४२ प्रदोषविधिः

अथातः संप्रवक्ष्यामि प्रदोषस्य विधिक्रमम्
आरभ्यास्तमनं भानोः स त्रिपादा त्रिनाडिका १
प्रदोष इति निर्दिष्टो मत्रशम्भुं समर्चयेत्
खेरस्तमनादूर्ध्वं त्रयोदश्यधिका यदा २
प्रदोषप्याजा तत्रैव कर्तव्या काम्यसिद्धये
पुरा मृगण्डुरित्येको महर्षिभार्यया सहा
तपश्चचार पुत्रार्थं मुनीनामपि दुष्करम् ३
ततस्तत्तपसा प्रीतो देदेवो घृणानिधिः
आविरादसीत्तदग्रे तु साम्बो वृषभवाहनः ४
तद्दृष्ट्वा सहसा हृष्टौ दम्पती प्रणिपत्य च
तुष्टाव तुष्टदादेवो उक्तवानभिलाषितम् ५
वेदवेदाङ्गतर्क ज्ञो भक्त्या शैशादिसन्निभः
तनयः शोडशोब्दायुः मत्प्रसादाद्भविष्यति ६
इत्यकान्तथोशंभुस्तौ च स्वाश्रममापतुः
सर्वलक्षणसंयुक्तं शिवभक्तं महागुणम् ७
तत्पत्ति सुषवे पुत्रं दृहृष्टिः पिताभ्यप्यभूत्
अधोपतिश्चाप्यस्तवेदो विश्रुतवैभवः ८
तपसा तोषयामास शङ्करं भक्तशङ्करम्
वायुरब्दावसानं तु पित्रे ज्ञात्वा महातपा ९
कालमृत्युं तदा जे तु लिङ्गार्चनरतो भवेत्
षोडशाब्दा भाने तु कालः कालाग्निसन्निभः १०
शूलपाशधरः कृ त्वा सर्वलोकभयङ्करः
तत्सकान्तमगात्सोऽपि लिङ्गमालिङ्गसाद्यसात् ११
स्तुतिश्चक्रे स्वपातेश लिङ्गेन सह बालकम्
आषकृ ष ततो लिङ्गादाविर्भूय महेश्वरः १२
वामपादप्रहारेण कालं संहृत्य तक्षणात्
नित्यत्वं दत्तवान्तस्मै भक्ताय भगनेत्रहा १३
प्रकृ ष्टदेस्तत्काले प्राणिनो मलगौरवात्
निद्राव्रजन्ति यस्तस्मात्प्रदोष इति कथ्यते १४
तत्काले कालकालं तु ब्रह्मविष्णु हृदादयः
स्वस्वतोषं विनाशार्थं पूजयन्ति विधानतः १५
सायं संहारकालत्वात्सर्वदोषापनुत्तये
विश्वरक्षाकरण्डं वृषभं प्रथमं यजेत् १६
प्रस्थानतो जनाभ्यङ्गजपस्वाद्याय मैथुनः
तपा च हरिसेवां च त्वाशंकरार्चयेत् १७
स्नात्वान्तरिं सन्ध्यां कृ त्वा चार्यप्रसहधीः
शिवधामप्रविश्याथ भूतशुध्यादिपूर्ववत् १८
कृ त्वा शिवाग्रतः पश्चात्कुर्यास्थण्डिलकल्पनम्
पुण्याहं वाचयित्वा तु स्नपञ्च तु कर्तनः १९
संस्थाप्य पञ्च ++++ मृतमनन्तरम्
वतं क्रमेण संपूज्य गायत्र्या वृषभं यजेत् २०
धूपं दत्वाथ निर्माल्यं विसृज्य वृषभस्तृतः
अभिषिच्यासनं मूर्तिं मूर्तिमन्त च विन्यसेत् २१
षडङ्गानि च विन्यस्य दिग्बन्धमवकु ण्ठनम्
गोविषाणाह्वया मुद्रा कृ त्वा पाद्यादिकं ददेत् २२
तैलाभ्यङ्गं ततः पञ्चगव्यस्नानं विधाय च
