३९ विमानस्थापनम्

अथ वक्ष्ये विशेषेण विमानस्थापनं परम्
सर्वसिद्धिप्रदं प्रोक्तं सर्वदुःखनिवारणम् १
सर्वलक्षणसंयुक्तं विमानं संप्रकीर्तितम्
हेमराजतताम्रैर्वा निलया चेष्टके न वा २
पादपेनैव वा कु र्याद्विमानं लक्षणान्वितम्
उत्तरायनकाले तु शुक्लपक्षे शुभे दिने ३
दक्षिणायनकाले वा विमानस्थापनं चरेत्
सुवारेषु सुमुहूर्ते तु स्थापनं सम्यगाचरेत् ४
निश्चित्य दिवसात्पूर्वे सप्तमे पञ्चमेऽपि वा
पूर्वोक्तविधिना चैव कारयेदङ्कुरार्पणम् ५
भूसुरान्भोजयेत्तत्र वासशुद्धिं समाचरेत्
मन्दिरस्य तु पूर्वे वा दक्षिणे पश्चिमेऽपि वा ६
उत्तरे च यथाभोग्यं मण्डपं कल्पयेत्सुधीः
मण्डपस्य तु तन्मध्ये वेदीं तत्र प्रकल्पयेत् ७
वेदिलक्षणवत्कृ त्वा तत्पूर्वादिचतुर्दशि
तन्त्रपादसमुत्सेधं दर्पणोत्तरसन्निभम्
उपदेविसमायुक्तं सर्वलक्षणसंयुतम् ८
चतुरश्रं च कु ण्डं च पूर्वभागे तु कल्पयेत्
सुषुष्टिकरमारभ्य शरहस्तान्तविस्तृतम् ९
त्रिमेखलसमायुक्तसर्वलक्षणसंयुतम्
यागोपकरणं सर्वं पूर्वमेव सुभाषितम् १०
एवं सर्वं समापाद्य शुद्धिं कृ त्वा विचक्षणः
तत्तद्विमानमूर्तीनां पूर्वादीनि क्रमेण तु ११
नेत्रद्वययुते जक्षे कारयेदक्षिमोक्षणः
हेमसूचिप्रभाहाराभ्यां हेमपात्रे मधुं क्षिपेत् १२
त्र्यङ्केन मन्त्रेन तत्र मण्डलमालिखेत्
मध्वाज्यादीनि सर्वाणि पूर्वोक्तविधिना दृशेत् १३
जलाधिवासनं कु र्यात्तत्तदग्रे विशेषतः
हस्तमात्रेण विस्तारं स्थण्डिलं तु पृथक्पृथक् १४
प्रतिबिम्बयुतं तत्र स्थापयेत्स्थण्डिलोपरि
त्रिपाद्युपरि कु म्भानि पूर्वादियुगदिक्षु च १५
तत्तत्पृष्ठे तु हैमेन नालात्तु वा संबन्धयेत्
तन्नालार्क तत तोयं स्रावयेद्दर्पणोपरि १६
तत्तद्दिशासु मूर्त्तिनां नेत्रोन्मीलनमाचरेत्
रक्षाबन्धादिवासं च बिम्बं प्रति विशेषतः १७
जलाधिवासनं चैव एकबिम्बे सुयोजयेत्
जलाधिवासनं ह्येवं मण्डपं तु प्रवेशयेत् १८
समरीयपदे सम्यग्वास्तुहोमं समाचरेत्
पर्यग्निकरणं कु र्यात्पुनः पुण्याहमाचरेत् १९
कर्मं प्रति विशेषेण संपूजितक्रमेण तु
स्वर्णादिसूत्रसंग्राह्य तत्तद्धस्ते च बन्धयेत् २०
सूच्यग्रे बन्धयेद्धीमान्गर्भमालाभिरावृतम्
भोमाब्दिस्थूपिपर्यन्तं नव वस्त्रेण वेष्टयेत् २१
तद्बिम्बा त्वेष्टयेद्धीमान्येनं कल्पयेद्धृदा
मखमण्डपवेद्यूर्ध्वे स्थण्डिलं पूर्ववत्कु रु २२
अधाराधेयमार्गेण आवाहनं च क्रमेण तु
सदाशिवं यजेन्मध्ये वसान्तु मनोन्मनी २३
परितोष्टौ घटं न्यस्य वस्त्रकू र्चादिसंयुतान्
चण्डरुद्रो महावेगो विबुधो विमलोत्तमः २४
विश्वरूपो विरूपाक्षो भूतरूपोव्यवाहनः
एतान्विमानपालाश्च पूर्वादिकलशान्न्यसेत् २५
स्कन्दकु म्भं न्यसेन्मध्ये पाध्वौ शौचसंस्थितौ
विन्यस्त्वावधिकु म्भानि तत्पूर्वाष्टदिक्षु च २६
