अथ वक्ष्ये विशेषेण स्थापनं नृत्तमूर्तिनः
नृत्तं तु नवधा प्रोक्तं पञ्चभेदमिहोच्यते १
प्रथमं तुङ्गनृत्तं च तल्लक्षणपुरस्सरम्
चतुर्भुजं त्रिणेत्रं च सुविकीर्णजटान्वितम् २
मयूपक्षसमायुक्तं बकपिञ्छसमन्वितम्
मौले दक्षे तु धूधूरमर्धचन्द्रसमन्वितम् ३
दक्षिणे तु जटाग्रे तु जाह्नवी सा हि वन्दिना
पत्रं तु वामकर्णे भ दक्षिणेन क्रकु ण्डलम् ४
++ दूरणसंयुक्तमुपवीतसमन्वितम्
व्याघ्राजिनाम्बरोपेतं पादकिङ्किणिशोभितम् ५
वामपादं समुद्धृत्य सव्यपादं तु सुस्थितः
डमरुं दक्षिणे हस्ते वामहस्ते निरुद्धते ६
वामहस्ते तु डोलाय अभयं दक्षिणे करे
उत्तमं दशतालेन कारयेन्निधनेश्वरम् ७
भुजङ्गललितं नृत्तं द्वितीर्यन्तप्रशस्यते
चतुर्भुजं त्रिणेत्रं च वामे वामेथवाग्निभृत् ८
उत्तरे डमरुं धृत्वा डोलावारकराम्बुजम्
अभयं दक्षिणे हस्ते किञ्चित्प्रहसिताननम् ९
विक्रमं दक्षिणं पादं अपस्मारोपरिस्थितम्
उद्धृतं वामपादं तु पादाग्रं दक्षिणानुतम् १०
जटाभिः सप्तसङ्ख्याभिः पञ्चसङ्ख्याभिरेव वा
शार्दूलचर्मवसनकटिसूत्रं तु बन्धयेत् ११
भुजङ्गललितं प्रोक्तं शेषं पूर्ववदेव हि
उद्धृतं वामपादं तु स्थितं दक्षिणपादकम् १२
व्याघ्रचर्माम्बरधरं सर्पयज्ञोपवीतिनम्
जटाविकर्णसंयुक्तं बकपिच्छसमन्वितम् १३
धूर्धूरं स्वधनीं चैव वामे वा दक्षिणे दधत्
डमरुं दक्षिणे हस्ते वामहस्ते हुताशनः १४
अभयं दक्षिणे हस्ते सर्पमणिबन्धयुक्
वामहस्ते तु डोलायां कु ण्डलं पत्रमेव च १५
भुजङ्गत्रासमाख्यातं शेषं पूर्ववदेव हि
आनन्दताण्डवं पश्चात्तल्लक्षणमिहोच्यते १६
दक्षिणं वक्रपादं तु अपस्मारोपरि स्थितम्
सव्यपादं प्रलम्बन्धु पिताम्बरसमन्वितम् १७
मणिबन्धसमायुक्तं घटिसूत्रसमन्वितम्
अभयं दक्षिणे हस्ते डोलाहस्तं तु वामके १८
डमरुं दक्षिणे हस्ते ज्वलदग्निं च वामके
पत्रं तु दक्षिणे कर्णे वामे वा नक्रकु ण्डलम् १९
सिंहे वामकरं वापि दक्षिणेऽदक्षिणेऽथवा
जटाबन्धसमायुक्तं शेषं पूर्ववदेव हि २०
सन्ध्यानृत्तं च संक्षेपाल्लक्षणं पूर्वमेव हि
दक्षिणं पादमुद्धृत्य वामपादं तु सुस्थितम् २१
लम्बनं वामहस्तं तु अभयं दक्षिणे करे
अग्निं तु वामहस्तेन दक्षिणे डमरु भवेत् २२
धूर्धूरं बकपत्रं च जटाकीर्णसमन्वितम्
उक्ततालक्रमेणैव युक्तिना कारयेत्सुधीः २३
सन्ध्यानृत्तं समाख्यातमेवं पक्षं च विधं भवेत्
मन्त्रभेदम्
प्रथमस्य द्वितीयं तु चन्द्रमेकं निवेशयेत्
तद्वर्गे च तथा कु र्यात्पञ्चपञ्चचतुर्थकम् २४
