४० संप्रोक्षणम्

अथ वक्ष्ये विशेषेण संप्रोक्षणविधिक्रमम्
आयुश्रीकीर्तिपुष्टिं धनधान्यविवर्धनम्
प्रासादस्याग्रके वापि अष्टदिक्षु च कल्पयेत् १
नव सप्त पञ्च हस्तं वा उत्तमा मध्यमाधमा
पूर्वोक्तलक्षणोपेतं चतुस्तोरणभूषितम् २
मण्डपं नवधा कृ त्वा मध्ये वेदीं प्रकल्पयेत्
गोमयालेपनं कृ त्वा दर्पणोदरसन्निभम् ३
नवाग्निं वाथ पञ्चाग्निमेकाग्निमथवा चरेत्
दिशासु चतुरश्राणि विदशास्वब्जकु ण्डकम् ४
शङ्करशाकरयोर्मध्ये वृद्धं प्राधानिकं कु रु
पञ्चाग्न्यायतनं ते तु अब्जकु ण्डं तु वर्जयेत् ५
एकाग्निं चेत्प्रकर्तव्यं पूर्वभागे युगाश्रकम्
निश्चित्य दिवसात्पूर्वे अङ्कुरं पूर्ववत्कु रु ६
प्रवेशबलिदानं च तदन्ते कालिपूजनम्
तदन्ते विप्रपूजां च तदन्ते वास्तुपूजनम् ७
पर्यग्निकरणं चैव स्थानशुद्धिं तु कारयेत्
आवर्त्तं चेत्यनावर्तं पुनरावर्त्तकं तथा ८
अन्तरितं हि विज्ञेयं प्रोक्षणं तु चतुर्विधम्
आवर्तादि चतुर्भेदं भेदमन्त्र न विद्यते ९
किञ्चिद्भेदं विशेषेण उपदेशस्य मार्गतः
विघ्नेशं पूजयेत्पूर्वं संकल्पं तु क्रमेण तु १०
पुण्याहं वाचयित्वा तु पञ्चगव्यं च साधयेत्
अष्टमृत्साधनं चापि कषायोदकमेव च ११
बेरशुध्यर्थमेवोक्तं बेरशुद्धिं समाचरेत्
त्र्यम्बके न मन्त्रेण पद्मपुष्पं समर्चयेत् १२
रक्षाबन्धक्रमेणैव बृहत्सामेति बन्धयेत्
गन्धमालेपनं कृ त्वा नव वस्त्रेण वेष्टयेत् १३
मृत्युञ्जयं स्मरेद्धीमान्करवीरं समर्चयेत्
तदन्ते यागशालां च स्थानशुद्धिं च कारयेत् १४
पुनः पुण्याहमेवोक्तं गोमयालेपनं कु रु
भास्करं पूजयेत्पश्चादेकावरणसंयुतम् १५
ऋगाद्यध्ययनं कु र्यात्कोणे मन्त्रजपं कु रु
प्रणवार्घ्यं च संकल्प्य तोरणादीन्सुपूजयेत् १६
शान्तिकला द्वारायेति नमोन्तं पूजयेत्क्रमात्
विद्यानिवृत्ति प्रतिष्ठा च नमोन्तं पूजयेत्क्रमात् १७
पूर्वादीनि समभ्यर्च्य आधाराधेयमार्गतः
द्वारपालान्समभ्यर्च्य नन्दिनं वाम पार्श्वके १८
नन्दिने नम उच्चार्य पाद्यादीन्पूजयेत्सुधीः
कालं च दक्षिणे चैव पूजयेत्तु क्रमेण तु १९
दक्षिणद्वारवामे तु भृङ्गिणे नम अर्चयेत्
गणेशं दक्षिणे भागे तन्मन्त्रं च यजे बुधः २०
पश्चिमद्वारवामे तु वृषभाग नमोन्तकम्
स्कन्दं दक्षिणे भागे तु स्कन्देशाय नमो नमः २१
