३७ प्रवेशबलिपटलः

अथ वक्ष्ये विशेषेण प्रवेशबलिरुच्यते
यक्षराक्षसभूताश्च पिशाचा ब्रह्मराक्षसाः १
कालिकाश्च शरल्यश्च ससङ्घान्भैरवादयः
ग्रामादिजीर्णवस्त्रानि न्यस्थाने स्थितस्तितः २
तत्स्थाने प्राप्य सर्वाश्च तृप्तिनामुच्यते गुरुः
ग्रामऋद्धिकरं शान्तं नृपराष्ट्रसमृद्धिदम् ३
तत्तत्स्थानसमृद्धिं च पुत्रदारसुखप्रदम्
तस्मात्सर्वप्रयत्नेन तद्गणस्य बलिं ददेत् ४
भूपरिग्रहकाले च धामारम्भस्य कालके
प्रतिष्ठादिषु कर्तव्यं महामारी प्रकोपने ५
निश्चित्यदिवसात्पूर्वे शुक्रवारसमन्वितम्
कृ ष्णपक्षे विशेषेण चान्यपक्षे बलिं कु रु ६
निश्चित्यं दिवसे चैव मध्यरात्रौ विशेषतः
यिष्टिकां रजनीचूर्णं शङ्खं चैव पृथक्पृथक् ७
इन्द्रस्थानेऽष्टकोणं च आग्नेय्यां तु त्रिवृत्तकम्
याम्यायां धर्मकोणं च नैरृत्यां सूर्यकोणकम् ८
वारुण्यां विश्च कोणं च वायव्यां षोडशं भवेत्
सौम्यायां स्मृतिकोणं च ऐशान्या द्विगुणं भवेत् ९
तच्चूर्णर्णा+क्तिना चैव पूर्वादिक्रमशो न्यसेत्
ब्रह्मस्थाने महालक्ष्मीं पूजयेत्तु विशेषतः १०
पूर्वभागे तु यक्षाणां रक्तान्नं लाजसक्तु कम्
अजकुक्कुटरक्तं च मृत्पात्रे पूरयेत्सुधीः ११
रक्तपुष्पसमायुक्तं सर्ववाद्यसमन्वितम्
धूपदीपसमायुक्तं बलिकाले तु घोषयेत् १२
आचार्यो मौनमास्थाय उपदेशस्य मार्गतः
ओं ज्वलनेत्रेभ्यो ऊर्ध्वके शेभ्यो महाबलपराक्रमो
यक्षेभ्यो बलिं प्रयच्छस्व १३
तदृत्तं तर्पयेत्कार्यं तन्मन्त्रं च स्मरन्गुरुः
त्रि पञ्चसप्तधा वापि कराग्रेण तु तर्पयेत् १४
इन्द्रस्थाने तु यक्षाश्च मुच्यन्ते पूर्वताग्रके
इत्युत्सृज्य ततः कार्यमग्निस्थाने प्रवेशयेत् १५
लाजचूर्णं हरिद्रं च रक्तपुष्पं मधुप्लुतम्
अपूपं चरुसंमिश्रं तन्मध्ये बलिरिष्यते १६
पूर्ववद्रक्तमापूर्य तर्पणं च यथा कु रु
ओन्नमो भगवते चण्डकोपिने महाराक्षसे बलिं प्रयच्छस्व
१७
राक्षसान्प्रतितृप्त्यर्थं शेषं पूर्ववदेव हि
पर्वताग्रे विशेषेण तृप्तिनामुच्यते गुरुः १८
यम स्थाने तु संप्राप्य भूतानां बलिरुच्यते
तुलसी पद्मपुष्पं च अपूपं तिलमिश्रकम् १९
तद्रक्तं चरुमिश्रं च तत्पात्रेण सुपूजयेत्
उक्त कर्म क्रमेणैव तर्पणं च बलिं कु रु २०
ओन्नमो भूतेभ्यो मेघतुल्येभ्यो महाबलपराक्रमो
भूतानां बलिं प्रयच्छस्व
उत्सृज्य भूतैः सर्वेषां पर्वताग्रे विशेषतः २१
नैरृते स्नानदेशे तु पिशाचाश्च बलिं ददेत्