तद्बीजेन तु संयोज्य नाममद्धमनोन्तकम्
तद्वर्गादिं समुद्धृत्य तृतीय्यस्वरसंयुतम् २५
बिन्दुनादसमायुक्तं स्वनामपदमध्यमम्
आदिबीजेन संयोज्य स्वनामाद्यक्षरेण तु २६
++ र्गपञ्चमं बीजं वह्नि मायासमन्वितम्
पूर्वबीजेन संयोज्य स्वनामपदमध्यमम् २७
बिन्दुनादसमायुक्तं ताण्डवं मन्त्रमुच्यते
नादार्णं तु समुद्धृत्य द्वादशस्वरसंयुतम् २८
बिन्दुनादसमायुक्तं पूर्वबीजसमन्वितम्
मन्त्रमेवं समाख्यातं संप्रोक्षणमथोच्यते २९
आवर्तं तु भवेत्पूर्वमनावर्तद्वितीयकम्
तृतीयमन्तरिं च प्रोक्षणं त्रिविधं भवेत् ३०
मधूच्छिष्टोदिना यत्र तद्भेरे प्रोक्षणं तथा
आ++मिति विज्ञेयमनावृत्तमिहोच्यते
प्रायश्चित्तार्थकं यत्र अनावर्तमिति स्मृतम् ३१
जीर्णबेरं पुनः कु र्यादन्तरितं च कथ्यते
रत्नन्यासं विना कु र्यादक्षिमोक्षं न कारयेत् ३२
प्रतिमाशुद्धिमारभ्य स्नपनान्तं समाचरेत्
अनावर्त्तमिदं प्रोक्तमन्तरितमिहोच्यते ३३
जीर्णेद्धारक्रमेणैव जीर्णमुद्धृत्य बुद्धिमान्
तस्य बेर सकर्तव्यं पूर्वमेव क्रमेण तु ३४
शक्तीनां च तथा कृ त्वा वैवाह्यं पूर्ववत्कु रु
प्रासादस्याग्रके वापि ऐशान्ये चोत्तरेऽपि वा ३५
अष्टदिक्षु च कर्तव्यं मण्डपं कल्पयेत्सुधीः
नव सप्त पञ्च हस्तं वा उत्तमा मध्यमाधमा ३६
पूर्वोक्तलक्षणोपेतं सर्वालङ्कारशोभितम्
मण्डपं नव भागं तु मध्यवेदीं प्रकल्पयेत् ३७
रत्निमात्रोच्छ्रयं कु र्यात्षोडशाङ्गुलमेव वा
पञ्चाग्न्यायतनं वाथ एकान्तमथवा चरेत् ३८
दिशासु चतुरश्राणि वृत्तमीशे प्रकल्पयेत्
एकाग्न्यायतनं चेत्तु पूर्वभागे युगाश्रकम् ३९
गोमयालेपनं कृ त्वा दर्पणोदरसन्निभम्
निश्चित्यदिवसात्पूर्वे अङ्कुरं पूर्वमाचरेत् ४०
तैलाभ्यङ्गं समायुक्तं वरं भूसुरभोजनम्
दक्षिणां दापयेत्तत्र वास्तुपूजां तदन्तके ४१
पर्यग्निकरणं कृ त्वा स्थानशुद्धिं च कारयेत्
प्रथमं रत्नविन्यासं द्वितीयं नेत्रमोक्षणम् ४२
तृतीयं प्रदक्षिणं प्रोक्तं तोयाधिवासनं परम्
दशनाडीं समारभ्य यावत्त्रिशतिनाडिका ४३
अहोरात्रं च कर्तव्यं जलतीरे विनिक्षिपेत्
बेरशुद्धिं ततः कृ त्वा पूर्वमेव क्रमेण तु ४४
गणेशं पूजयेत्पूर्वं संकल्पमिति बुद्धिमान्
पुण्याहं वाचयित्वा तु रक्षाबन्धं च कारयेत् ४५
बृहत्सामेति जप्त्वा तु बन्धयेद्दक्षिणे करे
देवीनां च विशेषेण वामे त्वा दक्षिणे करे ४६
यो ब्रह्मेति च मन्त्रेण भस्मानि दापयेत्ततः
मृत्युञ्जयं समुच्चार्य करवीरं समर्चयेत् ४७