उत्तरद्वारवामे तु गौरीं चैव तु पूजयेत्
तद्दक्षिणे तु चण्डाय नमो नम इति स्मृतम् २२
तत्तद्ध्यानमनुस्मृत्य अर्चये तु गुरूत्तमः
पश्चिमद्वारवामे तु महालक्ष्मीं तु पूजयेत् २३
तत्वदृष्ट्या विशेषेण पुष्पक्षेपमथा सुमैः
पाष्णिघातविशेषेण विघ्नोच्चाटनकर्मकम् २४
पाणिं तु ताडयेद्धीमान्त्रिप्रहार यथा कृ रु
इतरद्वाणि संघट्य पश्चिमद्वारमाविशेत् २५
देहल्यां मध्यमे चैव नम अस्त्राय पूजयेत्
वास्तुब्रह्मा विशेषेण तन्मन्त्रेण समर्चयेत् २६
यागमण्डपकादीनां भूमितत्वेन पूजयेत्
जलतत्वनमोन्तं च तृणानां पूजयेत्ततः २७
अग्नितत्वनमोन्ताश्च बन्धेषु यजनं क्रमात्
वायुतत्वनमोन्तां च जातिनां पूजयेत्ततः २८
नम आकाशतत्वं च स्थूणानां पूजयेद्बुधः
इन्द्राय नमश्चैव विताने संप्रपूजयेत् २९
वासुकाय नमश्चैव दर्भमालां प्रपूजयेत्
पूर्वादीनि समारभ्य दर्पणं पूर्णकु म्भकम् ३०
तत्तन्नामैः समभ्यर्च्य पाद्यादीनुपचारकैः
वृषभं चामरं चैव तन्नामेन समर्चयेत् ३१
श्रीवत्सं स्वस्तिकं चैव तत्तन्नामेन पूजयेत्
शङ्खदीपेन कर्तव्यं पूजयेत्तु स्वनामतः ३२
एवं क्रमेण संपूज्य शुद्धतत्वेन भावयेत्
वेदिका दक्षिणे भागे आसनं कल्प्य बुद्धिमान् ३३
उत्तरादिमुखं स्थित्वा सकलीकृ तविग्रहः
आत्मदैवतमभ्यर्च्य विशेषार्घ्यं च कल्पयेत् ३४
अस्त्रेण द्रव्यशुद्धिं च आत्मानं पूजयेत्ततः
स्वदक्षिणं पाणितलं गन्धं चैव विन्यसेत् ३५
वामहस्तेन संस्थाप्य धर्मादीनभिमन्त्रयेत्
धर्मज्ञानं च वैराग्यमैश्वर्यं चैव पद्मकम् ३६
कर्णिकायै नमोन्ताश्च मन्त्राणां च स्मरन्गुरुः
मूर्ध्नि मध्ये विशेषेण विन्यसेत्तु विचक्षणः ३७
अभिमन्त्रितपुष्पं च ज्ञानखर्ड्गं च संग्रहेत्
शस्त्रेण दशसङ्ख्यानि अभिमन्त्र्यं तु बुद्धिमान् ३८
पञ्चगव्यं क्रमेणैव योजयेत्तु विचक्षणः
प्रोक्षयेत्पञ्चगव्येन शस्त्रमन्त्रं समुच्चरन् ३९
अद्वैत्रं च विशेषेण परिधानाद्यलङ्कृ तः
नैरृते चासनं कल्प्य उत्तराभिमुखस्थितः ४०
निरीक्षणप्रोक्षणं च ताडनाभ्युक्षणं मतम्
खड्गेनोद्धारणं चैव पूरणं च समीकरम् ४१
कु ट्टनं सेचनं चैव मार्जनं लेपनं तथा
कलारूपं च कल्प्याथ त्रिसूत्री बन्धनं दृढम् ४२
भूलेकाकरणं चैव चतुष्पथं च निक्षिपेत्
