वृत्तमध्ये यथायोग्यं तत्तत्कर्मबलिमाचरेत्
अथातः संप्रवक्ष्यामि बलिदानं च विष्टरम् १
प्राकारदुर्गहर्म्यं च सामान्यं पूर्वमुच्यते
द्वारादिबलिपीठान्तं सर्वत्र परिकल्पयेत् २
पुष्कलं सौख्यकं चैव श्रीकरं च व ततः परम्
द्वारे वाहने चैव महापीठस्थभास्करे ३
पुष्कलं चिति विख्यातं सौख्यकं च ततर्चूर्णम्
++++++++++ महापीठे च सौख्यदम् ४
वृषादिन्द्रादिकोपेतं सौभाग्यं चेति कथ्यते
वज्रादिसहितं चैतच्छ्रीकरं त्विति विद्यते ५
एतत्सामान्यस्वयम्भुं दैविकं चैव आऋर्वं गाणवं तथा
मानुषं चैव पञ्चैते पञ्चधा परिकीर्तितम् ६
भूतादीन्प्रथमस्यैव +++++++++++
त्रितीयस्यैव दुर्गादीन् चतुर्थे वसवस्मृतः ७
वज्रादिपञ्चमस्यैव बलिं कु र्याद्यथाक्रमम्
द्वारे च वाहने चैव स्वकीयपरिवारके ८
+++++++++ महापीठे समर्पयेत्
अथवान्यप्रकारेण प्रथमावरणादिकान् ९
व्रषादि विद्ये भूतादीनिन्द्राद्यं तु भवादिकम्
स्वयम्भु +++ लिङ्गे +++++++++ १०
भूतान्तमप्यर्षे कु र्याद्विद्येशान्तं तु गाणवे
वृषादि बलिपीठान्तं मानुषं यत्प्रकीर्तितम् ११
अथवा बलिदानं तु लिङ्गे सर्वत्र कथ्यते
प्रथमे वृषभादीनामिन्द्रादीनां द्वितीयके १२
अस्त्रादीनां त्रितीये तु महापीठे समर्पयेत्
सामान्यमेवं कर्तव्यं कृ ते त्रेतायुगेऽपि च १३
द्वापरे च परे वेत्ति कथ्यते बलिदानकम्
कृ ते त्रेतायुगे चैव पञ्चमावरणे बिलिम् १४
द्वितीयादिपञ्चमान्तं वा परे बलिं कु र्याद्यथोचितम्
स्वायम्भुवे देविके चैव पञ्चमावरणान्तकम् १५
आऋषे गाणवे चैव चतुर्थावरणान्तकम्
मानुषे तु विशेषेण त्रितीयावरणान्तकम् १६
अथ वासर्वलिङ्गानां प्रकारेषु त्रयेषु च
कृ त्वा वृषेन्द्राद्यस्त्रान्तमन्तर्बाह्यं विवर्जयेत् १७
चतुर्थावरणं चेत्तु अन्तर्मण्डलवर्जितम्
त्रितीयावरणं चेत्तु अन्तर्बाह्यं विवर्जयेत् १८
द्वितीयावरणं चेत्तु द्वितीयावरणेऽपि च
एकावरणमार्गं चेद्द्वितीये तु विशेषतः १९
प्राकारबलिरेवं स्यान्महापीठमथ श्रुणम्
स्वायम्भुवे देविके चैव पीठमावरणं प्रति २०
आर्षे गाणवे चैव ++ यपीठं प्रकल्पयेत्
++++ विशेषेण पीठमेकं प्रकल्पयेत् २१
अथवा सर्वलिङ्गानां पीठमेकं परं वरम्
कृ ते त्रेतायुगे चैव पीठमावरणं प्रति २२
द्वापरे च कलौ चैव पीठमेकं प्रकल्पयेत्
प्रथमे वा द्वितीये वा त्रितीये वा चतुर्थके २३
पञ्चमे वा प्रकर्तव्यं कल्पयेत्कल्पवित्तमः
एकत्रस्थापितं पीठं प्रकारेष्वपि पञ्चके २४
पूर्वे तु स्थापितं पीठं प्रकारेष्वपि पञ्चके
पूर्वे तु स्थापितं पीठं तु न चालयेत् २५
गजचोरादिचलिते नदीस्रोगेन्यजा भवेत्
प्रासादमण्डपादौ तु सालादौ च विवर्धते २६
प्रषादिपरिवारादि ++++++ शषतः
प्रगारादिं च संप्रद्धो स्थापये तु यथाविधिः २७
जीर्णिते वापि कर्तव्यं संत्यज्यान्त्यं परिग्रहेत्
ततस्तु दोषहीनं चेत्तत्स्थाने चान्त्यदेशके २८
प्रथमादि पञ्च +++++++++++++++
+++++++++ योग्ये तु कल्पयेत् २९
दण्डमानेन कर्तव्यं लिङ्गपीठस्य पादुकान्
