चन्द्रार्चनं प्रवक्ष्यामि निर्मित्तं निधनेश्वरम्
वश्यार्थं च जयार्थं च लोकानुग्रहकारणम् १
अष्टपत्रदलं वापि चक्रमेव विधीयते
शैलजं लोहं चैव चन्द्रबेरं च निर्मितम् २
पूर्वास्यः पश्चिमास्यो वा स्थापयेन्निधनेश्वर
मण्डूकं कच्छपं वापि तन्मध्ये विन्यसेद्बुधः ३
षडुत्थमासनं प्रोक्तं मध्ये च चन्द्रमूर्तिनम्
प्रागारा +++ दौ रोहिणीं कृ त्तिकां तथा ४
रेवती भरणी चैव रात्रि आर्द्रा तथै++
++ चैव कला चैव पूर्वादिदिक्षु योजयेत् ५
सूर्यं चैव बुधश्चैव गीष्पतिं भार्गवं न्यसेत्
आग्नेयादिषु +++ कर्णिका मूलमाहृतः ६
अङ्गारको शनिं चैव राहुके त्वितरं भवेत्
पूर्वादिलोकपालांश्च यथास्थाने न्यसेत्क्रमात् ७
मूर्तिमन्त्रमनुस्मृत्य मूर्तिमावाह्य देशिकः
रोहिणी कृ त्तिका +++ दक्षिणे न्यसेत् ८
सूर्यपूजावसाने तु चन्द्रपूजा विधीयते
चन्द्रपूजावसाने तु शिवपूजा विधीयते ९
शिवपूजावसाने तु महेशादीनि पूजयेत्
एककालं द्विकालं वा पूजये तु यथाविधि १०
स्वयः प्रधानं कर्तव्यमुत्सवादिशिवोक्तवत्
सा गञ्चे तु विशेषेण परिवारक्रमेण तु ११