वज्रीकरणवेवोत्तं शम्बूरण तु मन्त्रकैः ४३
लाजचन्दनसिद्धार्थ भस्मदूर्वाक्षतान्कु शान्
तद्द्रव्यं च समादाय विकिरान्शस्त्रमुच्चरन् ४४
कु शकू र्चं च संगृह्य वर्धन्याज्रस्य विन्यसेत्
तदूर्ध्वे स्थण्डिलं कल्प्य तोयहेमादिकु म्भकैः ४५
वामे तु वर्धनीं चैव पश्चिमानन निश्चितम्
वृषभाय नमश्चैव कु म्भे आसनमर्चयेत् ४६
कु म्भे मूर्तं च विन्यस्य शिवं साङ्गं च पूजये
व्यालासनं नमोत्तं च वर्धन्यां च चलासनम् ४७
पाशुपतास्त्रमूर्तिं च पूर्वध्यानसंयुतम्
ओं ह्रीं श्रीं क्लीं हुं फट् पाशुपतास्त्राय नमः ४८
हृदं च शिरश्चैव शिखा कवचमेव च
नेत्रमस्त्रं षडङ्गं चैव कीर्तितानि क्रमेण तु ४९
तद्बीजानि समादाय अस्त्रमङ्गानि पूजयेत्
इन्द्रादीनां च संस्थाप्य पूर्वादिकलशेषु च ५०
इन्द्राग्निश्च यमश्चैव निरृतिश्चैव वारुणः
वायुश्चैव तु सोमश्च ईश ब्रह्मा च देवता ५१
निरृतौ विष्णु संपूज्य सास्त्रान्तं नाममर्चयेत्
तदन्ते कु म्भवर्धन्यौ वर्धन्यग्रे प्रदक्षिणम् ५२
तन्नालत्सततं तोयं स्रावयेत्तु परिभ्रमः
विज्ञापनं च कर्तव्यं यागरक्षां यथा कु रु ५३
एवं विज्ञाप्य तत्काले पूर्वस्थाने प्रकीर्तितम्
कु म्भे त्वाधारशक्त्यादि स्थिरासनं प्रपूजयेत् ५४
प्रथमावरणादीनि शिवं साङ्गं च पूजयेत्
स्वस्वमन्त्रं समुच्चार्य पूर्वमेव क्रमेण तु ५५
वर्धन्यायां विशेषेण पाशुपतं स्थिरासनम्
अस्त्रमूर्तिं च विन्यस्य वर्धनीं पूजयेद्धृदा ५६
उद्भवो मुद्रया चेति शिव शक्तिरिति स्मृतम्
वर्धन्याङ्गुष्ठमात्रेण कु म्भं मुष्येन संस्पृशेत् ५७
भगलिङ्गं समायोगं भुक्तिमुक्तिप्रदाय च
ततः कु म्भे शिवं पूज्य तत्वमूर्तिं च पूजयेत् ५८
मूलमन्त्रशतं जप्त्वा तद्दशांशं च वर्धनीम्
यज्ञस्यास्य पतिस्वं हि मूर्तिरेषा तवाचला ५९
एष ते ज्ञाननिस्त्रिंशत्तद्गृहाण स्वमायुधम्
एवं विज्ञाप्य सर्वं तु खड्गमन्त्रेण दापयेत् ६०
भवद्यागं जगन्नाथ रक्ष भक्तानुकम्पया
इति विज्ञाप्य कार्यं तु निरोधार्घ्यं यथा कु रु ६१
वायौ गणेशमैशान्यां गुरून्संपूजयेत्ततः
महादेवीं ततः कृ त्वा आधाराधेयमार्गतः ६२
सदाशिवं यजेन्मध्ये शिवबीजमनुस्मरन्
ऐशान्य वर्धनीं न्यस्य मनोन्मन्यास्तु मन्त्रकम् ६३
पूर्वाद्यैशान्तकु म्भेषु अनन्तादींश्च पूजयेत्