तत्पूर्वे यागशालां च शुद्धिं कृ त्वा विचक्षणः
ऋगाध्ययनकं कु र्यात्कोणे मन्त्रजपं कु रु ४८
वेदिमध्योत्तरे भागे अण्डजाद्यैस्तु कल्पयेत्
तदूर्ध्वे शाययेद्धीमान्प्राक्छिरश्चोर्ध्ववत्रकम् ४९
दुकू लाद्येस्तु संचाद्य कू र्चं तस्योपरि न्यसेत्
तद्गायत्री समुच्चार्य यथाशक्ति जपेद्बुधः ५०
निद्राकु म्भं च कल्प्याथ पूर्वो वा चोत्तरेऽथवा
प्रणवार्घ्यं च संकल्प्य स्वगुरुं पूजयेत्ततः ५१
भास्करं पूजयेत्पश्चादेकावरणसंयुतम्
पूर्वादिषु चतुर्दिक्षु तोरणात्संप्रपूजयेत् ५२
शान्तिविद्यानिवृत्तिं च प्रतिष्ठा द्वारमेव च
तत्तत्स्वनाममन्त्रेण पूजयेद्गन्धपुष्पकैः ५३
नन्दिनं च महाकालं पूर्वद्वारसमर्चयेत्
भृङ्गीशं च गणेशं च दक्षिणद्वारमर्चयेत् ५४
वृषभस्कन्दसंपूज्य पश्चिमद्वारमर्चयेत्
देवीं चण्डेशमभ्यर्च्य उत्तरद्वारमेव च ५५
तत्तत्स्वनाममन्त्रेण गन्धपुष्पैश्च पूजयेत्
पश्चिमद्वारवामे तु महालक्ष्मीं प्रपूजयेत् ५६
तत्वदृष्ट्या विशेषेण पुष्पक्षेपमथास्त्रतः
पार्ष्णिघाते विशेषेण विघ्नोच्चाटनकर्मकम् ५७
घण्टां तु ताडयेद्धीमान् त्रिः प्रहारं यथा कु रु
अन्यद्वाराणि संघट्य पश्चिमद्वारमाविशेत् ५८
देहल्यां मध्यमे चैव अस्त्रं संपूजयेत्ततः
वास्तुनाथं च नैरृत्यां पूजयेत्तु स्वनामतः ५९
यागमण्डपकम्पीनां भूमितत्वं समर्चयेत्
जलतं च नमोन्तं च तृणानां पूजयेत्ततः ६०
अग्नितत्वं नमोन्तं च बन्धेषु यजं क्रमात्
वायुतत्वं नमोन्तं च जातीनां पूजयेद्बुधः ६१
नम आकाशतत्वं च स्थूणानां पूजयेत्सह
चन्द्र्याय नम इत्यन्ते विताने संप्रपूजयेत् ६२
वासुकयेन मन्त्रेति दर्भमालां प्रपूजयेत्
दर्पणं पूर्णकु म्भं च वृषभं युग्मचामरम् ६३
श्रीवत्सं स्वस्तिकं शङ्खदीपं चैव यथाक्रमम्
तत्तत्स्वनाममन्त्रेण पूर्वादियुगदिक्षु च ६४
एवं क्रमेण संपूज्य शुद्धतत्वेन भावयेत्
वेदिका दक्षिणे भागे आसनं कल्प्य बुद्धिमान् ६५
उत्तराभिमुखस्थित्वा सकलीकृ तविग्रहः
आत्मदैवतमभ्यर्च्य विशेषार्घ्यं च कल्पयेत् ६६
अस्त्रेण द्रव्यशुद्धिस्यादात्मानं पूजयेत्ततः
स्वदक्षिणं पाणितलं गन्धं चैव तु विन्यसेत् ६७
वामहस्तेन संस्थाप्य धर्मादीनभिमन्त्रयेत्
धर्मज्ञानं च वैराग्यमैश्वर्यं चैव पद्मकम् ६८
कणिकायां नमोन्तं च मन्त्राणां च स्मरन्गुरुः
मूर्ध्निमध्ये विशेषेण विन्यसे त्तु विचक्षणः ६९
अभिमन्त्रितपूर्वं च ज्ञानखड्गं च संग्रहेत्