वराहरुधिरं मासे कुक्कुटं चरुमिश्रकम् २२
रक्तपुष्पं च लाजं च धूपधूम्रेण योजयेत्
तद्रक्तपात्रमापूर्य सर्ववाद्यसमाकु लम् २३
ओं नमो सर्वपिशाचेभ्यो कृ शोदरेभ्यो दीर्घरूपेभ्यो
सर्वपिशाचेभ्यो बलिं प्रयच्छस्व
इदं दत्व बलिं कार्यं तर्पणं च यथा कु रु १४
शेषं पूर्वोक्तवत्मस्याद्वनमध्ये विसृज्य च
ब्रह्मराक्षसवारण्ये तद्बलिं चाधुनोच्यते १५
अपूपसत्तुकं चैव रजनीलाजपुष्पकम्
तद्रक्तं पूरयेत्पात्रे तद्द्रव्यं चरुमिश्रकम् १६
सर्ववाद्यसमायुक्तं घण्टारवसमन्वितम्
सर्वपुष्पैः समभ्यर्च्य धूपधूम्रेण योजयेत् १७
तन्मन्त्रेण बलिं कार्यं तर्पणं च क्रमेण तु
ओं दीर्घदम्ष्ट्राय महोदराय ससङ्घान्ब्रह्मराक्षसां बलिं
प्रयच्छस्व १८
समुद्रमध्ये विशेषेण ततो यात्रां प्रयुज्यते
वायव्ये कालिकाश्चैव तद्बलिश्चैव कारयेत् १९
सर्वद्रं चरुमिश्रं पात्रे रक्तेन पूरयेत्
सर्वपुष्पैश्च जालैश्च विकिरेत्समलङ्कृ ते २०
सर्वं पूर्वोक्तवत्कृ त्वा चण्डवाद्यसमन्वितम्
ओन्नमो चण्डे शूलकपाली कालीसनसङ्घां स्वधां बलिं
प्रयच्छस्व २१
उद्वास्य वनमध्ये स्यात्कालीनां तृप्तिना सह
सौम्यस्थाने शरल्यश्च तत्क्रियां बलिरुच्यते २२
वराहरुधिरं चैव कदलीफलसंयुतम्
चरुलवणसंयुक्तं लड्डुकं च विमिश्रकम् २३
मिश्रपुष्पसमाकीर्णं पात्रे तद्रक्तमानयेत्
बलिं तर्पणकार्यं च पूर्वमेव सुभाषितम् २४
ओं द्विमुखी दीर्घरूपेभ्यो क्रू रदम्ष्ट्रेभ्यो शरल्यां बलिं
प्रयच्छस्व
शून्यस्थाने समुद्वास्य शरल्यां तृप्तिना सह २५
ईशानदेशमासाद्यभैरवस्य बलिं ददेत्
सर्वरक्तसमायुक्तं सर्वद्रव्यं च मिश्रकम् २६
सर्वपुष्पं च लाजं च अपूपं तिलमिश्रकम्
तद्रव्यं विकिरेद्व्योमे ततो भूमौ बलिं कु रु २७
ओन्नमो वटुकादिभैरवेभ्यो नवेभ्यो नवेभ्यो नग्नरूपेभ्यो
पाताले बलिं प्रयच्छस्व
समुद्रमध्ये उद्वास्य ससङ्घान्भैरवान्सह २८
अथवान्यप्रकारेण किञ्चिद्भेदं विथीयते
महीषां च गजां प्रोक्ता वराहाहाः कुक्कुटास्रताम् २९
अर्जां चैव तु कर्तव्यं स्थानं प्रति विशेषतः
प्रवेशबलिरित्युक्तमाचार्यः शिष्य एव वा ३०
अजादिरक्ता भावश्चेज्जले कु ङ्कुममिश्रकम्
अपूपां च कू श्माण्डखण्डं च रजनी मिश्रबुद्धिमान् ३१
++ राक्षोघ्नहोमं पश्चात्तु दिशाहोममतः परम्
भूसुरान्भोजयेत्तत्र सर्वकर्मसमाचरेत् ३२
इत्युतरस्वायम्भुवे प्रवेशबलिपटलः