३८ स्थूपिप्रतिष्ठाविधिपटलः

अथ वक्ष्ये विशेषेण मूर्ध्नेष्टकाविधिं शृणु
प्रासादस्याग्रतो वापि ईशाने चोत्तरेऽपि वा १
मण्डपं वा प्रपां वापि लक्षणोक्तविधानतः
लोहजं दारुजं वापि स्थूपिस्तम्भं विशेषतत् २
तत्प्रमाणं च कर्तव्यं पूर्वमेव सुभाषितम्
इष्टिकाया प्रमाणं च तत्प्रमाणेन बुद्धिमान् ३
शालिपिष्टमयेनाथ लेखयेदक्षराणि तु
यकारं पूर्वभागे तु रकारं दक्षिणे तथा
लकारं पश्चिमे भागे वकारं चोत्तरे तथा ४
विकारं मध्यमे न्यस्त्वा ओं कारादिसमन्वितम्
एवमेव क्रमेणैव तदन्ते शिल्पिमोचनम् ५
प्रथमं स्थानशुद्धिं च अङ्कुरं तु द्वितीयकम्
सायह्नसमये काले क्षेत्रमृद्गृह्य बुद्धिमान् ६
दशनाड्यधिकं तत्र बीजनिर्वाणमुच्यते
शेषकर्माणि सर्वाणि पूर्वमेव क्रमेण तु ७
अपरे दिवसे चैव कर्तव्यं तु यथाविधिः
तद्दिने वा प्रकर्तव्यं तत्कर्म समारभेत् ८
विघ्नेशयजनं पूर्वं सकल्प्यमिति बुद्धिमान्
पुण्याहं वाचयित्वा तु पञ्चगव्यं च साधयेत् ९
अष्टमृत्साधनं चापि कषायोदकमेव च
तदन्ते स्थूपिकीलं च इष्टिकायां च संग्रहेत् १०
दण्डशुद्धिं ततः कृ त्वा ततो ग्रामप्रदक्षिणम्
द++ डि द्विगुणं वापि जलमध्ये निवेशयेत् ११
तिरे पुण्याहमेवोक्तं शालिभिस्थण्डिलद्वयम्
तदूर्ध्वौ नवसङ्ख्यैश्च कलशान्पूजयेत्ततः १२
मध्ममे मूर्तिकु म्भं तु आवृतं परिवारकैः
गङ्गा च यमुना चैव नर्मदा च सरस्वति १३
सिन्धु गोदावरी चैव कावेरी ताम्रपर्णिका
स्वस्वमन्त्रैः समभ्यर्च्य गन्धपुष्पादिभिः क्रमात्
तद्बिम्बं तु समुद्धृत्य जलतीरे निवेशयेत् १४
तन्मन्त्रं च समनुस्मृत्य स्थूपिकालेऽभिषेचनम्
इष्टिकायां क्रमेणैव अभिषेकं पृथक्पृथक् १५
वस्रैरावेष्ट्य यत्नेन आलयं तु प्रवेशयेत्
वेदिमद्धे विशेषेण शाल्यादिभिरलङ्कृ तम् १६
तन्मध्ये मूर्तिकु म्भं तु आवृतं लोकपालकैः
पिधानवस्त्रकू र्चाढ्यान्गन्धामपरिपूरितान् १७
हेमरत्नविनिक्षिप्ता कू र्चवस्त्रेण संयुतान्
गन्धपुष्पैः समभ्यर्च्य तत्तध्यानमनुस्मरन् १८
इष्टिकां स्थूपिकीलं च रक्षाबन्धं पृथक्पृथक्
कु म्भस्य वामपार्श्वे तु कीलं तत्रैव विन्येत् १९
उत्तराग्रसमायुक्त पूर्वाग्रं चैव कल्पयेत्
कु म्भस्य दक्षिणे पार्श्वे इष्टिकां विन्यसेत्क्रमात् २०
मण्डपं पूजयेत्पश्चात्सौरादि गुरुपूजयेत्
++द्यध्ययनं कु र्याद्ब्राह्मणान्वेदपारगान् २१
स्थण्डिकायां न्यसेदूर्ध्वे नवरत्नं च संग्रहेत्
