कृ त्वा सह महेश्वरे द्विजैः १५२
त्र्यम्बकं समुच्चार्य हृदा वास्त्रेण सूत्रकम्
देवस्य दक्षिणे हस्ते देव्या वामे तु बन्धयेत् १५३
शूलस्य मध्यपत्रे तु हस्तिं तत्र विनिक्षिपेत्
भगवन्तु मया सार्धमुत्सवार्थं जगत्प्रभो १५४
आमन्त्रतोऽसि स्थातव्यं यावद्यागावसानकम्
इति विज्ञाप्य देवेश पतिवाक्यपरिग्रहेत् १५५
बन्धनं कौतुकस्योक्तवक्ष्ये मण्डपसंस्तृतिम्
देवस्याग्रेथ वैशान्ये आग्न्येयां दक्ष वामयोः १५६
पञ्चप्राकारमध्येऽष्टदेशे वा मध्यहारके
उक्तप्रमाणासंयुक्तं पश्चिमे द्वारसंयुतम् १५७
मध्ये वेदिकया युक्तं नव पञ्चैककु ण्डयुक्
वितानदर्भमालाढ्यं चतुस्तोरणसंयुतम् १५८
मङ्गलाष्टकसंयुक्तं यागमण्टपमाश्रयेत्
नित्यवत्सूर्यमाभ्यर्च्य सकलीकृ तविग्रहः १५९
सामान्यार्घ्यकरो भूत्वा पूर्वादिद्वारसंयुतम्
शान्तिभूति बलारोग्य चतुस्तोरणसंयुतम् १६०
शान्तिविद्यानिवृत्याख्य प्रतिष्ठा द्वारपूजनम्
कृ त्वा तच्छानयो नन्दि कालौ भृङ्गिविनायकौ १६१
वृषस्कन्धौ तदा देवी चण्डौ द्वौ द्वौ यजेत्क्रमात्
नित्यवत्पश्चिमद्वारे द्वारपालार्चनं नयेत् १६२
दिव्यान्तरिक्षभूमिष्ठान्विघ्नानुस्सार्य तद्गतान्
अन्तः प्रविश्य देहल्यो मस्त्रराजं समर्चयेत् १६३
नैरृतेऽभ्यर्च्य वास्त्वीशं यागमण्डपकम्पिषु
संपूज्य पृथिवीतत्वं बन्धेष्वप्त्वत्वमर्चयेत् १६४
तृणे च तेजस्तत्वं तु वायुं वंशेषु संयजेत्
आकाशतत्वस्थूणासु विताने चन्द्रमर्चयेत् १६५
वासं किं दर्भमालादै महेलाष्टकमर्चयेत्
दर्पणं पूर्णकु म्भं च वृषभं युग्मचामरम् १६६
श्रीवत्सं स्वस्तिकं शङ्खं दीपं ग्रामादितः क्रमात्
वेदि दक्षासने स्थित्वा गुरुरुत्तरदिङ्मुखः १६७
भूतशोधनपर्यन्तं यजनं स्थानशोधनम्
अर्घ्यं संस्थापनद्रव्यशुध्यमात्माचनं ततः १६८
मन्त्रशुद्धिं च कृ त्वाथ दक्षहस्ततले सुके
आलिप्ति चन्दने धर्मज्ञानवैराग्यभूतियुक् १६९
स पद्मकर्णिकं न्यस्त्वा शिवासनमनन्तरम्
मूर्तिं तत्वाथ मूलेन शिवमावाह्य निष्कलम् १७०
साङ्गसंपूज्य तद्धस्तं स्वकीये मस्तके न्यसेत्
तालप्रमाणं षट्त्रिंशद्दर्भज सप्तधा स्मृतः १७१
जप्तं ज्ञानाधिमादाय स्थापयेत्पञ्चगव्यकम्
शालीनामाढके नैव स्थण्डिलं परिकल्प्य च १७२
नव कोष्ठानि संलिख्य मध्यकोष्ठे शिवं न्यसेत्
पूर्वे सदाशिवं तत्वं विद्यातत्वं तु दक्षिणे १७३
उतरे कालतत्वं तु पश्चिमे पुरुषाख्यकम्
ऐशे प्रकृ तितत्वं तु मध्यादीशान्तकं पुनः १७४
सुप्रतिष्ठः सुशान्तश्च तेजोवदमृतान्तकम्
रत्नोदकमथा व्यक्तपात्रमेतानि पूजयेत् १७५
क्षीरं दधि घृतं चाथ गोमूत्रं गोमयं तथा
कु शोदकं च संपूज्य ब्रह्मभिर्मूलमन्त्रत १७६
एकद्वित्रिचतुष्पञ्चषडध्वामभिमन्त्रयेत्
गोमयं गोजलं क्षिप्य गोजलं तु घृते घृतम् १७७
दघ्नो दधि पुनः क्षीरयोजयेच्च कु शोदकम्
संहिता मन्त्रितं हेतिरक्षितं धेनुमुद्रया १७८
अमृतीकृ त्य गव्येनास्त्रेण संप्रोक्ष्य मण्डपम्
स्वदेहे तत्वतत्वेशमूर्तिमूर्तीश्वरान्न्यसेत् १७९
ध्यात्वा द्वैतं शिवस्याथ नैरृतं देशमाश्रितः
वीक्षणं प्रोक्षणं पश्चात्ताडनाभ्युक्षणे ततः १८०
खननोद्धारणे भूयः पूरणं समा ततः
सेचनं कु ट्टनं संमार्जनालेपनकर्मणि १८१
कलां कल्पनासूत्रवेष्टनं पूजनं ततः
रेखापिचरनं वत्तिकरणं च चतुष्पथम् १८२
इत्याष्टादशसंस्कारं कृ त्वात्र विकिरान्पुनः
विक्षिप्य कु म्भवर्धन्यो रासनाय समाहरेत् १८३
तत्रेशदिशि विन्यस्तस्थण्डिलोपरि कल्पितम्
स सूत्रवस्त्रं स स्वर्णरत्नलोहौषधी व्रकम् १८४
कु म्भं तदक्षिणे पश्चान्नालं च करकं यजेत्
कु म्भादधस्तद्वृषभासनं हृत्तारकादिमम् १८५
चतुर्थ्यन्तं नमस्कारप्रदं तवा चलासनम्
मूर्तिं न्यस्त्वा शिवं साङ्गं संपूज्य कारकादयः १८६