स्कन्द चैव कु मारं च सुब्रह्मण्यं तथैव च
कार्तिके यं च सेनां च षण्मुखं शिखिवाहनम् २७
सेनापतिं च इत्येतत्पूर्वादिकलशान्न्यसेत्
महेश्वरं तु मध्ये च उमाकु म्भं तु शङ्करे २८
अच्युते अनन्तमूर्तिस्तु चक्रपाणि जनार्दनः
पुरुषः पुरुष्टुतश्चैव गोविन्दो वित्तनायकः २९
विधिकु म्भं न्यसेन्मध्ये आवाहनादिक्रमेण तु
महालक्ष्मि सरस्वत्यौ दक्षिणे दक्षिणस्थितौ ३०
तत्पूर्वाद्यष्टकु म्भेषु ++ रं च पितामहः
प्रजापतिं च धातारं सृष्टिमूर्तिं चतुर्मुखम् ३१
अजं हिरण्यगर्भं च विन्यसेत्तु क्रमेण तु
ध्यायेद्गन्धपुष्पं च स्वस्वमन्त्रैश्च पूजयेत् ३२
सौरादिगुरुपूजान्तं तत्तत्पूर्वे यथा कु रु
एवं संपूज्य विधिवदुपदेशस्य मार्गतः ३३
ततो होमं प्रकर्तव्यमग्निकार्योक्तमाचरेत्
सदाशिवं यजेन्मध्ये परिवारगणैः सह ३४
अष्टोत्तरशतं वापि तदर्धं वापि होमयेत्
होमद्रव्याणि सर्वाणि षडङ्गे ब्रह्मपञ्चकैः ३५
पालाशखदिरं चैव शमी श्रीपत्रमेव च
अपामार्गं च कर्तव्यं तत्तन्मूले क्रमेण तु ३६
पूजयेद्गन्धपुष्पाद्यैस्तत्तद्ध्यानमनुस्मरन्
संहारमुद्रयादाय कु म्भमध्ये सुयोजयेत् ३७
परिवारान्समादाय परिवारघटान्न्यसेत्
तत्तद्दिशासु मूर्त्तीनां सन्निधानाद्माहुतिम् ३८
तत्तध्यानमनुस्मृत्य पूर्वसङ्ख्या च होमयेत्
सर्वद्रव्यं च सम्मिश्रं पूर्णाहुतिमथाचरेत् ३९
निरोधार्घ्यं ददेत्पश्चान्नैवेद्यं च दापयेत्
तत्तन्मन्त्रक्रमेणैव अष्टोत्तरशतं जपेत् ४०
एवं जागरणं रात्रौ प्रभाते विमले शुभे
आचार्यः सुप्रसन्नात्मा सोष्णीषश्चोत्तरीयकः ४१
आत्मदैवतमभ्यर्च्य सर्वालङ्कारशोभितः
प्रायश्चित्तं ततो हुत्वा पूर्णाहुतिमथाचरेत् ४२
स्विष्टमग्नेतिमन्त्रेण हुत्वाग्निं तु विसर्जयेत्
तत्काले सर्ववाद्यैश्च मुखशब्दसमन्वितम् ४३
कु म्भानुद्धृत्य शिरसा वासयामप्रदक्षिणम्
षडध्वन्यासकं कार्यमधिष्ठानादिकं न्यसेत् ४४
मन्त्रन्यासमिदं कार्यं सतां पूजा समाचरेत्
रक्षाबन्धं विसृज्याथ निरोधार्घ्यं ददेद्गुरुः ४५
मुहूर्ते समनुप्राप्ते तत्तत्स्थानेऽभिषेचयेत्
गुरुपदिष्टमार्गेण अन्यदेवान्सुपूजयेत् ४६
पायसं च निवेद्याथ ताम्बूलं च निवेदयेत्
इति स्वायम्भुवे विमानस्थापनपटलः
षडध्वान्यासम्
ओं कालाग्नये नमः । हाटकाय रुद्राय इति
मध्ये । कपालीशाय अजाय बुधाय वज्रदेहाय प्रमर्दाय
विभूतये अव्ययाय शास्त्रे पिनाकिने त्रिदशाधिपाय इति
पूर्वे । अग्निरुद्राय हुताशनाय पिङ्गलाय खादकाय हराय
ज्वलनाय दहनाय बभ्रवे भस्मान्तकाय क्ष हुन्तकाय इति
आग्नेय्याम् । याम्याय मृत्यवे धात्रे वियोक्त्रे संयोक्त्रे
धर्माय पदये इति
दक्षिणे । निरृतये मरणाय भन्त्रे क्रू राधिये भयानकाय
ऊर्ध्वके शाय विरूपाक्षाय धूक्राय तायाय दम्ष्ट्रिणे इति
निरृते । बलाय अतिबलाय पाशहस्ताय अतिबलाय