सोमं ईशानयोर्मध्ये स्थापयेत्स्थण्डिलोपरि २२
आकारादीनि मन्त्राणि मध्यमादिक्रमेण्यसेत्
कु ण्डे वा स्थण्डिले वापि कल्पयेद्देशिकोत्तमः २३
तुर्यश्राण्यथ वृत्तानि पूर्वाद्यैशान्तमाचरेत्
ततो होमं प्रकर्तव्यमग्निकार्योक्तमार्गतः २४
उदुम्बरवटाश्वत्थप्लक्षन्य ++जस्विह
पूर्वादिषु प्रकर्तव्यं पृथिव्यादीनि मन्त्रकैः २५
पार्थिवादीनि तत्वानि पञ्चविंशति होमयेत्
पूर्णाहुतिः प्रकर्तव्यं प्रायश्चित्तमथाचरेत् २६
प्रभाते विमले धीमान्नक्षत्र +++ ते
सुमुहूर्त्ते सुलग्नैश्च तत्काले च विशेषतः २७
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
कु म्भानुद्धृत्य शिरसा बाह्यधामप्रदक्षिणम् २८
इष्टिकां स्थूपिकीलं च परिचारः समा ++
++ र्ववाद्यसमायुक्तं सर्वभक्तजनैः सह २९
स्वस्तिवाचकसंयुक्तं मुखशब्दसमाकु लम्
जयशब्दसमायुक्तं प्रदक्षिणमथाचरेत् ३०
शिखरोर्ध्वे तु संस्थाप्य पुण्याहं तत्र कारयेत्
अनन्या ++ पेत स्थापयेदिष्टिकां क्रमात् ३१
पञ्चब्रह्ममनुस्मृत्य पूर्वादि स्थापयेद्गुरुः
पृथिव्यादीनि तत्वानि मध्यादीन्विन्यसेत्ततः ३२
मध्यमे नवरत्नानि मध्यमादिक्रमेण तु
मणिर्मरकतं चैव वैडूर्यमिन्द्रनीलकम् ३३
मुक्ता स्फटिकपद्मं च वज्रं चैव प्रवालकम्
ईशान्यस्य कलान्यस्त्वा स्थूपिं तत्रेव विन्यसेत् ३४
कु म्भाद्बीजं समादाय स्थूप्यग्रे विन्यसेद्बुधः
तत्तत्कु म्भजलैश्चैव तत्तत्स्थानेऽभिषेचयेत् ३५
रक्षाबन्धं विसृज्याथ गन्धमाल्यानुलेपनम्
पायसं च निवेद्याथ ताम्बूलं च निवेदयेत् ३६
धूपदीपसमायुक्तं स्तोत्रमङ्गलसेवितम्
एवं क्रमेण विधिना स्थूपिं तत्रेव विन्यसेत् ३७
द्वितला त्रितलान्तं तु अवद्दीपं बहिः क्रमात्
एकभौमे तु कर्तव्यं शिखरोर्ध्वे द्विभा + यः ३८
पादायामसमं वापि अधिष्ठानोदयं तु वा
अथवा पूजमानं तु उत्सेधं परिकीर्तिदम् ३९
स्थूपिमूलविशालं तु पादमूलविशालकम्
अग्रमङ्गलविस्तारमानुपूज्यात्कृ शक्रमात् ४०
चतुरश्रं भवेन्मूलं अष्टाश्रमध्यमं भवेत्
ऊर्ध्वे संवृत्तमेवं स्याच्छिखीपादमधोन्यसेत् ४१
विस्ताराद्विगुणायामं विस्तारसमविस्तृतम्
आयामं पञ्चभागे तु एकांशं सनमुच्यते ४२
तद्वयं तु समं योज्य पूर्वाग्रं चोत्तराग्रकम्
पञ्चमूर्ति समोपेतं गन्ध्याद्येरर्चयेत्क्रमात् ४३
इति स्वायम्भुवे प्रतिष्ठातन्त्रे स्थूपिप्रतिष्ठाविधिपटलः