शुद्धोदके न संस्नाप्य गन्धपुष्पादिभिर्यजेत् २३
कृ सरान्नं समर्प्याथ ताम्बूलं तदनन्तरम्
धूपादिकं ततो दत्वा जपं कृ त्वा समर्पयेत् २४
पृथिव्यां यनि तीर्थानि सागरान्तानि तानि तु
अण्डमाश्रित्य तिष्ठन्ति प्रदोषवृषभ + तु २५
दर्भास्तं वृषणं स्पृष्ट्वा पश्येद्रङ्गान्तरे शिवम्
ऋणगरोगादिदारिद्र्या पापक्ष्माद्रपमृत्यवः २६
भयः क्रोधमनः खेदानश्यन्तु मम सर्वदा
इति त्रिवारं विज्ञाप्य मुच्यते सर्वपातकैः २७
अशुष्के तालपत्रे तु विलिख्य शिवसन्निधौ
विज्ञाप्य दहनं कु र्याज्जलतीरे प्रयत्नतः २८
इति त्रिवारं विज्ञाप्य तस्य नास्ति रणादिकम्
द्वारदेवान्समभ्यर्च्य लिङ्गशुद्धिं समाचरेत् २९
पीठार्चनं ततः कृ त्वा सकलीकृ त्य पूर्ववत्
मूलेनावाह्य सद्यादैः कु रुष्वावाहनादिकम् ३०
हृदयादीनि विन्यस्य कु र्याद्दिग्बन्धनादिकम्
पञ्चगव्यादिभिस्नाप्य पर्षयेत्पिष्टकादिभिः ३१
शुद्धतोयेन संस्नाप्य स्थलशुद्धिं तु कारयेत्
गन्धपुष्पादिभिः पूज्य धूपदीपौ समर्पयेत् ३२
शिवकु म्भं समुद्धृत्य कृ त्वा धामप्रदक्षिणम्
कु म्भाद्बीजं समादाय लिङ्गमध्ये तु विन्यसेत् ३३
वर्धनीबीजमादाय पीठनाले तु विन्यसेत्
कु म्भादिभिश्च संस्नाप्य दद्यादाचमनीयकम् ३४
खण्डवस्त्रेण संमृज्य वस्त्राभरणलेपनैः
अलङ्कृ त्य च मालाभिरष्टपुष्पैः समर्चयेत् ३५
धूपादिकं ततो दत्वा नैवेद्यं विनिवेदयेत्
इति नैमित्तिकोपेतां नित्यपूजां विधाय तु ३६
सायरक्षां ततः कृ त्वा दद्यान्नैमित्तिको यथा
पानीयाचमने दत्वा ताम्बूलं च समर्पयेत् ३७
नैमित्तिकनिवेद्यान्ते पूर्ववन्नित्यहोमकम्
बलिनित्योत्सवं चापि स्वस्वकाले समाचरेत् ३८
पुनर्धूपादिकं दत्वा वेदविज्ञापनादिकम्
कारयित्वाथ नृत्तं च पूजामेवं समर्प्य च ३९
अर्धयामापनं मन्त्री यथा पूर्वं समारभेत्
प्रदोषार्चनमित्युक्तं सर्षप सखावहम् ४०
आयुरारोग्यजयदं अपमृत्युनिवारणम्
प्रदोषयजने हीने राजराष्ट्रादिदोषकृ त् ४१
तस्यात्तत्समये विद्वान्शिवपूजामुपक्रमे
उक्तन्यायेन यः कु र्याद्राजराज्यं च वर्धते ४२
अन्यथा विहितं चेत्तु राजराष्ट्राभिचारकृ त्
आचार्यं तोषयेत्पश्चाद्यथाशक्त्यम्बरादिभिः ४३
तव स्नेहेन कथितं निधनेश महामते
शृणुष्वावतितो भूत्वा वारपूजां वरप्रदाम् ४४
इत्युत्तरस्वायम्भुवे प्रदोषपूजाविधिपटलः