त्रिदण्डादिसमारभ्य वा ++ त्रिंशापसानकम् ३०
एकैकदण्डसंवृद्धषट्त्रिंशन्मानमुच्यते
पीठाग्रं वाथ बाह्यं वा मध्यं वा मानमाचरेत् ३१
यथेष्टदेशे कर्तव्यं मानोत्कृ ष्टमथाचरेत्
बाह्यपीठं समादाय अन्तर्ग्राह्यं न कारयेत्
न्यूनमानं न कर्तव्यमधिकं शुभदं भवेत् ३२
तस्मात्सर्वप्रयत्नेन अन्तग्राह्यं न कारयेत्
यदि मोहेन कु रुते कर्ता भर्ता विनश्यति ३३
ग्रामनाशं च दुर्भिक्षं राष्ट्रक्षोभं च संभवेत्
अथवान्यप्रकारेण संरक्ष्य पूर्वविष्टरम् ३४
अन्यपीठं परिग्राह्य चेष्टदेशे समर्पिते वा
पूर्वपीठं समभ्यर्च्य बलिमानादि चान्यके ३५
बेरं वा बलिपीठं वा तद्वस्तु परिगृह्य च
प्रागुगीदिशि संपृद्धौ स्थापयेदिष्टदेशके ३६
प्राकारे प्रथमादौ तु भित्ति वा कल्पयेद्बुधः
पैशाचार्थं प्रकर्तव्यं बाह्यादावरणाद्बहिः ३७
पैशाचबलिपीठं तु कल्प्यं वा हीनमेव च
एवं लिङ्गं युगं प्रेक्ष्य क्रियतां शुभमिच्छया ३८
लिङ्गानामपि सर्वेषामामोदादिक्षिपेद्बुधः
आमोदप्रमुखं चैव सुमुखं दुर्मुखं तथा ३९
अविघ्नं सात्विकं चैव तामसं राजसं +++
विघ्नकर्तारमूध्वे तु आग्नेयादि विदिक्षु च ४०
स्वकीयं परिवारस्य प्रतुमानां तु पूर्वके
इन्द्रादीनां द्वितीये स्याद्वज्रादीनां त्रितीयके ४१
++++ ग्यं तु देवानां पीठमावृतमाचरेत्
लिङ्गानां प्रतिमानां च स्थानसंकटसंयुते ४२
नदीनां च गिरीणां च दुर्गैरन्यैश्च संयुते
बलिदानं प्रकर्तव्यं सव्यापसव्यमार्गतः ४३
निरृतेर्वरुणस्यापि वायोर्देवस्य दक्षिणे
अथवा वामभागे तु यथायोग्यं भमाचरेत् ४४
वामं च दक्षिणं दुर्गं यदि पूर्वे प्रकल्पयेत्
अथवा पश्चिमस्थाने कल्पयित्वा विचक्षणः ४५
अन्येषामपि देवानां स्वस्थानेषु प्रकल्पयेत्
प्राकारं प्रतिसालं तु रक्षार्थं शोभनार्थकम् ४६
प्रथमस्य समं वापि पादोनं वा तदर्धकम्
वक्रावक्रसमाकारं द्वितीयादीनि कल्पयेत् ४७
उत्सेधं भित्तिविस्तारं तथा कु र्याद्विचक्षणः
द्विगुणं त्रिगुणं वाथ कल्पये तु चतुर्गुणम् ४८
प्राकारभित्तिहीनं चेद्बलिं श्रुणं कन्नहि
तस्मात्सर्वप्रयत्नेन भक्तिं कु र्याद्दृढीकृ तम् ४९
प्र ++ सप्रमाणेन पञ्चसालान्तमाचरेत्
यथेष्टदेशे वीथिं च तद्देशे बलिमाचरेत् ५०
प्रासादे बलिदानं वा यानमिष्टा प्रदेशके
वास्तुशून्यं च दुर्गं च तवमेवं समाचरेत् ५१
एकत्र कल्पयेत्पीठः प्राकारेष्वपि पञ्चसु
तत्पीठे सर्वदेवानां बलिं दद्याद्यथाविधि ५२
पञ्चावरणदेवानां महापीठे बलिं क्षिपेत्
उत्सवादिबलिं कृ त्वा तत्पीठे पादबाह्यतः ५३
सन्धिदेवान्समभ्यर्च्य तत्तत्स्थाने विशेषतः
दिनदेवबलिद्रव्यैर्दिनदेवान्प्रपूजयेत् ५४
ब्रह्माणं शङ्करे स्थाने बलिं कृ त्वा विशेषतः
अथवा वारुणे वापि बलिं दद्याद्यथोचितम् ५५
नित्ये नैमित्तिके चैव बलिं सर्वत्र दापयेत्
सर्वत्र बलिदानान्ते माहापीठे समर्चयेत् ५६
यत्र देशे महापीठं तत्र देशे समर्पयेत्
एवं सं कल्पयेद्धीमान्सर्वसम्पत्सुखावहम् ५७
उत्तरस्वायम्भुवे बलिदानविधिपटलः