ओं हां स्यालासन येनेत्यन्तं पञ्चलमासनम्
नत्वा पाशुपतास्त्रस्य मूर्तिं च करके न्यसेत् १८७
चतुर्बाहुं त्रिणेत्रं च श्लक्षणं पिङ्गोर्ध्वके शकम्
अष्टाभयकरं दक्षे वामे वा शवराञ्छितम् १८८
एवं पाशुपतास्त्रं तध्यात्वा श्लीमुच्चरत्पशून्
हुंफट् पाशुपतास्त्रायेत्यावात्य तमसान्वितम् १८९
षडङ्गानि च विन्यस्य हां श्लीं पशुक्षं हुदित्यथ
फट्कारमङ्गबीजानि प्रणवाद्यानि कल्पयेत् १९०
पाद्यादिकं ततो दत्वा प्रागादिकलशेष्वथ
दिक्पालानपि संपूज्य ब्रह्मविष्णुसमन्वितान् १९१
कु म्भं तदग्रभूतामि सावन्त्याधारया सह
परिहासदिगीशानां शिवाज्ञां श्रावयन्पुनः १९२
स्वस्थाने स्थाप्य कु म्भं च वर्धनीं च स्थिरासनम्
स देहावरणं पूज्य वर्धनीं च तथा यजेत् १९३
भुक्तये पूर्वमङ्गुष्ठाग्रेण त्रिद्भवमुद्रया
कु म्भं संस्पृश्य तत्पश्चाद्वर्धनी मर्तयेन्यथा १९४
कु म्भे तु तत्वतत्वेशमूर्तिमूर्तिश्वरान्न्यसेत्
ज्ञानखड्गं समर्प्याथ यागरक्षा जगत्प्रभो १९५
इति प्रार्थ्य निरोधार्घ्यं कृ त्वा तस्मै तदर्पयेत्
उक्तं मण्डपसंस्कारं यागेशाराधनं शृणु १९६
वायव्यकु म्भे विघ्नेशमैशकु म्भे गुरूनपि
संपूज्य वेद्यं सच्छालि तण्डुलैस्तिललाजयुक् १९७
सदर्भं स्थण्डिलं कृ त्वा कु म्भमध्ये तदुत्तरे
वर्धनीमभितः कु म्भानष्टौ च स्थाप्य पूर्ववत् १९८
अलङ्कृ त्य यथायोग्य कु म्भे साधनविग्रहम्
साङ्गं शिवं च वर्धन्यामेवं देवीं मनोन्मनीम् १९९
कु म्भाष्टके प्यनन्तादीन्गन्धाद्यैः क्रमशोर्चयेत्
दशायुधानि तद्बाह्ये वज्रादीन्यभिपूज्य च २००
नैवेद्यादिनि वेद्याल्पजपं कृ त्वा समर्पयेत्
यागेशाराधनं ह्येवमुत्सवे चार्चनं शृणु २०१
ततः कु ण्डसमीपस्थमण्डपादौ मनोहरे
भद्रापीठस्थितं सालङ्कारमुत्सवनायकम् २०२
इष्ट्वा पाद्यादिभिद्रव्यैरुपहारं समर्पयेत्
यागेशाराधनं ह्येष उत्सवेशार्चनं पुण्यम् २०३
प्रे +++++ ओ हामं वक्ष्ये शृणुष्वतः
कु म्भलिङ्गस्थयोरेनमुत्सवेशमभेदतः २०४
स्मृत्वा तदाज्ञा लब्धा यायात्कु ण्डान्तिकं गुरुः
कु ण्डस्य कृ त्वा संस्कारं वीक्षणाद्या चतुष्पथम् २०५
आसनं तत्र विन्यस्य वागीशीमपि वाक्पतिम्
आवाह्य गन्धपुष्पाद्यैरभ्यर्च्यारणिसंभवम् २०६
सूर्यकान्तोद्भवं वाग्निं श्रोत्रियाकारजं तु वा
शरावादौ समाहृत्य राक्षसांशं परित्यजेत् २०७
ओदर्य बैन्दवाग्निभ्यां एकीभूयाथ भौतिकम्
वह्निबीजेन पात्राग्नौ न्यस्त्वा संहितया लभेत् २०८
अमृतीकृ त्य योस्तन्या कवचेनावकु ण्ठयेत्
कु ण्डोर्ध्वे त्रिः परिभ्राम्य शिखिबीजमनुस्मरन् २०९
वागीशी गर्भनाड्यां तु वागीशं तप्यमाणकम्
ध्यात्वा ताभिमुखं जानुद्वयावष्टब्धभूतलः २१०
आस्थाय कु ण्डमध्ये तु समूत्यार्घ्यकणं ददेत्
सदिन्धनैस्तं प्रज्वाल्य गर्भाग्निं पूजयेत्ततः २११
गर्भाधानार्थमावाह्य सद्योजातहृदार्चनम्
कृ त्वा तेनाहुतिं पञ्चकु र्यात्पुंसवनार्थकम् २१२
वामदेवमुपस्थाप्य शिरसाभ्यर्च्य तेन तु
आहुतिः पञ्चदत्वाथ सीमन्तोन्नयनार्थकम् २१३
अघोरशिखयाभ्यर्च्य तथा पञ्चाहुतिर्ददेत्
सद्यादिवक्त्राण्यङ्गानि तथा दर्भेण कल्पयेत् २१४
पुरुषं जातकर्मार्थमावाह्याभ्यर्चकर्मणा
कृ त्वा पञ्चाहुतिस्तेन सूतकस्यापनुत्तये २१५
कु ण्डमस्त्रेण संप्रोक्ष लालापथ धनार्थकम्
इध्मपञ्चकमस्त्रे हुत्वा भर्भैः परिस्तरेत् २१६
संस्थाप्य परिधीन्सूत्रविष्टरानपि तेष्वधः
प्राच्यादि दिक्षु ब्रह्माणं रुद्रं विष्णुमथेश्वरम् २१७
इन्द्रानीन्परितः सास्त्रान्मेखलासु समर्पयेत्
बालपालनमावेद्य स्रुक्स्रुवावस्त्रमन्त्रतः २१८
प्रक्षाल्य तापयित्वाग्नौ परिभ्राम्य त्रिवारकम्
कु शमूलेन तन्मूलमुल्लिख्याघ्र्या भ्राम्य तौ पुनः २१९
कु शार्घ्येणाथ कल्प्यार्घ्य परिभ्राम्य च म्यमम्