शस्त्रेण दशसङ्ख्याभिरभिमन्त्रितबुद्धिमान् ७०
पञ्चगव्यक्रमेणैव योजयेत्तु विचक्षणः
प्रोक्षयेत्पञ्चगव्येन शस्त्रमन्त्रसमुच्चरन् ७१
अद्वैतं च विशेषेण परिधानाद्यलङ्कृ तम्
नैरृते आसनं कल्प्य उत्तराभिमुखस्थितः ७२
निरीक्षणं प्रोक्षणं च ताडनाभ्युक्षणमतम्
खड्गेनोद्धारणं चैव पूरणं च समीकरम् ७३
कु ट्टनं सेचनं चैव मार्जनं लेपनं तथा
कलारूपं च कल्प्याथ त्रिसूत्रीबन्धनं दृढम् ७४
भूलेखाकरणं चैव चतुष्पथं च विनिक्षिपेत्
वज्रीकरणमेवोक्तं शम्बरेण तु मन्त्रकैः ७५
लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतान्कु शान्
तद्द्रव्यं च समादाय विकिरान्शस्त्रमुच्चरन् ७६
कु शकू र्चं च संगृह्य वर्धन्यामथ विन्यसेत्
तदूर्ध्वे त्वासनं कल्प्य तोयहेमादिकु म्भकम् ७७
वामे तु वर्धनीं चैव पश्चिमानननिश्चिताम्
वृषभाय नमश्चैव कु म्भे त्वासनमर्चयेत् ७८
कु म्भे मूर्तिं च विन्यस्य शिवं साङ्गं च पूजयेत्
व्यालासनं नमोन्तं च वर्धन्यां च चलासनम् ७९
पाशुपतास्त्रमूर्तिं च पूर्ववध्यानसंयुतम्
ओं ह्रीं श्रीं क्लीं हुंफत् पाशुपतास्त्राय नमः ८०
हृदयं च शिरश्चैव शिखा कवचमेव च
नेत्रमस्त्रं षडङ्गानि कीर्तितानि क्रमेण तु ८१
तद्बीजानि समादाय अस्त्रमङ्गानि पूजयेत्
इन्द्रादीनां च संस्थाप्य पूर्वादिकलशेषु च ८२
इन्द्रोऽग्निश्च यमश्चैव निरृतिर्वारुणस्तथा
वायुश्चैव तु सोमश्च ईशो ब्रह्मा च देवताः ८३
निरृतौ विष्णु संपूज्य सास्त्रान्तहाममर्चयेत्
तदन्ते कु म्भवर्धन्यौ वर्धन्यग्रे प्रदक्षिणम् ८४
तन्नलात्सततं तोयं श्रावयेत्तु परिभ्रमम्
विज्ञापनं च कर्तव्यं यागरक्षां यथा कु रु ८५
एवं विज्ञाप्य तत्काले निरोधार्घ्यं च दापयेत्
कु म्भे त्वाधारशक्त्यादिस्थिरासनं संपूजयेत् ८६
प्रथमावरणादीनि शिवस्याङ्गं च पूजयेत्
स्वस्वमन्त्रं समुच्चार्य पूर्वमेव क्रमेण तु ८७
वर्धन्या सा विशेषेण पाशुपतस्थिरासनम्
अस्त्रमूर्तिं च विन्यस्य वर्धनीं पूजयेद्धृदा ८८
उद्भवमुद्रया चेति शिवशक्तिरिति स्मृतम्
वर्धन्यङ्गुष्ठमात्रेण कु म्भं मुष्ठ्येण संस्पृशेत् ८९
भगलिङ्गसमायोगं भुक्तिमुक्तिप्रदापयेत्
ततः कु म्भे शिवं पूज्य तत्तन्मूर्तिं च पूजयेत् ९०
मूलमन्त्रशतं जप्त्वा तत्तद्दशमांशं च वर्धनीम्
यज्ञस्यास्य पतिस्त्वं हि मूर्तिरेषा तवाचला ९१
एष ते ज्ञाननिस्त्रिंशत्तद्गृहाण स्वमायुधम्
एवं विज्ञाप्य सर्वं तु ज्ञानखड्गं समर्पयेत् ९२
भवद्यागं जगन्नाथ रक्ष भक्तानुकम्पया