स्वस्वमन्त्रैः समभ्यर्च्य गन्धपुष्पादितिर्यजेत् ६४
निवेद्यादीनि कर्तव्यमुपचाराणि सर्वशः
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ६५
समिधा सद्यमन्त्रेण आज्यं वामेन होमयेत्
अघोरेण चरुं हुत्वा लाजादीन्पुरुषं हुनेत् ६६
ईशानेन तिलं हुत्वा शुचीवोहेन सर्षपम्
कदलीफलमस्त्रेण कू श्माण्डेन गुलं हुनेत् ६७
अपूपं पतिमन्त्रेण बीजमुख्येन माषकम्
नालिके रं शिवेनैवं इक्षुखण्डं तथैव च ६८
द्रव्यं प्रति विशेषेण अष्टोत्तरशतावधि
जयादिरभ्याधानं च राष्ट्रभृच्चैव होमयेत् ६९
मिन्दाहुतिं च कू श्माण्डं प्रायश्चित्ताहुतिं चरेत्
अर्माण्येतानि सर्वाणि संपूर्णं कु रु शङ्कर ७०
एवं प्रार्थ्य विशेषेण पूर्णाहुतिमथाचरेत्
तत्काले मूर्तिपान्सर्वान्होमयेत्तु पृथक् पृथक् ७१
तदर्धं वा तदर्धं वा होमयेत्तु क्रमेण तु
प्रायश्चित्तं विना कार्यं पूर्णाहुतिमथाचरेत् ७२
तत्तद्बीजं समादाय तत्तत्कु म्भे सुयोजयेत्
अग्निं विसृज्य विधिवद्यथाशक्तिजपेद्बुधः ७३
एवमेव क्रमेणैव रात्रिशेषं व्यपोह्य च
मुहूर्ते समनुप्राप्ते आचार्यं पूजयेत्ततः ७४
आचार्यः पूजयेत्पश्चान्मूर्तिपान्पूजयेत्ततः
मुहूर्ते समनुप्राप्ते सर्ववाद्यसमाकु लम् ७५
ध्वजादिछत्रपर्यन्तं मुखशब्दसमन्वितम्
वेद्यां स देवमुद्धृत्य आलयं तु प्रदक्षिणम् ७६
देवाग्रे स्थण्डिलं कृ त्वा क्रमेण स्थापयेद्गुरुः
रक्षाबन्धं विसृज्याथ आसनावरणं न्यसेत् ७७
अष्टत्रिंशत्कलान्यासमातृका न्यासमेव हि
श्रीकण्ठादीनि विन्यस्य गोलकान्यासमुच्यते ७८
मन्त्रन्यासं तदन्ते तु कु म्भान्बीजेन योजयेत्
वर्धन्यां बीजमादाय शक्तिस्थाने सुयोजयेत् ७९
अनन्तादीनां च कु म्भेषु तत्तद्बीजं च योजयेत्
तत्तत्कु म्भजलैश्चैव तत्तत्स्थानेऽभिषेचयेत् ८०
प्राणप्रकृ तियोगेन जप्त्वा रूपं विचिन्तयेत्
गन्धपुष्पैः समभ्यर्च्य बीजमुख्येन बुद्धिमान् ८१
पायसं च निवेद्याथ ताम्बूलं दापयेत्ततः
नित्यार्चने यथानित्यं तथा नित्यार्चनं कु रु ८२
चतुर्थदिवसे किन्तु स्नपनं सम्यगाचरेत्
शान्तिहोमं ततः कृ त्वा प्रभूतहविषं ददेत् ८३
एवं संप्रोक्षणं प्रोक्तं प्राणिनां भोगमोक्षदम्
इति स्वायम्भुवे प्रतिष्ठातन्त्रे संप्रोक्षणविधिपटलः