कु शमध्येन संपूज्य सव्यभागे कु शोपरि २२०
ऊर्ध्वाधौपदनौ स्थाप्य क्रमात्तत्वत्रयं न्यसेत्
विन्यस्य स्रुचि वागीशं स्रुवे वागीश्वरं यजेत् २२१
इध्मपात्रस्थितं गव्यं घृतमभ्यर्च्य शास्त्रतः
प्रताप्य वह्निकोणे तदधिश्रत्ये च गोचरेत् २२२
प्रादेशमात्रदर्भाग्रा द्वय क्लुप्तं पवित्रकम्
दर्भयूग्मकृ तं मध्यग्रन्धिप्रादेशमात्रकम् २२३
प्रणवेन घृते न्यस्त्वा वामदक्षक्रमेण तु
पक्षद्वयं च संकल्प्य तत्र नाडीत्रयं स्मरेत् २२४
आग्नेयेप्यध सोपाग्न षोमाभ्यामथ नयेत्
पुनस्विष्टकृ तान्ताय शुक्लपक्षे क्रमा हुनेत् २२५
कृ ष्णे सो तप्तं त्यक्त्वा सूर्यं संयोजयेत्पदम्
हृदयेनाभिमन्त्र्याथ मूलमन्त्रा मृषीकृ तम् २२६
कवचेनावकु ण्ठ्याथ तद्बिन्दुक्षेपयोगतः
अन्न्याज्य शोधनं कु र्यात्ततो वस्त्राभिघारणम् २२७
सद्योजातादिभिः कार्यं स्वाहान्तैर्ब्रह्मभिः क्रमात्
अजातवामाभ्यां वामघोराभ्यां तदनन्तरम् २२८
अघोरपुरुषाभ्यां च पुरुषेशानस्तथा
कृ त्वा वक्त्रानुसन्धानं वक्त्रे कीकरणं ततः २२९
सद्योजातानि बीजानि समुच्चार्य ततः परम्
स्वाहान्तैकपदं ब्रह्ममन्त्रैरच्छिन्नधारया २३०
अग्निकोणमरुत्कोणापधिराक्षस कोणतः
ईशानकोणपर्यन्तमेकीकरणमाचरेत् २३१
नामधेयार्थमीशान वामाद्यभ्यर्च्य शस्त्रतम्
तेन कृ त्वा हुतीः पञ्च सर्वानां समुच्चरन् २३२
हुताशनशिवाग्निस्त्वमिति नाम चरेत्
पञ्चसंस्कारपूर्त्यर्थं वौषडन्तशिवाणुना २३३
पूर्णां हुत्वा विभज्याग्निं नवधा पञ्चधाधवा
स्वस्वकु ण्डेषु निक्षिप्य होतृभिः सह होमयेत् २३४
गुरुः प्रधानकु ण्डे तु सब्रह्माङ्गं शिवं यजेत्
पुरुषं पूर्वकु ण्डं तु दक्षिणे घोरमुत्तरे २३५
वामदेवं ततः पश्चात्सद्योजातमथानले
हृदयं शाङ्करे कु ण्डे शिरः कु ण्डे तु नैरृते २३६
शिखां वायव्यकु ण्डे तु यजेयुः कवचं क्रमात्
प्रधानार्धाहुतीः कु र्युः मूर्तिपा स्वस्वमन्त्रकै २३७
पृथक्पृथक् समित्सर्पिस्तिललाजयवोदनैः
शतमर्धं तदर्धं वा हुनेत्ताम्बूलपश्चिमम् २३८
पूर्णाहुतिं ततो हुत्वा दत्वार्घ्यं च परान्मुखम्
कु म्भस्थिते शिवे मन्त्रान्संयोज्या व्याहृतीं हुनेत् २३९
पावकं च निरुद्धां च बलिं दत्वा सकु म्भकम्
शिवं संपूज्य विहितं क्रमतस्मे समर्पयेत् २४०
इति होमं समाख्यातं दिनदेवांस्तत शृणु
पूर्वं तु विघ्नरात्रं स्याद्द्वितीयं ब्रह्मरात्रकम् २४१
तृतीयं भूतरात्रं तु गान्धर्वं स्याच्चतुर्थकम्
पञ्चमंत्रमित्युक्तं षष्ठं तु मुनिरात्रकम् २४२
सप्तमं विष्णुरात्रं स्यादष्टमं वसुरात्रकम्
नवमं मरुतं प्रोक्तं दशमं चन्द्ररात्रकम् २४३
एकादशं रुद्ररात्रं द्वादशं रविरात्रकम्
ततस्तु पितृरात्रं स्याद्राक्षसं स्याच्चतुर्दशम् २४४
शिवरात्रं ततः प्रोक्तमिति प्रोक्ता दिनेश्वराम्
विघ्नराजस्य शुद्धान्नं हारिद्रं ब्रह्मण स्मृतः २४५
मरीची तिलचूर्णान्तं भूतानां बलिरुच्यते
मुद्गमाषकु लुस्थान्नं गन्धर्वाणां प्रकीर्तितम् २४६
वेणुनिष्पाययुक्तान्नं शक्रस्य तदनन्तरम्
अपूपतिलगोधूमयवाज्य गुलसंयुतम् २४७
मुनीनां तु बलिद्रव्यं विष्णोराढयुग्भवेत्
वन्धूनां संप्रियं शुध्या मरुतां वरकान्नकम् २४८
चन्द्रस्य तु गुलान्नं स्याद्रुद्रे नीवारजं भवेत्
सत्वं न चन्दशाकाणां पितृणां पनसान्नकम् २४९
राक्षसानां तु लाजान्तं शिवस्यान्तं पयः प्लुतम्
बलिद्रव्यमिति प्रोक्तं शृणु वास्तुबलिक्रमम् २५०
समस्तविघ्नशान्त्यर्थमन्नलिङ्गं पुरोक्तवत्
कृ त्वा पाशुपतास्त्रं तु तत्र संपूजयेद्गुरुः २५१
शिवास्त्रशूलमभ्यर्च्य ताभ्यां साध्वजादिकम्
परिवारबलिं दत्वा संप्रविश्य पुरादिकम् २५२
पूर्वाकृ तप्रदेशेषु मध्यं नैराजमिश्रितम्
गन्धपुष्पादिसहितं स्वाहान्तं स्वस्वनामभिः २५३
बलिं दत्वा यथान्यायं प्रासादं संप्रविश्य च