इति विज्ञाप्य कार्यं तु निरोधार्घ्यं ददेद्गुरुः ९३
वायव्ये तु गणेशानमैशान्यां तु गुरुं न्यजेत्
महावेदीं ततः कृ त्वा आधाराधेयमार्गतः ९४
नृत्तमूर्ति यजेन्मध्ये तत्तद्बीजमनुस्मरन्
ऐशान्ये वर्धनीं न्यस्य गौरीबीजमनुस्मरन् ९५
पूर्वाद्यैशान्तकु म्भेषु अनन्तादींश्च पूजयेत्
स्वस्वमन्त्रैः समभ्यर्च्य गन्धपुष्पादिभिर्यजेत् ९६
निवेद्यानि कर्तव्यमुपचाराणि पूर्ववत्
ततो होमं प्रकर्तव्यमग्निकार्योक्तमार्गतः ९७
समिधा सद्यमन्त्रेण आज्यं वामेन होमयेत्
अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु ९८
ईशानेन तिलं हुत्वा शुचीवोहेन सर्षपम्
कदलीफलमस्त्रेण कू श्माण्डेन गुलं हुनेत् ९९
पतिमन्त्रादपूपं च बीजमुख्येन माषकम्
नालिके रं शिवेनैव इक्षुखण्डं तथैव च १००
द्रव्यं प्रति विशेषेण अष्टोत्तरशतावधिः
जयादिरभ्यधानं च राष्ट्रभृच्चैव होमयेत् १०१
मिन्दाहुतिं च कू श्माण्डं प्रायश्चित्ताहुतिं चरेत्
कर्माण्येतानि सर्वाणि संपूर्णं कु रु शङ्कर १०२
एवं प्रार्थ्य विशेषेण पूर्णाहुतिमथाचरेत्
तत्काले मूर्तिपाः सर्वे होमयेयुः पृथक्पृथक् १०३
तत्तदर्धं तदर्धं वा तत्तद्द्रव्यं हुनेत्क्रमात्
प्रायश्चित्तं विना कु र्यात्पूर्णाहुतिमथाचरेत् १०४
तत्तद्बीजं समादाय तत्तत्कु म्भे सुयोजयेत्
अग्निं विसृज विधिवद्यथाशक्ति जपेद्बुधः १०५
एवमेव क्रमेणैव रात्रिशेषं व्यपोह्य च
मुहूर्ते समनुप्राप्ते आमार्घ्यं पूजयेत्ततः १०६
मूर्तिपान्पूजयेत्तत्र सर्ववाद्यसमाकु लम्
मुखशब्दसमायुक्तं सर्वभक्तजनैः सह १०७
वेदिस्थं देवमुद्धृत्य स्नानश्वभ्रेषु विन्यसेत्
शुक्रं बृहस्पतिं पूज्य दक्षिणां संप्रदाय च १०८
घृतशिरोर्पणं कु र्याद्वेदकु म्भाभिषेचनम्
मन्त्रन्यासं ततः कृ त्वा कु म्भाद्बीजं हृदीन्यसेत् १०९
तत्तत्स्थानसमायुक्तं तत्तत्कु म्भाभिषेचनम्
मन्त्रपुष्पं तदन्ते तु पूर्वबीजं समुच्चरन् ११०
पायसान्नं ददेत्पश्चात्ताम्बूलं तु निवेदयेत्
आस्थानमण्डपं प्राप्य सिंहासनोपरिस्थितम् १११
सर्वालङ्कारसंयुक्तं सूरिबृन्तैश्च सेवितम्
मत्कन्या गणिका वापि नर्तनं सम्यगाचरेत् ११२
नानाजातिसमायुक्तं विनोदालोकनं मतम्
महाहविं निवेद्याथ उपचाराणि पूर्ववत् ११३
चतुर्थदिवसेत्किन्तु विभवस्यानुरूपतः
अष्टोत्तरशतादीनि स्नपनं सम्यगाचरेत् ११४
एवं यः कु रुते मर्त्यः स पुण्यां गतिमाप्नुयात् ११५
इति स्वायम्भुवे प्रतिष्ठातन्त्रे नृत्तमूर्तिस्थापनपटलः