श्वेताय जयभद्राय दीर्घहस्ताय जलान्तकाय मेघनादाय इति
पश्चिमे । लाघवे वायवेगाय सूक्ष्माय तीक्ष्णाय
अक्षान्तकाय पञ्चान्तकाय पञ्चशिखाय कपर्दिने
मेघवाहनाय इति वायव्ये । निशान्तकाय कू पवह्न्ये
धन्याय सौम्यदेहाय जटाधराय लक्ष्मीधराय रक्तधाराय
श्रीधराय प्रसन्नाय प्रकाशाय इत्युत्तरे । विद्याधिपाय
ईशानाय सर्वज्ञानाय ज्ञानभुजे वेदपारगाय सुरेशाय शर्वाय
ज्येष्ठाय भूतपालाय बलिप्रियाय इति ईशाने । वृषाय
वृषधराय अनन्ताय क्रोधनाय मारुताशनाय ग्रसनाय
उदम्बरीशाय फणीन्द्राय वज्राय दंष्ट्राय इत्यधोभागे ।
शंभवे विभवे गणाध्यक्षाय त्र्यक्षाय त्रिदशेश्वराय
सिंहवाहनाय विवाहाय नभवे लिप्सवे त्रिलोचनाय इति
ऊर्ध्वे । वीरभद्राय भद्रकाल्यै इति तदूर्ध्वे इति
अष्टाधिकशतादि ओं खड्गहस्त सक्ष्म्यरि ऊर्ध्वस्थे
पञ्चपृथिवीगताः । अमरेशाय प्रभाशाय नैमिशाय
पुष्कराय आषाढे डिण्डिने खण्डने भारभूतये लकु लीश्वराय
इति अप्तत्वे हरिश्चन्द्राय श्रीशैलाय जल्पेशाय अमृकै
+++ राय मध्यमेशाय महाकालाय के दाराय भैरवाय
इति अग्नितत्वेऽगयाय कु रुक्षेत्राय नखाय नखलाचय
विमलेशाय अट्टहासाय महेन्द्राय भीमके श्वराय इति
वायुतत्वे । वस्त्रापथाय कु रिकोटये अविमुक्ताय
महालयाय गोकर्णाय भद्रकर्णाय सुवर्णाक्षाय स्थाणवे इति
आकाशतत्वे ।
छगण्डाय द्विरण्डाय महाकोटाय मण्डलेश्वराय कालज्ञाय
शङ्कुकर्णाय स्थूलेश्वराय स्थलेश्वराय इत्यहङ्कारतत्वे ।
पैशाचाय राक्षसाय गान्धर्वाय ऐन्द्र्याय सौम्याह प्राजेशाय
ब्रह्मणे इति मनस्तत्वे । अकृ ताय कृ ताय भैरवाय ब्रह्मा
वैष्णवाय कौमाराय भौमा श्रीकण्ठाय इति
प्रकृ तितत्वे । इत्येवं षट्पञ्चाशत् अप्तत्वादिप्रकृ त्यं
सप्ततत्वेषु श्रीवामाय भीमाय उग्राय भवाय ईशानाय
एकवीराय इति पुरुषतत्वे । जोतिश्याय संवर्त्ताय इति
विद्यातत्वे । लकु लीश्वराय पञ्चान्तकाय इति कालतत्वे ।
एकवीराय शिखेदाय माहाद्युतये वामदेवाय हलो भवाय
एकपिङ्गेक्षणाय भुवनेश्वराय ईशानाय अङ्गुष्ठमात्राय इति
मायातत्वे । वामायै जेष्ठायै रौद्र्यै काल्यै कलविकरण्यै
बलविकरण्यै बलप्रमथन्यै सर्वभूतदमन्यै मनोन्मन्यै इति
शुद्धविद्यातत्वे । अनन्तेशाय ब्रह्मभागे सूक्ष्माय
शिवोत्तमाय एकनेत्राय एक रुद्राय त्रिमूर्त्तये श्रीखण्डाय
शिखण्डिने सदाशिवाय इति विष्णुभागे । निवृत्यै
प्रतिष्ठायै विद्यायै शान्त्यै शान्त्यतीयायै इण्डिकायै
दीपिकायै रोचिकायै मोचिकायै ऊर्ध्वगामिन्यै व्यापिन्यै
व्योमरूपिण्यै अनन्तायै अनाथायै अनाश्रितायै इति
। रुद्रभागे । ओं हां शिवतत्वाय नमः । ओं हां
शिवतत्वाधिपतये शिवाय नमः । शक्तितत्वाय शक्तिमते
सदाशिवतत्वाय अजेशाय ईश्वरतत्वाय चतुराननाय
विद्यातत्वाय कल्याणाय मायातत्वाय विशाक्षाय
कालतत्वाय के तुध्वजाय कलातत्वाय अनलाननाय