कर्णिकाया महापीठे नीलरुद्रदलाष्टके २५४
दिक्पालानपिसंपूज्य क्रमात्तेभ्यो बलिं ददेत्
बलिदानमिति प्रोक्तं वक्ष्ये ग्रामप्रदक्षिणम् २५५
भेरीताडनमारभ्य बल्यन्तक्रमेदेशिकः
मूर्तिस्वह कृ त्वाथ यामान्ते यानमाचरेत् २५६
दिनं प्रत्युत्ससेशस्य वाहना निशामया
अष्टानां द्वृतं वृत्तं मध्ये नालसमन्वितम् २५७
अनन्तासनमाद्येह्नि चतुः सिंहाङ्घि संयुतम्
सिह्मासनं चतुष्कोण द्वितीयेध त्रितीर्यके २५८
भूतरूप चतुष्पाद युक्तं मध्याङ्घिमाधवम्
अष्टकोणसमायुक्तं योगासनमुदाहृतम् २५९
चतुर्थे पद्मपीठं स्याच्चतुष्पादं च वत्तुलम्
षट्पादयुक्तं षट्कोणं विमलाख्यं तु पञ्चमे २६०
चतुष्पादयुतं भद्रपीठे षष्ठे प्रकीर्तितम्
सप्तमे रङ्गमाख्यातमष्टमे पुष्पमण्डपम् २६१
नवमे शिबिका प्रोक्ता दशमे मौक्तिकप्रवा
एकादशे विमानस्याद्द्वादशे सिंहवाहनम् २६२
त्रयोदशे रथः प्रोक्तो वृषभस्याच्चतुर्दशे
ततः पञ्चदशाहे तु गजवाहनमुच्यते २६३
पक्षाहोत्सवयानानि कीर्तितानि क्रमेण तु
एत मुनदिनानां तु पूर्वं त्यक्त्वा परं मतम् २६४
प्र्यहं रथ यानं वा रात्रौ तु नरवाहनम्
तद्दिने कृ ष्णसारस्तु देव्या वाहनमुच्यते २६५
देवी कोपप्रसादौतपश्चाद्भक्तेन कारयेत्
मातङ्गवाहनं षष्ठे मेषयुद्धं तु सप्तमे २६६
अष्टमे मल्लयुद्धं स्यादश्ववाहनसंयुतम्
नवमे रथयात्रं स्याद्देवं कु र्यान्नवाहके २६७
वृषभस्याग्रमातङ्गरथानामुत्सवेश्वरम्
अघन्नविनायकप्रोक्तो मयूरो षण्मुखो भवेत् २६८
भक्तबेराणि शेषेषु यानेषु परिकल्पयेत्
वाहनानामभावे तु के वलं पीठमुच्यते २६९
अभ्यन्तरचतुष्कोण स्थापिताय सलीलकम्
वेणुदण्डद्वयदेन योजयित्वा सुबन्धयेत् २७०
निवेश्य देवं तन्मध्ये किलरन्ध्रेषु बुद्धिमान्
अनुलोमविलोमौ च नानाराचौ योजयेदृढम् २७१
विचित्रवस्त्रैराच्चाद्य वाहयेत्परिचारकैः
दीक्षाविरहितेर्विप्रैः सामान्यैर्वाह्यते यदि २७२
विशेषस्नपनोपेतं शान्तिहोमं समाचरेत्
क्षत्रियैश्चेद्दिशाहोमं वैश्येश्चेन्मूर्तिहोमकम् २७३
प्रमादाद्याभिते शूद्रैर्हानिस्याद्राजराष्ट्रयोः
संप्रोक्षणं तदा कृ त्वा महापूजां समाचरेत् २७४
वाहने द्याहने योग्या वृषनाश्वानुलोमकाः
भस्मरुद्राक्षसंयुक्ता दीक्षिता यदि ते पुनः २७५
रथाकर्षणयोग्यास्युः प्रतिलोमा विनाज्यजाः
आकृ ष्टो यदि चण्डालैस्तदा तद्दोषशान्तये २७६
संप्रोक्षणन्ते स्नपनं कु र्यादष्टाधिकं शतम्
ग्रामाद्बाह्येथवा ग्रामे मण्डपस्थे महेश्वरे २७७
नित्यनैमित्तिकं काले कर्तव्यमुभयत्र च
मण्डपे देवदेवेशं समाराध्य विशेषतः २७८
ग्रामप्रदक्षिणं पूर्वं कृ तं चेत्तु तदन्वितम्
धामप्रवेशयेदह्नि रात्रौ वायकाठके २७९
आतपा निशयो वृष्टिरथवा चण्डमारुतः
वर्तते यदि मध्याह्नः यजमानेन्तरं मतम् २८०
बलिदाननिरस्तान्तराय ग्रामादिकं पुनः
यानक्रमेण देवेशं भ्रामयेदुत्सवेश्वरम् २८१
पितृवस्त्रं च संयुक्तसुगन्धालेपनान्वितम्
नानालङ्कारसंयुक्तं नामा माला मनोहरम् २८२
पुष्पतोरणमध्यस्थमुत्सवेशं महेश्वरम्
रथं वा शिबिकाद्यं वा प्रोक्षितं कल्पितासनम् २८३
अधिरोप्य ध्वजछत्रपिञ्छचामारसंयुतम्
नानावाद्यसमायुक्तं नृत्तगीतसमन्वितम् २८४
ग्रामप्रदक्षिणं कृ त्वा प्रवेश्यास्थानमण्डपम्
पाद्यादि त्रितयं दत्वा चाष्टपुष्पिकयार्चयेत् २८५
लौकिके नोपचारेण श्रवण निहीरणार्थकम्
नालिके रादिना देवमपहारणतोषयेत् २८६
ग्रामप्रदक्षिणं प्रोक्तं यात्रार्थं स्नपनं शृणु
महोत्सवे तथा मासोत्सत्वे वारादिकोत्सवे २८७
एतेन पञ्चभिर्वापि नवभिः कलशेस्तु वा
यात्रार्थस्नपनं कु र्यादुत्सवेशस्य नित्यशः २८८
आद्यस्य प्रस्थमन्यस्य द्विप्रस्थं नवकस्य तु
चतुप्रस्थमिति प्रोक्तं यागेशस्थण्डिलं शृणु २८९
शिवं प्रस्थद्वयोपेत द्विगुणं त्रिगुणं तथा
अथमादिविभेदेन शालिमानं प्रकीर्तितम् २९०
द्वारादिकलशानां तु प्रत्येकं प्रस्थमात्रकम्
प्रस्थद्वयं तु कु म्भस्य वर्धन्यां प्रस्थमुच्यते २९१
द्रोणं वास्तुपदं प्रोक्तं तत्कु म्भे प्रस्थमीरितम्
शिवद्वादशपक्षे तु चतुर्विंशतिके पुनः २९२
द्रोणमुत्तमथै तेषामर्धतण्डुलमुच्यते
तदर्धतिलमित्युक्तं तस्यार्धं लाजमानकम् २९३
एवं स्थण्डिलमाख्यातं स्वर्णमानमथोच्यते
शतं षष्ट्यधिकं माषानिष्कमित्यभिधीयते २९४
विंशति द्विशतं माषा निष्कपादं प्रधानकम्
तदर्धं दशमाषं वा वसुमाषमथापि वा २९५
पञ्चमाषं चतुर्माषद्विमाषं माषमन्त्रकम्
तदर्धं वा यथाशक्ति कु म्भं वा करके भवेत् २९६
सहस्रादेककु म्भान्ते स्नपनेन च भेदके
स्वर्णप्रमाणमित्युक्तं वस्त्रलक्षणमुच्यते २९७
द्विहस्तं शिवकु म्भस्य वर्धन्यां हस्तमानकम्
घृतं प्रधानकु ण्डे तु कु डुबद्वयमानकम् २९८
कु ण्डेष्वन्येषकु डुबं वास्तुहोमे तथा मतम्
यात्रान्त्रे त्रिविधेष्वेकस्नपने तोत्सवेश्वरम् २९९
स्नापयेत्कृ तयात्राणां बेराणां चैव मीरितम्
एवं स्नपनमाख्यातं प्रतियानमहिंशम् ३००
अतः परं समासेन वक्ष्ये नैमित्तिकार्चनम्
गन्धपुष्पादिकं नित्यनैवेद्यान्तं यदर्चनम् ३०१
तत्रव्या द्विगुणं कार्यमेतन्नैमित्तिकार्चनम्
अनेन विधिना देवं संभूष्य परिभूष्य च ३०२
नैवेद्यादिकमावेद्यवनिकां ततः
धूपदीपादिकं दत्वावसितं वस्त्रशोभितम् ३०३
कर्पूरके तकी कृ ष्णगन्धाद्यमतिभाण्डुरम्
अस्त्रेण प्रोक्ष हृन्मन्त्रं मन्त्रितं वदये तथा ३०४
निर्मूलदर्पणं छत्रचामरं व्यजनानि च
दत्वा राजोपचाराणि ताम्बूलं च समर्पयेत् ३०५
विशेषयजनं प्रोक्तं शृणु ताण्डवदर्शनम्
रक्तसिंहासनस्थस्य देवदेवस्य दक्षिणे ३०६
आस्तां शिष्यैः सहाचार्यो वामभागे महीपतिः
परिवारजनैः सार्धं मृगं वाद्या महारवाः ३०७
वाद्यास्तिष्ठन्तु देवाग्रे सव्ये नर्तकमादिकौ
भागकौ वंशाकौ वामे पार्श्वयोरुभयोरपि ३०८
रूपयौवनसंपन्ना रुद्रस्य गणिकास्तदा
तिष्ठन्तु शैवा विप्राश्च दक्षे भक्तास्तु वामतः ३०९
देवस्य सन्निधौ नृत्तं कारयेद्गानसंयुतम्
कर्पूरावर्तिसंयुक्तं नीराजनमथाचरेत् ३१०
तत्काले गणिका दीपपात्रहस्ता द्विपार्श्वगाः
सर्ववाद्यरवोपेत तिष्ठन्तु सकलामपि ३११
देवप्रसादताम्बूलं भूपालाय समर्पयेत्
आस्थानमण्डपैर्दैव देवमन्तः प्रवेशयेत् ३१२
नृत्तावलोकनं प्रोक्तमेवं रात्रावह्यन्यपि
पूजां होमबलिभ्रामया नान्यतीर्थमाचरेत् ३१३
देवस्योत्सवनाथा नित्योऽनुष्ठेमेव यमुत्सवे ३१४
क्रियाकलापम्
क्रियाकलापं वक्ष्यामि प्रथमं प्रातरर्चनम्
यागप्रवेशनं पश्चात्स्यदनाद्यधिरोहणम् ३१५
ग्रामप्रदक्षिणं मध्यदिन पूजनमन्तके
यानार्थस्नपनं पूजा महती नित्त++ नम् ३१६
प्रदोषपूजनं यागप्रावणं ते वनायकम्
पूर्ववत्स्नपनं भूयो विशेषयजनं ततः ३१७
विनोदवीक्षणं हर्म्यप्रवेशनमनन्तरम्
शक्त्या सह स्थितिं चाह्निशोधनं च द्विरष्टकम् ३१८
कर्मकु र्याद्यथाकालमेकैकस्याद्ययामकम्
एतानि स्वस्वकालेषु तु निषादानि वै ३१९
पूर्वतः पुष्टिदान्याहुः पृष्ठतो शुभदारिभिः
पृष्ठकालविधाने तु शान्तिहोमं समाचरेत् ३२०
दीपान्तं वा निवेद्यान्तनित्यनैमित्तिकोदये
तस्मादत्र त्रिसन्ध्यासु नित्वान्ताद्बोधनार्थकम् ३२१
तयोः पर्याय ह्वने विहितेर्चनपूजने
एवं ज्ञात्वा तु मतिमान्सर्वकर्मसमारभेत् ३२२
रथ सङ्कटमुद्दिश्य पूर्वपूर्वरिभेर्चया
प्रातदीपान्तमित्युक्तदभावे तु पूजनम् ३२३
उत्सवे मूलदेवस्य सायं प्रात दिने दिने
नित्यान्ते सर्वकर्मार्थं विशेषाराधनम् मतम् ३२४
तस्य मध्याह्नपूजां तु दीपान्ताद्यनपेक्षया
उत्सवान्तेषु सर्वेषु यथा पूर्वं समाचरेत् ३२५
परस्पराविरोधेन मूलदेवोत्सवे शयेत्