विद्यातत्वाय महानादिने नियतितत्वाय मेघजाय
रागतत्वाय नादाय पुरुषतत्वाय प्लवाय प्रकृ तितत्वाय
पितामहाय बुद्धितत्वाय बुध्यै अहङ्कारतत्वाय अहङ्कृ ते
मनस्तत्वाय संकल्पाय शृतितत्वाय पनाय अव्यक्ततत्वाय
महानादिने नियतितत्वाय घनानान्ताय चक्षुस्तत्वाय
कृ णीभुजे जिह्वातत्वाय समादानाय नासातत्वाय भद्रभाय
वाक्तत्वाय विलुम्बकाय पाणितत्वाय महावक्त्राय
पादतत्वाय प्रकाशाय पायुतत्वाय सर्वज्ञाय उपस्थतत्वाय
व्योराय शब्दतत्वाय सूक्ष्माय स्पर्शतत्वाय नादाय
रूपतत्वाय बलवत्तराय रसतत्वाय भानुमते गन्धतत्वाय
जयदाय आकाशतत्वाय गन्धसंज्ञकाय वायुतत्वाय
मातरिश्वरन्ने अग्नितत्वाय षान्तिपथ अप्तत्वाय जलेशाय
पृथिवितत्वाय श्रीकण्ठाय नमः ।
इषत्त्रिंशत्व ओं हां व्योमव्यापिने नमः ।
व्योमरूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय
अनाश्रिताय शाश्वताय योगपीठसंस्थिताय नित्यं योगिने
ध्यानहराय ओं नमः शिवाय ईशानमूर्धाय तत्पुरुषवक्त्राय
अघोरहृदयाय वामदेवगुह्याय सद्योजातमूर्तये ओं
नमो नमः गुह्यादि गुह्याय गोप्त्रे अनिधना निधनाय
सर्वविद्याधिपाय सर्वगेयागात्तिधि कृ ताय ज्योतिरूपाय
परमेश्वरपराय चेतनाचेतना । अचो अचेतना व्योमि-
न्व्योमिन्व्यापिन्व्यापिन्नरूपिनरूपिन् रूपिन्रूपिन्प्रथम
प्रथमस्तेजस्तेज ज्योतिर्ज्योति अरूप अनग्नि अधूम अभस्म
अनादे नाना नाना धू धू धू धू ओं भूः ओं भुवः ओं स्वः ।
अनिधन निधन निधनोद्भव शिव शर्वपरमात्ममहेश्वर
महादेव तद्भावेश्वर महातेज योगाधिपतये मुञ्चमुञ्च प्रथम
प्रथम शर्व शर्व भव भव भवोद्भव सर्वभूतसुखप्रद
सर्वसान्निध्यकर इति ।
ब्रह्मभागो ब्रह्म विष्णु रुद्र पर अनर्चितानर्चिता अस्तुतास्तुत
पूर्वस्थित पूर्वस्थित साक्षि साक्षि तुरु तुरु पतङ्ग पतङ्ग
पिङ्गपिङ्ग ज्ञान ज्ञान इति । विष्णुभागे शब्द शब्द सूक्ष्म
सूक्ष्म शिव सर्व सर्वदा सर्वात्मन् ओं नमोन्नम नमः
शिवाय शिवायै नमः । इति रुद्रभागे ओं हां क्षं लं हम् ।
सं षं शम् । लं रं यम् । मं भं बं फं पम् । नं धं दं थं तम्
। णम् । डं ढं ठे टं ञं झं जं छं चं डं घं गं खं कम् इति
ब्रह्मभागे अः अं औं ओं ऐं एं लॄं लृं ॠं ऋं ऊं उं ईं इं आं
इति विष्णुभागे अं इति रुद्रभागे ओं हं सद्योजाताय नमः
ओं हिं वामदेवाय नमः । ओं हुं अघोराय नमः । ओं हें
तत्पुरुषाय नमः । ओं हों ईशानाय नमः । ओं हां हृदयाय
नमः ।
ओं हीं शिरसे नमः । ओं हूं शिखायै नमः । ओं हैं
कवचाय नमः । ओं हौं नेत्राय नमः । ओं हः अस्त्राय
नमः । ओं हों शिवाय नमः । ओं ह्लां निवृत्तिकायै नमः ।
ओं ह्वीं लं प्रतिष्ठाकलायै नमः । ओं हुं विद्याकलायै नमः
। ओं ह्यैं शान्तिकलायै नमः । ओं हौं शान्त्यतीतकलायै
नमः । ओं हां बिन्दुमूर्तये नमः । इति कलामन्त्राः ।