नित्यार्चनादितं तत्तत्कालेष्वेव समाचरेत् ३२६
अज्ञानाद्दैविकान्मोहात्कृ तं चेदस्ति निष्कृतिः
बुद्धिपूर्वस्यष्टोषस्य प्रायश्चित्तं न कथ्यते ३२७
तस्मात्सर्वप्रयत्नेन काले काले समर्चयेत्
तेन राज्ञो भवेद्वृद्धि नद्यदाह्नादि दधृवम् ३२८
न ययान दिवा कार्यं क्षपायह्न कथञ्चन
रथाक्षाभ्यङ्गभङ्गे तु संप्रोक्ते यानकालके ३२९
राष्ट्रस्य जायते भङ्गः सन्धानार्हं तु पूर्ववत्
सन्ध्याय शान्तिः कर्तव्याः शैथिल्यपथनादिभिः ३३०
संकटे सति देवेशमवरुह्य रथान्तरे
शिबिकादिषु वारोप्य शेषयानं नयेत्सुधीः ३३१
निम्नस्थानेथवा पङ्के गत्तादौ पतिते रथे
इति सन्धानकाष्टयानमित्युभके सति ३३२
मध्याह्नपूजनं किन्तु रथे दीपावसानकम्
यानशेषं च तत्काले नीत्वा शेषं समाचरेत् ३३३
इति पञ्चमयामार्धे तन्नित्यं यानशेषकम्
साध्यत्वाच्चेष्टवन्ते च रथे दीपान्तरिमितम् ३३४
यानाद्यं द्विरसाध्यं चेन्नैवेद्यान्तं पुरोक्तवत्
तत्र कृ त्वा विशेषार्चां विनोदालोकनं ततः ३३५
यानसेषावसाने तु यानान्तं स्नपनं नयेत्
यानं देवावरोहं वा दुत्साध्यं चेत्प्रदोषके ३३६
पूजनं पूर्ववत्कृ त्वा देवदेवं रथे स्थितम्
संप्राप्य यजनं तत्र विनोदालोकनं नयेत् ३३७
अन्ये दुरुभयः प्रातः कृ त्वा नित्यार्चनादिकम्
स्वस्थाने रथमाकृ ष्य शिबिकादितं पुनः ३३८
आरोप्य तद्दिने यानं कु र्याच्चेषं पुरोक्तवत्
तैलाभ्यङ्गविधिं कु र्यात्पञ्चमे सप्तमेऽह्नि वा ३३९
अन्यस्मिन्नवधा देवप्रवेशानन्तरं पुनः
नालिके रादिकं दत्वा देवाग्रे स्थण्डिलोपरि ३४०
संस्थाप्य यन्त्रिकां तत्र सुगन्धं सुमनोहरम्
स्वर्णादिपात्रविन्यस्तं गन्धतैलं विशोधितम् ३४१
संस्थाप्यास्त्रेण संप्रोक्ष्य हृदा गन्धादिभिर्यजेत्
शिवतत्वादिभिस्तत्वे मूलयुक्तेर्णमोन्तकैः ३४२
तैलं स पुष्पं निक्षिप्य देवदेवस्य मूर्धनि
पालादा वामबाह्वन्तं देव्या त्वाकर्णमाचरेत् ३४३
तत्काले कु र्युरभ्यङ्गं देश्यकप्रमुखाचनाः
राजापुरोहितमात्यप्रमुखा गणिकाजना ३४४
देवं संस्नाप्य देवीं च स्नपनाद्यैर्विशेषतः
अलङ्कृ त्य च संपूज्य मुद्गान्नं च समर्पयेत् ३४५
आचार्यप्रमुखान्कर्तामुद्गान्नं भोजयेत्ततः
तैलाभ्यङ्गविधिः प्रोक्तं नृत्तमूर्तुत्सवं शृणु ३४६
अथ तीर्थदिनात्पूर्वे तत्पूर्वदिवसेथवा
नटेश्वरोत्सवं कु र्यात्तदर्थं पूर्वरात्रके ३४७
कृ तकौतुकबन्धं सालङ्कारनटेश्वरम्
धामप्रदक्षिणोपेतं प्रवेश्यास्थानमण्डपम् ३४८
गीतनृत्तादिना तत्र रात्रिशेषं व्यपोहयेत्
प्रातः संस्नाप्य संपूज्य भगवन्तं नटेश्वरम् ३४९
तदग्रे स्थण्डिलं कृ त्वा गोमयालिप्तमण्डले
अनेकगन्धसंसिद्ध सुगन्धसुमनैरपि ३५०
वासितं तत्र विन्यस्यागरु धूपप्रधूपितम्
अर्घ्याम्बुनास्त्रमन्त्रेणाभ्युक्ष्य संहितया लभेत् ३५१
संपूज्य हृदये नान्थाच्छाद्य कृ षा हृदये नृत्तमूर्तिमावाह्य
पूजयेत्
शतं तन्मूलमन्त्रेण समिधा सर्पिषा ततः ३५२
चरुणा च क्रमाद्युक्त्या प्रायश्चित्तमघोरतः
कृ त्वा पूर्णां समोपेतं भगवन्तं नटेश्वरम् ३५३
स्वमूर्तेसौ योजयित्वाग्निं विसृज्याथ मन्त्रतः
जप्तेन तेन गन्धेन एलेनालेपयेद्धरम् ३५४
धूपदीपनिवेद्यादीन्दत्वा देवप्रियार्थकम्
गुरवे तण्डुलं स्वर्णवस्त्रं गवां च वत्सकम् ३५५
दद्यान्माहेश्वरेभ्यश्च कर्त्ता वित्तानुसारतः
कारयित्वा ततो देवं प्रासादादिप्रदक्षिणम्
अन्तः प्रवेशयित्वान्तनालिके रादिकं नयेत् ३५६
स्नापयित्वाथ संपूज्य नैवेद्यं महदर्पयेत्
विनोददर्शनं कृ त्वा प्रदोषार्चनमारभेत् ३५७
तत्र किञ्चिद्विशेषोस्ति मूलदेवार्चनं यथा
तथासनादिदीपान्तं नित्यपूजां समाचरेत् ३५८
सायरक्षां ततः कृ त्वा नैवेद्यादिसमर्पयेत्
नित्यनैमित्तकोप्येव सन्ध्याकालेर्चने विधिः ३५९
उत्सवेशादिबेराणां शान्तीनामप्यधः क्रमः
तदन्ते पूर्ववद्देवं कारयित्वा प्रदक्षिणम् ३६०
स्वस्थाने स्थापयित्वात नृत्तादिकक्रमथाचरेत्
अरुणोदयकालार्चां मूलदेवस्य कल्पयेत् ३६१
प्रातः कालार्चनं पश्चान्नृत्तमूर्तेश्च कारयेत्
सर्वालङ्कारसंयुक्तं ग्रामादीनां प्रदक्षिणम् ३६२
कारयित्वा ततः पश्चात्स्नपनादिकमाचरेत्
नृत्तमूर्त्युत्सवप्रोक्ता मृगयात्राविधिं शृणु ३६३
अथ तीर्थदिनदिवसात्पूर्वे दिवसे त्रिपुरान्तकम्
तदन्त्यमुत्सवे शावा पूर्ववत्कृ तकौतुकम् ३६४
मृगयात्राचितो कल्पं कृ त्वा तरङ्गवाहनम्
नानाप्रहरणोपेतैः सुभगैरपि संयुतम् ३६५
ग्रामादिभ्रमणं कृ त्वा नव मध्यं प्रविश्य च
तत्र दुष्टमृगाधित्वा प्रवेश्य भवनं पुनः ३६६
विशेषस्नपनोपेतविदध्यादर्चनादिकम्
मृगयानमिति प्रोक्तं शृणु कौतुकतीर्थकम् ३६७
तस्यां रजन्यां तीर्थान्तमुत्सवेशत्रिशूलयोः
प्राग्वत्प्रतिसरं बध्वा प्रागोचतपनोदयात् ३६८
तीर्थाधिवासनार्थं तु तीर्थं संप्राप्य तत्तटे
मण्डले गोमयालिप्ते कु र्वीत स्थण्डिलद्वयम् ३६९
एकत्रिशूलं संस्थाप्य तदग्रे नवकु म्भगान्
सूत्रवस्त्रादिसंयुक्तान्विन्यस्यास्त्रं पुरोक्तवत् ३७०
संपूज्य मध्यकु म्भे तु यष्ट्वा देवीं मनोन्मनीम्
पूर्वादीशान्तकु म्भेषु गङ्गां च यमुनामपि ३७१
नर्मदान्तसरस्वत्यां सिन्धुं गोदावरीमपि
कावेरीं ताम्रपर्णीं च प्रणवाद्यै स्वनामभिः ३७२
नमोस्तेरर्चयित्वाथ स्नापयेत्तत्र त्रिशूलकम्
तीर्थान्तेन सहाविश्यपूजयेत्तीर्थदेवताः ३७३
तास्तत्र सन्निधीकृ त्य स्नात्वा शूलाञ्छितं गुरुः
प्रासादमानयेदस्त्रं चूर्णोत्सवविधिं शृणु ३७४
अथ तीर्थदिने कृ त्वा पूजाहोमावलिभ्रमात्
यानानन्तरमास्थानमण्डपे स्थण्डिलद्वयम् ३७५
निष्पाद्य परितःकु र्यात्पालिकाद्येरलङ्कृ तम्
एकत्र शूलमन्यत्रोलूखलं मुसलान्वितम् ३७६
स्थापयित्वा त्रिशूलास्त्रं संपूज्योलूखलं ततः
अस्त्रेण प्रोक्ष्य तत्रैव रात्रिचूर्णं विनिक्षिपेत् ३७७
षडुत्थमासनं दत्वा तस्मिन्दत्वात्रयं न्यसेत्
मुसले च तथाभ्यर्च्य वस्त्रेणावेष्ट्य लूखलम् ३७८
मुसलाग्रे तु विन्यस्य लम्बकू र्चमुभावथ
संवेष्ट्य पुष्पमालातिभिर्वागीशीं लूखलेर्चयेत् ३७९
वागीश्वरं च मुसले धूपदीपं ददेत्ततः
आचार्यो मुसलेनैव त्रिधा त्र्यास्त्रमन्त्रतः ३८०
स्त्रीभिर्मङ्गलगानानि कु र्वन्तिभिः प्रहारयेत्
स्वर्णादिपात्रे संग्राह्य मूलदेवान्तिकं व्रजेत् ३८१
दूर्वापुष्पाक्षतं तैलचूर्णं त्वाथ समर्पयेत्
उत्सवेश त्रिशूलाभ्यां भक्तेभ्यश्च क्रमाद्ददेत् ३८२
ग्रामप्रदक्षिणं कु र्याच्चूलेन सह देशिकः
तत्काले भूपतिर्मन्त्रि प्रधानादिभिरञ्चितः ३८३
स्थाणिभिर्गणिकाभिश्च शृङ्गवंशादियन्त्रकैः
चन्दनागरुकर्पूरहरिद्रा सुरभीकृ तः ३८४
जमाध बहुशः के लीं कु र्यात्समन्ततः
चूर्णमुष्टिभिरन्योन्यं विहिरं तु जनास्तदा ३८५
शुर्थ विहृत्य देवेन सह तीर्थान्तिकव्रजेत्
चूर्णोत्सवविधिः प्रोक्तो महातीर्थं तत शृणु ३८६
तीर्थनक्षत्रयुग्मे तु मास्येकस्मिन्समागते
पूर्वं त्यक्त्वा परं ग्राह्यं पूर्वं योगयुतं यदि ३८७
तत्र तीर्थं विधातव्यं वारद्वय गले सति
दिवाधिकं तत्कर्तव्यमलं पर्वयुतं यदि ३८८
तदेव भवत्तीर्थे श्रेष्ठं मध्याह्नकालगम्
पूर्वाह्नगं तु मध्यं स्यादधमं ह्यपराह्नकम् ३८९
कालत्रये यदा पर्वयोगस्तत्र विधीयताम्
यदृक्ष मन्दसयं व्यापि तद्ग्राह्यमुपवासके ३९०
सर्वव्रतेषु तीर्थेषु मध्याह्नव्यापि शंसितम्
नन्तेसायनन्तनं व्यापि तिथिरप्येवमुच्यते ३९१
कृ ष्णाष्टमी चतुर्दश्यामुपवासे तथार्चने
निशाद्वयेधिकाग्राह्य तूल्यावेदपराङ् यजेत् ३९२
कृ ष्णपक्षेष्टमीं चैव कृ ष्णपक्षे चतुर्दशीम्
पूर्वविद्धामकु र्वाणोनकं प्रतिपद्यते ३९३
अर्धरात्रविहीना चेदष्टमी च चतुर्दशि
तत्रारब्धं व्रतं पुंसामायुरैश्वर्यभानिकान् ३९४
शिवरात्रव्रतेप्येवं कृ त्तिकां विधिरुच्यते
कार्तिके पूर्णिकायासां नक्षत्रं प्रवर्तते ३९५
तत्रैव कृ त्तिकादीपं विदध्यादिद सिद्धये
तत्पर्वकृ त्तिकायुक्तं यदि श्रेष्ठमिति स्मृतः ३९६
मध्यमं रोहिणीयुक्तमधमं हरिणीयुतम्
कृ त्तिका सहिता पूर्णा सुखदा राजराष्ट्रयोः ३९७
भरणीसहिता रोहहारिणीयुता
सर्वं सौख्यकरं ज्ञेया चन्द्रदैवत्यसंयुता ३९८
सुभक्षकारिणि प्रोक्ता फलमेवं प्रकीर्तितम्
तस्मात्सर्वप्रधानं स्यात्पर्वयुक्ते निशामुखे ३९९
दीपोत्सवं विधातव्यं पर्वहीने तु तो यदि
राजराष्ट्राभिचाराय तस्मात्पर्वणि कारयेत् ४००
तत्र क्लुप्ते वितानाद्यैर्मण्डिते मण्डपे शुभे
देवं संस्थाप्य तत्पूर्वे स्थण्डिलद्वयमाचरेत् ४०१
तत्रैक शास्त्रराजं तु तत्पुरो नवकु म्भगान्
संस्थाप्य देवदेवेशं पाद्याद्यैरर्चयेत्ततः ४०२
समस्तदेवताकार त्रिशूलास्त्रं च पूर्ववत्
इष्ट्वा कु म्भेषु तीर्थानि गङ्गादीनि क्रमाद्यजेत् ४०३
भेरीताडनवत्सर्वदेवानाहूय तत्र तु
तीर्थार्थमिह सान्निध्यं भवद्भिः त्रियतामिति ४०४
अभिषाया चोषि चश्चोत्वा त्रिशूलं स्नाप्य कु म्भकैः
अवगाह्य ततस्तीर्थं सर्वेभ्यः प्रतिपादयेत् ४०५
त्रिशूलेन सह स्नानं तत्र कु र्वन्ति यो नरः
ब्रह्महत्यादिभिः पापैत्युक्त्वा श्रद्धा भवन्ति ते ४०६
तत्तीर्थसलिलै मूलदेवं संस्नाप्य पूजयेत्
मध्या यजनोपेतमुत्सवेशं यथाविधिः ४०७
अभिषिच्य समभ्यर्च्य नैवेद्यं तु निवेदयेत्
विनोददर्शनं तत्र कृ त्वा धामप्रवेशयेत् ४०८
महातीर्थमिति प्रोक्तं शृणु पूर्णाहुतिक्रमम्
यागधामस्थितान्देवान्संपूज्याथ हुताशनम् ४०९
सन्तर्प्य पूर्णां हुत्वाग्निं स्थितिं कु म्भे तु योजयेत्
शिवाग्निं च विसृज्याथ कु म्भमप्यस्त्रवर्धनीः ४१०
लोके शद्वारपालादीन्विसृजेत्सकलानपि
पूर्णाहुतिरिति प्रोक्त दक्षिणा दानमुच्यते ४११
दक्षिणां त्रिविधा प्रोक्ता पञ्चनिष्काधमा भवेत्
द्विगुणा मध्यमा श्रेष्ठा त्रिगुणा देशिकस्य तु ४१२
वित्तानुसारतः कर्ता वस्त्रहेमाङ्गुलीयकैः
आचार्यमूर्तिपादींश्च संपूज्य पान भोषयेत् ४१३
आचार्यं दक्षिणा प्रोक्ता शृणु कु म्भाभिषेचनम्
इति यागेशकु म्भं च वर्धनीमष्टकु म्भकान् ४१४
उत्थाप्य मूलदेवाग्रे स्थापयित्वाथ तम्मकृ त्
लिङ्गे पीठे च वामे च योजयेदष्टदिक्षु च ४१५
यागेशकु म्भतोयं चाभिषेकं शृणु महार्चनम्
अष्टोत्तरशताद्यैकमत स्नपनसंयुतम् ४१६
पञ्चामृतादिभिः कृ त्वा पूजा वैशेषिकार्चनम्
ध्वजमूलं ततो गत्वा ध्वजेषु ध्वजावरोहणम् ४१७
कृ त्वा तन्मन्त्रं वृषभे न्यसेत्
ततश्चण्डग्रहं प्राप्य तदङ्गन्यासपूर्वकम् ४१८
तैरेवार्घ्यं च संकल्प्य द्रव्याण्यभुक्षमन्त्रवित्
अपनीय निर्माल्यं मूर्ति संशोध्य शस्त्रतः ४१९
चण्डासनं च मूर्तिं च कृ त्वा तन्मूले मन्त्रतः
सन्निधीकृ त्य विन्यस्तविद्याङ्गं पाद्यपूर्वकम् ४२०
आचार्यमर्घ्यं दत्वा तं स्नाप्याभ्यङ्गमन्त्रकैः
विपरीतं विधायाथ हविर्दत्वा जपं नयेत् ४२१
वह्नावपि यथाशक्ति हुत्वा निर्माल्यमर्पयेत्
महोत्सवोध मोहेन कृ तन्यूनाधिको यदि ४२२
भव प्रसादात्संपूर्णश्चण्डनाथस्तु संप्रति
इति विज्ञाप्य चण्डेशं चण्डाहमिति भावयेत् ४२३
ध्वजदण्डादिकं तस्माद्देशादपनयेद्गुरुः
ध्वजावरोहणं प्रोक्त दिक्पालोद्वाहनं शृणु ४२४
देशिको मौनमास्थाय ग्रामाद्यंशं प्रविश्य तु
शकटाख्यं बलिं तत्तत्स्थाने निक्षिप्य निध्वनिम् ४२५
विसृज्य दिक्पतीनन्तर्महापीठे बलिं क्षिपेत्
विसर्जनमिति प्रोक्तं दिक्पालानामतः परम् ४२६
इति यः कारयेद्भक्त्या शिवस्योत्सममुत्तमम्
सर्वान्भोगान्भुक्तान्ते शिवलोके चिरं वसेत् ४२७
इति स्वायम्भुवे शिवोत्सवविधिपटलः